Local Templates
Gita 1-1 धृतराष्ट्रः उवाच "सञ्जय! धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः च पाण्डवाः एव किम् अकुर्वत ?"
Gita 1-2 सञ्जय उवाच -- तदा पाण्डवानीकं व्यूढं दृष्ट्वा तु राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्
Gita 1-3 आचार्य द्रुपदपुत्रेण तव धीमता शिष्येण व्यूढां एतां पाण्डुपुत्राणां महतीं चमूं पश्य
Gita 1-4 अत्र शूराः महेश्वासाः युधि भीमार्जुनसमाः युयुधानः विराटः च महारथः द्रुपदः च ....
Gita 1-5 .... धृष्टकेतुः, चेकितानः, वीर्यवान् काशिराजः च, पुरुजित् कुन्तिभोजः च, नरपुङ्गवः शैब्यः च ....
Gita 1-6 .... विक्रान्तः युधामन्युः, वीर्यवान् उत्तमौजाः च, सौभद्रः, द्रौपदेयाः च । सर्वः एव महारथाः ।
Gita 1-7 द्विजोत्तम! अस्माकं तु ये विशिष्टाः मम सैन्यस्य नायकाः तान् निबोध । संज्ञार्थं तान् ते ब्रवीमि ।
Gita 1-8 भवान्, भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा, विकर्णः च, तथ एव सौमदत्तिः च
Gita 1-9 अन्ये बहवः शूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः च । सर्वे युद्धविशारदाः ।
Gita 1-10 अस्माकं तत् भीष्माभिरक्षितं बलम् अपर्याप्तम् । एतेषां तु इदं भीमाभिरक्षितं बलं पर्याप्तम् ।
Gita 1-11 भवन्तः सर्वे एव हि च सर्वेषु अयनेषु यथाभागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु ।
Gita 1-12 तस्य हर्षं सञ्जनयन् प्रतापवान् कुरुवृद्धः पितामहः सिंहनादम् उच्चैः विनद्य शङ्खं दध्मौ ।
Gita 1-13 ततः शङ्खाः च भेर्यः च पणवानकगोमुखाः सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् ।
Gita 1-14 ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः च पाण्डवः एव दिव्यौ शङ्खौ प्रदध्मतुः ।
Gita 1-15 हृषीकेशः पाञ्चजन्यं, धनञ्जयः देवदत्तं, भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं दध्मौ । ....
Gita 1-16 कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं, नकुलः सहदेवः च सुघोषमणिपुश्पकौ .
Gita 1-17 परमेष्वासः काश्यः च, महारथः शिखण्डी च, धृष्टद्युम्नः, विराटः च, अपराजितः सात्यकिः च ....
Gita 1-18 पृथिवीपते! द्रुपदः, द्रौपदेयाः च, महाबाहुः सौभद्रः च, सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।
Gita 1-19 सः तुमुलः घोषः नभः च पृथिवीं च एव व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
Gita 1-20 अथ शस्त्रसंपाते प्रवृत्ते व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिध्वजः पाण्डवः धनुः उद्यम्य...
Gita 1-21 .... तदा इदं वाक्यम् हृषीकेशं आह -- [अर्जुनः उवाच] "अच्युत! उभयोः सेनयोः मध्ये मे रथं स्थापय"।
Gita 1-22 एतान् अवस्थितान् योद्धुकामान् यावत् अहं निरीक्षे; अस्मिन् रणसमुद्यमे मया कैः सह योद्धव्यम् ।
Gita 1-23 ये दुर्बुद्धेः धार्तराष्ट्रस्य प्रियचिकीर्षवः एते अत्र समागताः योत्स्यमानान् अहं अवेक्षे ।
Gita 1-24 सञ्जयः उवाच "भारत! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये रथोत्तमं स्थापयित्वा ..."
Gita 1-25 .... भीष्मद्रोणप्रमुखतः, सर्वेषां महीक्षितां च, उवाच "पार्थ! एतान् समवेतान् कुरून् पश्य" इति ।
Gita 1-26 अथ पार्थः तत्र स्थितान् पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान् तथा सखीन् अपश्यत् ।
Gita 1-27 श्वसुरान् च सुहृदः एव, उभयोः सेनयोः अपि । सः कौन्तेयः तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य ...
Gita 1-28
परया कृपया आविष्टः विषीदन्, इदम् अब्रवीत्
अर्जुनः उवाच "कृष्ण! इमं युयुत्सुं स्वजनं समुपस्थितं दृष्ट्वा..."
Gita 1-29 मम गात्राणि सीदन्ति, मुखं परिशुष्यति च । मे शरीरे वेपथुः च, रोमहर्षः जायते च ।
Gita 1-30 हस्तात् गाण्डीवं संस्रते च, त्वक् परिदह्यते एव च, न अवस्थातुं शक्नोमि च, मे मनः भ्रमति इव ।
Gita 1-31 केशव! विपरीतानि निमित्तानि पश्यामि च । आहवे स्वजनम् हत्वा श्रेयः च न अनुपश्यामि ।
Gita 1-32 कृष्ण! न विजयं काङ्क्षे, न राज्यं च, सुखानि च । गोविन्द! किं नः राज्येन, किं भोगैः, जीवितेन वा ।
Gita 1-33 येषाम् अर्थे नः राज्यम्, भोगाः, सुखानि च काङ्क्षितम्, ते इमे प्राणान् च धनानि त्यक्त्वा युद्धे अवस्थिताः ।
Gita 1-34 आचार्याः, पितरः, पुत्राः, तथा एव पितामहाः च । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, तथा सम्बन्धिनः ।
Gita 1-35 मधुसूदन! घ्नतः अपि एतान् न हन्तुम् इच्छामि; त्रैलोकराज्यस्य हेतोः अपि, किं नु महीकृते ।
Gita 1-36 जनार्दन! धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ? एतान् आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत् ।
Gita 1-37 तस्मात् वयं धार्तराष्ट्रान् स्वबन्धवान् हन्तुं न अर्हाः । माधव! स्वजनम् हत्वा कथम् हि सुखिनः स्याम?।
Gita 1-38 यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं, मित्रद्रोहे पातकं च न पश्यन्ति ....
Gita 1-39 ... जनार्दन! कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?
Gita 1-40 कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति । धर्मे नष्टे कृत्स्नं कुलं अधर्मः अभिभवति उत ।
Gita 1-41 कृष्ण! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । वार्ष्णेय! स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।
Gita 1-42 सङ्करः कुलघ्नानाम्, कुलस्य च, नरकाय एव । एषां पितरः लुप्तपिण्डोदकक्रियाः पतन्ति हि ।
Gita 1-43 एतैः वर्णसङ्करकारकैः दोषैः कुलघ्नानां शाश्वताः जातिधर्माः, कुलधर्माः च उत्साद्यन्ते ।
Gita 1-44 जनार्दन! उत्सन्नकुलधर्माणां मनुष्याणां नियतं नरके वासः भवति इति अनुशुश्रुम ।
Gita 1-45 अहो बत! वयं महत्पापं कर्तुं व्यवसिताः यत् राज्यसुखलोभेन स्वजनं हन्तुं उद्यताः ।
Gita 1-46 यदि शस्त्रपाणयः धार्तराष्ट्राः अप्रतीकारम् अशस्त्रं मां रणे हन्युः तत् मे क्षेमतरं भवेत् ।
Gita 1-47 सञ्जयः उवाच -- एवम् उक्त्वा शोकसंविग्नमानसः अर्जुनः सशरं चापं विसृज्य सङ्ख्ये रथोपस्थे उपाविशत् ।
अन्वयसूचिका | अन्वयः २ >