Gitabhashya of Bhagavad Ramanuja -- 2.9--2.10

Only put the Sloka Trail at the top of the page if it's a Sloka page

एवम् अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मम् अप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् "अस्थानस्नेहकारुण्यधर्माधर्मधिया+आकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम"|
एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस्सेनयोर्युद्धाय+उद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन्निव+इदम् उवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं "न त्वेवाहं जातु नासम" इत्यारभ्य "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इत्येतदन्तं वचनम् उवाच+इत्यर्थः |

Only put the Sloka Trail at the foot of the page if it's a Sloka page