Gitabhashya of Bhagavad Ramanuja -- 2.8

Only put the Sloka Trail at the top of the page if it's a Sloka page

एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयादधर्म्यातस्माकं धर्माधर्मावजानद्भिः तैर्हननमेव गरीय इति मे प्रतिभाति+इत्युक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तत्शरणागताय तव शिष्याय मे ब्रूहि+इत्यतिमात्रकृपणो भगवत्पादावुपससाद|

Only put the Sloka Trail at the foot of the page if it's a Sloka page