Gitabhashya of Bhagavad Ramanuja -- 2.5

Only put the Sloka Trail at the top of the page if it's a Sloka page

पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन्निदम् उवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथं अहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैर्भुज्यमानांस्तान् एव भोगान् तद्रुधिरेण+उपसिच्य तेष्वासनेषु+उपविश्य भुञ्जीय?

Only put the Sloka Trail at the foot of the page if it's a Sloka page