Gitabhashya of Bhagavad Ramanuja : 2.1 -- 2.3
एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्याक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धाय+उत्तिष्ठ+इति श्रीभगवान् उवाच ।