Gitabhashya of Bhagavad Ramanuja : 1.26 -- 1.47

Only put the Sloka Trail at the top of the page if it's a Sloka page

⚠ (:stylesheet:) #wikitext { word-wrap: break-word; /* Internet Explorer 5.5+ */ overflow: auto } (:stylesheetend:)

स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिरतिघोरैर्मारणैः जतुगृहदाहादिभिरसकृद्वञ्चितो ऽपि परमपुरुषसहायेनात्मना हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथा ऽहं न योत्स्यामि इत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ।

Only put the Sloka Trail at the foot of the page if it's a Sloka page