Gitabhashya of Bhagavad Ramanuja : 1.20 -- 1.21
अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमने ऽवस्थितम् आश्रितवात्सल्यविवशतया स्वसारथ्ये ऽवस्थितम्, "युयुत्सून् यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय" इत्यचोदयत् ।