Vedarthasangraha Text 6

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

< Part 5 | Index

(१२१) कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वमेव शेषित्वम् इत्युक्तं भवति । कार्यत्वमेव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वम् इति चेत् । को ऽयं परोद्देशो नाम+इति । अयमेव हि विचार्यते । उद्देश्यत्वं नाम+ईप्सितत्वसाध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृतिप्रयोजनत्वम् इति चेत्पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स च+इच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव । अयमेव हि सर्वत्र शेषशेषिभावः । परगतातिशयाधानेच्छोपादेयत्वमेव यस्य स्वरूपं स शेषः परः शेषी । फलोत्पत्तिइच्छया यागादेस्तत्प्रयत्नस्य च+उपादेयत्वं यागादिसिद्धिइच्छया+अन्यत्सर्वम् उपादेयम् ।

(१२२) एवं गर्भदासादीनाम् अपि पुरुषविशेषातिशयाधानोपादेयत्वमेव स्वरूपम् । एवम् ईश्वरगतातिशयाधानेच्छया+उपादेयत्वमेव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वरशेषत्वमेव सर्वस्य च+ईश्वरः शेषी+इति सर्वस्य वशी सर्वस्य+ईशानः पतिं विश्वस्य+इत्याद्युक्तम् । कृतिसाध्यं प्रधानं यत्तत्कार्यम् अभिधीयत इत्ययम् अर्थः श्रद्दधानेष्वेव शोभते ।

(१२३) अपि च स्वर्गकामो यजेत+इत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते । साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयो ऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते । यथा भोक्तुकामो देवदत्तगृहं गच्छेदित्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणादेव प्रागज्ञातम् अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते । एवम् अत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तं यजेत+इति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धेः कर्तृत्वकल्पनमेव हि नियोज्यत्वम् । यथोक्तं

नियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते ।

इति । यष्टृत्वानुगुणं तद्बोधृत्वम् इति चेत् । देवदत्तः पचेदिति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणम् इति गमने कर्तृत्वकल्पनं न युज्यते ।

(१२४) किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्यपूर्वम् आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेरिति चेत् । का+अत्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिराराधितः परमेश्वरो भगवान्नारायणस्तत्तदिष्टं फलं ददाति+इति वेदविदो वदन्ति । यथा+आहुर्वेदविदग्रेसरा द्रमिडाचार्याः फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतो ऽलं फलाय+इति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर्यागदानहोमादिभिरिन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिराराधितस्तेषाम् इष्टानि फलानि प्रयच्छति+इत्यर्थः । तथा च श्रुतिः इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिरिति । इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्म+उच्यते । तद्विश्वं बिभर्ति इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतया+अवस्थितः परमपुरुषः स्वयमेव बिभर्ति स्वयमेव स्वीकरोति । भुवनस्य नाभिः ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः तैस्तैः कर्मभिराराधितस्तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिरित्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयमेव+इत्याह तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा इति । यथोक्तं भगवता

यो यो यां यां तनुं भक्तः श्रद्धया+अर्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तस्य श्रद्धया युक्तस्तस्याराधनं ईहते । लभते च ततः कामान् मया+एव विहितान् इह तान् ॥ इति ।

यां यां तनुम् इति+इन्द्रादिदेवताविशेषास्तत्तदन्तर्यामितया+अवस्थितस्य भगवतस्तनवः शरीराणि+इत्यर्थः ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

इत्यादि । प्रभुरेव च+इति सर्वफलानां प्रदाता च+इत्यर्थः । यथा च

यज्ञैस्त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत । यैः स्वधर्मपरैर्नाथ नरैरादाधितो भवान् । ते तरन्त्यखिलामेतां मयाम् आत्मविमुक्तये ॥

इति । सेतिहासपुराणेषु सर्वेष्वेव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस्तैः कर्मभिराराधितः पुरुषोत्तमस्तत्तदिष्टं फलं ददाति+इति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैरित्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्वन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतया+अवस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्युक्तं भवति । यथा+उक्तं भगवता

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

इति । तस्मादग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतया+अभ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति । यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधति+इति न किंचिदनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकम् अन्ये वदन्ति । लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति ।

(१२५) अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति । वायव्यं श्वेतम् आलभत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेन+उपधावति स एवैनं भूतिं गमयति+इत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः का+अपि दृश्यत इति फलसाधनत्वावगतिरौपादानिकी+इत्यपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयति+इत्यर्थः । तस्माद्ब्राह्मणाय नापगुरेत+इत्यत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगी+इति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य किम् इत्युपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तदेतद्युष्मासु दृश्यते । शतयातनासाधनत्वम् अपि नादृष्टद्वारेण । चोदितान्यनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्यामेव भवन्ति । एष ह्येवानन्दयति अथो सो ऽभयं गतो भवति अथ तस्य भयं भवति भीषा+अस्माद्वा+अतः पवते भीषा+उदेति सूर्यो भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति । यथा+उक्तं द्रमिडभाष्ये तस्याज्ञया धावति वायुर्नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्ति+इति । तत्संकल्पनिबन्धना हि+इमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात्स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च ।

(१२६) परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस्तत्प्रसादात्तत्प्राप्तिपर्यन्तानि सुखान्यभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस्तन्निग्रहादेव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवता

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधाय

मयि सर्वाणि कर्माणि संन्यस्य

इति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्य

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टान् अचेतसः ॥

इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनरपि स्वाज्ञानुपालनम् अकुर्वताम् आसुरप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश्च+उक्ता

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ इति । सर्वकर्माण्यपि सदा कुर्वाणो मद्व्य्पाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदम् अव्ययम् ॥

इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं च+उक्तम् । अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्यादिति सर्वमेकशास्त्रम् इति वेदवित्सिद्धान्तः ।

(१२७) तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूपदिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवैश्वर्यशीलाद्यनवधिकमहिममहिसीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश्च सहस्रशः श्रुतयः सन्ति । वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकमेवम् अक्षिणी । य एषो ऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमयो ऽमृतो हिरण्मयः मनोमय इति मनसा+एव विशुद्धेन गृह्यत इत्यर्थः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि विद्युद्वर्णात्पुरुषादित्यर्थः नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युदिवाभाति+इत्यर्थः । मनोमयः प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तो ऽवाक्यानादरः । माहारजनं वास इत्याद्याः । अस्य+ईशाना जगतो विष्णुपत्नी । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ।तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यदेकम् अव्यक्तम् अनन्तरूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्याध्यक्षः परमे व्योमन् । तदेव तदु भव्यमा इदं तदक्षरे परमे व्योमन्नित्यादिश्रुतिशतनिश्चितो ऽयम् अर्थः ।

(१२८) तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात्सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्ति+इति विज्ञायते । ये सूरयस्ते सदा पश्यन्ति+इति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षे ऽप्यनेकविधानं न संभवति+इति चेत् । न । अप्राप्तत्वात्सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तं तद्गुणास्ते विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टा इति । यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथा+अत्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयति+इति न कश्चिद्विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश्च प्रकरणपथिताश्चाप्रकरणपथिताश्च स्वार्थं सर्वं यथावस्थितमेवाप्राप्तम् अविरुद्धं ब्राह्मणवद्बोधयन्ति+इति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् । नियुक्तार्थप्रकाशनां च देवतादिष्वप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणमेव । न+इयं श्रुतिर्मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्ति+इत्येकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्यर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्ति+इत्युक्तम् । किं पुनः सिद्धवस्तुन्येव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् । ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपमेव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्वव्यतिरेकदर्शनात् । नैवम् । क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन्नित्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच्च । विष्ण्वाख्यं परमं पदम् इति विशेषणादन्यदपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तदिदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।

(१२९) एतदुक्तं भवति क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् ।

सर्गस्थित्यन्तकालेषु त्रिविधा+एव प्रवर्तते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥

इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् ।

समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।

इत्यत्र भगवत्स्वरूपम् । त्रीण्यप्येतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वम् इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वादेव परमं पदम् । इतरयोरपि भगवत्प्राप्तिगर्भत्वादेव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर्भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् ।

(१३०) अनृतरूपतिरोधानं क्षेत्रज्ञकर्म+इति कथम् अवगम्यत इति चेत् ।

अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥ संसारतापान् अखिलान् अवाप्नोत्यतिसंततान् । तया तिरोहितत्वाच्च

इत्यादिवचनात् ।

(१३१) परस्थानप्राप्तिरपि भगवत्प्राप्तिगर्भा+एव+इति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तं वसन्तम् इत्यर्थः । अनेन त्रिगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः परस्ताद्विष्णोर्वासस्थानम् इति गम्यते । वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तादित्यत्रापि तमःशब्देन सा+एव प्रकृतिरुच्यते । केवलस्य तमसो ऽनवस्थानादेव । रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात्तमसः परस्ताद्वसन्तं महान्तम् आदित्यवर्णं पुरुषं अहं वेद+इत्ययम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्निति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते । अक्षरे परमे व्योमन्नित्यस्य स्थानस्याक्षरत्वश्रवणात्क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्यवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परं पदम् इत्यत्रापि विप्रासो मेधाविनः, विपन्यवः स्तुतिशीलाः, जागृवांसः अस्खलितज्ञानास्त एवास्खलितज्ञानास्तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।

(१३२) एतेषां परिजनस्थानादीनां सदेव सोम्य+इदम् अग्र आसीदित्यत्र ज्ञानबलैश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात्सदेवैकमेवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते । एषाम् अपि कल्याणगुणैकदेशत्वादेव सदेव सोम्य+इदम् अग्र आसीदित्यत्र+इदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच्च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्यपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्यपि विकारास्पदत्वेनास्थिरत्वाद्तद्विपरीतं स्थिरत्वमेषां सत्यपदेन+उच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्वनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणां च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।

(१३३) इतिहासपुराणयोर्वेदोपबृंहणयोश्चायम् अर्थ उच्यते

तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥

इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे

व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ शारा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥ विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥

श्रीमद्वैष्णवपुराणे

समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर्महत् ॥ मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथा+एव+इयं द्विजोत्तम ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषा+आत्मनस्तनुम् ॥ एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परं स्थानं यद्वै पश्यन्ति सूरयः ॥ कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥

महाभारते च

दिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर्गम्यमाद्यम् । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या ॥ कालः स पचते तत्र न कालस्तत्र वै प्रभुः ।

इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश्च वदति अन्तस्तद्धर्मोपदेशादिति

(१३४) यो ऽसावादित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश्चारुतरातम्रकरतलानुरक्ताङ्गुलीभिरलंकृतस्तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर्लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस्त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्यवगम्यते । तद्धर्मोपदेशात् स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानां स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्य+ईशानः अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तं विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः ।

(१३५) वाक्यकारैश्चैतत्सर्वं सुस्पष्टं आह हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात्तथा+उदयात्पाप्मनाम् इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धं स्यात्तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्यादित्युपासितुरनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वा+अतीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशादिति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात्स्वरूपभूतगुणास्तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात्स्वरूपभूतम् इत्यर्थः । भाष्यकारेणैतद्व्याख्यातम् अञ्जसा+एव विश्वसृजो रूपं तत्तु न चक्षुषा ग्राह्यं मनसा त्वकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन+इति श्रुतेः, न ह्य्रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तादिति प्रकरणान्तरनिर्देशाच्च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच्चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वादात्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशादपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्म+इत्यवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात्स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथा+अस्य+ईशना जगतो विष्णुपत्नी ह्रीश्च ते लक्ष्मीश्च पत्न्यौ सदा पश्यन्ति सूरयः तमसः परस्तात् क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशादेव तथा+एव सन्ति+इत्यवगम्यते । यथा+आह भाष्यकार यथाभूतवादि हि शास्त्रम् इति ।

(१३६) एतदुक्तं भवति यथा सत्यं ज्ञानं अनन्तं ब्रह्म+इति निर्देशात्परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित् परा+अस्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति+इत्यादिनिर्देशान्निरतिशयासंख्येयाश्च गुणाः सकल+इतरविलक्षणाः । तथादित्यवर्णम् इत्यादिनिर्देशाद्रूपपरिजनस्थानादयश्च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।

(१३७) वेदाः प्रमाणं चेद्विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितमेव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्युक्तम् । यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत्संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद्वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत्कल्पयितुं युक्तम् । तेषु च साक्षाद्वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्वनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी । अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्च शब्दस्यापि बोधकत्वशक्तिराश्रयणीया ॥

(१३८) ननु चेन् इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किम् इत्यपेक्षते, लिङ्गादिवदिति उच्यते यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दो ऽप्यर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दो ऽप्यर्थविशेषस्य लिङ्गम् इत्यनुमानं स्यात् नैवम् । शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वम् इति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद्बोधकत्वशक्तिरेव+इति निश्चीयते ।

(१३९) एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानाम् उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस्ते पौरुषेयाः शब्दा इत्युच्यन्ते । यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदा+अपौरुषेयास्ते च वेदा इत्य+उच्यन्ते । एतदेव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेण+उच्चार्यमाणत्वम् । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात्फलविशेषं च बोधयन्ति । परमपुरुषवत्तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यमेव । वेदानाम् अनन्तत्वाद्दुरवगाहत्वाच्च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणि+इतिहासपुराणानि च चक्रुः । लौकिकाश्च शब्दा वेदराशेरुद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत्प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश्चेच्छन्दस्यैवं भाषायामेवम् इति लक्षणभेदः कथम् उपपद्यते । उच्यते तेषामेव शब्दानां तस्यामेवानुपूर्व्यां वर्तमानां तथा+एव प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद्दोषः ।

(१४०) एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर्नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् । सर्वं खल्विदं ब्रह्म ऐतदात्म्यम् इदं सर्वं तत्त्वम् असि श्वेतकेतो

एनमेके वदन्त्यग्निं मरुतो ऽन्यो प्रजापतिम् । इन्द्रमेके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च । त्रयो ऽग्नयश्चाहुतयश्च पञ्च सर्वे देव देवकीपुत्र एव ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वम् ओंकारः परंतपः । ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥ जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥

इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति च+उक्तम् । सत्यसंकलपं परं ब्रह्म स्वयमेव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयमेव विभज्य तस्माद्भूतसूक्ष्माद्वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिदधिष्ठितैर्महाभूतैरन्योन्यसंसृष्टैः कृत्स्नं जगद्विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते । यदिदं महाभूतसूक्ष्मं वस्तु तदेव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन च+उच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मा+एव प्रकृतिपुरुषशब्दाभिदेयः । सो ऽकामयत बहु स्यां प्रजायेय+इति तत्सृष्ट्वा तदेवानुप्रविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवदिति पूर्वोक्तं सर्वम् अनया+एव श्रुत्या व्यक्तम् ।

(१४१) ब्रह्मप्राप्त्युपायश्च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिरेव+इत्युक्तम् । भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव । ननु च सुखं प्रीतिरित्यनर्थान्तरम् । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरम् इति हि लौकिकाः । नैवम् । येन ज्ञानविशेषेण तत्साध्यम् इत्युच्यते स एव ज्ञानविशेषः सुखम् ।

(१४२) एतदुक्तं भवति विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्यभिमतं तद्विषयं ज्ञानमेव सुखं, तदतिरेकि पदार्थान्तरं न+उपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च । ब्रह्मणस्त्वनवधिकातिशयं स्थिरं च+इति । आनन्दो ब्रह्म+इत्युच्यते । विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तदिदं आह रसो वै सः रसं हे एवायं लब्ध्वा+आनन्दी भवति+इति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवति+इत्यर्थः । परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात् । ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवति+इत्यर्थः । तदेवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेरनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वादात्मनः शेषत्वात्प्रतिबंधितया+अनुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत्परं ब्रह्मैवैनम् आत्मानं प्रापयति+इति ।

(१४३) ननु चात्यन्तशेषता+एवात्मनो ऽनवधिकातिशयसुखम् इत्युक्तं भवति । तदेतत्सर्वलोकविरुद्धम् । तथा हि सर्वेषामेव चेतनानां स्वातन्त्र्यमेव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश्च

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।

तथा हि

सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ।

इति । तदिदम् अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् । तथा हि शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्नेवाहम् इति संसारिणां प्रतीतिः । आत्माभिमानो यादृशस्तदनुगुणा+एव पुरुषार्थप्रतीतिः । सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्मादात्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितम् । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् । तच्च परशेषतैकस्वरूपम् । यथावस्थितात्माभिमाने तदनुगुणा+एव पुरुषार्थप्रतीतिः । आत्मा ज्ञानमयो ऽमल इति स्मृतेर्ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्य+इत्यादि श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः सिंहव्याघ्रादिशरीरात्माभिमानवत्स्वातन्त्र्याभिमानो ऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः । अतः कर्मकृतमेव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस्तदेव स्थिरम् अनवधिकातिशयं च कं ब्रह्म खं ब्रह्म आनन्दो ब्रह्म सत्यं ज्ञानम् अनन्तं ब्रह्म+इति श्रुतेः । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेण+उक्तम्

नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । वस्त्वेकमेव दुःखाय सुखाय+ईर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥

सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः । तदेकान्तता पुण्यपापकृतेत्यर्थः । एवम् अनेकपुरुषापेक्षया कस्यचित्सुखमेव कस्यचिद्दुःखं भवति+इत्यवस्थां प्रतिपाद्य, एकस्मिन्नपि पुरुषे न व्यवस्थितम् इत्याह

तदेव प्रीयते भूत्वा पुनर्सुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ।

इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतम् । अतः कर्मावसाने तदपैति+इत्यर्थः ।

(१४४) यत्तु सर्वं परवशं दुःखम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात्तद्व्यतिरिक्तं प्रति शेषता दुःखमेव+इत्युक्तम् । सेवा श्ववृत्तिराख्यातेत्यत्राप्यसेव्यसेवा श्ववृत्तिरेव+इत्युक्तम् । स ह्याश्रमैः सदा+उपास्यः समस्तैरेक एव त्विति सर्वैरात्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव । यथा+उक्तं भगवता

मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥

इति+इयमेव भक्तिरूपा सेवा ब्रह्मविदाप्नोति परं तमेवं विद्वान् अमृत इह भवति ब्रह्म वेद ब्रह्मैव भवति+इत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम् । यमेवैष वृणुते तेन लभ्य इति विशेषणाद्यमेवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश्च प्रियतमः । यस्य भगवत्यनवधिकातिशया प्रीतिर्जायते स एव भगवतः प्रियतमः । तदुक्तं भगवता

प्रियो हि ज्ञानिनो ऽत्यर्थं अहं स च मम प्रियः ।

इति । तस्मात्परभक्तिरूपापन्नमेव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् । यथा+उक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम्

न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यति+इति+इह ॥

धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोति+इत्यर्थः । भक्त्या त्वनन्न्यया शक्य इत्यनेनाइकार्थ्यात् । भक्तिश्च ज्ञानविशेष एव+इति सर्वम् उपपन्नम् ।

(१४५) सारासारविवेकज्ञा गरीयांसो विमत्सराः । प्रमाणतन्त्राः सन्ति+इति कृतो वेदार्थसङ्ग्रहः ॥