Vedarthasangraha Text 3

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

< Part 2 | Index | Part 4 >

(४१) ननु च भवतो ऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्यः । स च स्वयंप्रकाशः । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानम् अवश्यम् आश्रयणीयम् । स्वरूपप्रकाशे सति स्वात्मन्याकारान्तराध्यासायोगात् । अतो भवतश्चायं समानो दोषः । किं चास्माकमेकस्मिन्नेवात्मनि भवदुदीरितं दुर्घटत्वं भवताम् आत्मानन्त्याभ्युपगमात्सर्वेष्वयं दोषः परिहरणीयः ।

(४२) अत्र+उच्यते स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशयापरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकरस्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजातान्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कारक्षमभगवद्द्वैपायनपराशरवाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवादमन्त्रस्वरूपवेदमूलेतिहासपुराणधर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदायर्ग्यजुःसामाथर्वरूपानन्तशाखं वेदं चाभ्युपगच्छताम् अस्माकं किं न सेत्स्यति । यथा+उक्तं भगवता द्वैपायनेन महाभारते

यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् । द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥ कालं च पचते तत्र न कालस्तत्र वै प्रभूः । एते वै निरयास्तात स्थानस्य परमात्मनः ॥ अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् । क्रीडा हरेरिदं सर्वं क्षरम् इत्यवधार्यताम् ॥ कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥

इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वम् इत्यर्थः ।

भगवता पराशरेणाप्युक्तं शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दः सर्वकारणकारणे ॥ ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ एवमेष महाशब्दो मैत्रेय भगवान् इति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दो ऽयं न+उपचारेण त्वन्यत्र ह्युपचारतः ॥ एवंप्रकारम् अमलं सत्यं व्यापकम् अक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥ क्रीडतो बालकस्य+इव चेष्टास्तस्य निशामय ॥

इत्यादि । मनुना+अपि

प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम् ।

इत्युक्तम् । याज्ञवल्क्येनापि

क्षेत्रस्य+ईश्वरज्ञानाद्विशुद्धिः परमा मता ।

इति । आपस्तम्बेनापि पूः प्राणिनः सर्व एव गुहाशयस्य+इति । सर्वे प्राणिनो गुहाशयस्परमात्मनः पूः पुरं शरीरम् इत्यर्थः । प्राणिन इति सजीवात्मभूतसंघातः ।

(४३) ननु च किम् अनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवम् अभ्युपगच्छताम् अस्माकम् आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वम् इदं परिहृतम् । भवस्तु प्रकाश एव स्वरूपम् इति प्रकाशो न धर्मभूतस्तस्य संकोचविकासौ वा नाब्युपगम्येते । प्रकाशप्रसारानुत्पत्तिमेव तिरोधानभूताः कर्मादयः कुर्वन्ति । अविद्या चेत्तिरोधानं तिरोधानभूततया ऽविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वमेव+उक्तम् । अस्माकं त्वविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाशः संकुचितः । तेन देवादिस्वरूपात्माभिमानो भवति+इति विशेषः । यथा+उक्तम्

अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ यथा क्षेत्रशक्तिः सा वेष्टिता नृप सर्वगा । संसारतापान् अखिलान् अवाप्नोत्यतिसंततान् ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥

इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।

(४४) अपि चाच्छादिकाविद्या श्रुतिभिश्चाइक्योपदेशबलाच्च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश्च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोषः स्यादिति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश्चानादित्वे ऽपि मिथ्यारूपत्वादेव ब्रह्मदृश्यत्वेनैवानादित्वात्तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच्च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वादनिर्मोक्ष एव ।

(४५) अत एव+इदम् अपि निरस्तम् एकमेव शरीरं जीववत्, निर्जीवानि+इतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टुः शरीरमेकमेव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वमेव । अनेनैकेनैव परिकल्पितत्वाज् जीवा मिथ्याभूता इति ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वादेकस्मिन्नपि शरीरे शरीरवज् जीवभावस्य च मिथ्यारूपत्वात्सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश्च मिथ्यारूप इत्येकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद्विशेषः । अस्माकं तु स्वप्ने द्रष्टुः स्वशरीरस्य तस्मिन्नात्मसद्भावस्य च प्रबोधवेलायाम् अबाधितत्वान् अन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात्ते सर्वे मिथ्याभूताः स्वशरीरमेकं तस्मिञ् जीवभावश्च परमार्थ इति विशेषः ।

(४६) अपि च केन वा विद्यानिवृत्तिः सा कीदृशी+इति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश्चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच्च सद्वा+असद्वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनरविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन्निवृत्तिस्तत्प्राग् अप्यविशिष्टम् इति वेदान्तज्ञानात्पूर्वमेव निवृत्तिः स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात्संसार इति भवद्दर्शनं विहन्यते ।

(४७) किञ् च निवर्तकज्ञानस्याप्यविद्यारूपर्वात्तन्निवर्तनं केन+इति वक्तव्यम् । निवर्तकज्ञानं स्व+इतरसमस्तभेदं निवर्त्य क्षणिकत्वादेव स्वयमेव विनश्यति दावानलविषनाशनविषान्तरवदिति चेन्न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात्तद्विनाशरूपा विद्या तिष्ठत्येव+इति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यमेव । दावाग्न्यादीनाम् अपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीया+एव ।

(४८) अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य को ऽयं ज्ञाता । अध्यासरूप इति चेन्न । तस्य निषेधतया निवर्तकज्ञानकर्मत्वात्तत्कर्तृत्वानुपपत्तेः । ब्रह्मस्वरूप एव+इति चेन्न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपम् उताध्यस्तम् । अध्यस्तं चेदयम् अध्यासस्तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्येव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतया+अनवस्था+एव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वमेव हीयते । कस्यचित्कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन्निवर्तकज्ञानम् अप्यनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे ऽस्मदीय एव पक्षः परिगृहीतः स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतम् इति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेन+इत्यस्यामेव छेदनक्रियायाम् अस्याश्छेदनक्रियायाश्छेत्तृत्वस्य च छेद्यान्तर्भाववचनवदुपहास्यम् ।

(४९) अपि च निखिलभेदनिवर्तकम् इदम् ऐक्यज्ञानं केन जातम् इति विमर्शनीयम् । श्रुत्या+एव+इति चेन्न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात्प्रपञ्चबाधकज्ञानस्य+उत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातम् अपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुरियं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुरियं न सर्प इत्युक्ते ऽप्ययं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवतः श्रवणवेलायामेव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेरपि भ्रान्तिमूलत्वं ज्ञातम् इति । निवर्तकज्ञानस्य ज्ञातुस्तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वम् उच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर्मिथ्यात्वम् आपतति+इति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगतपित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत्त्वम् अस्यादिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद्भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।

(५०) ननु च स्वप्ने कस्मिंश्चिद्भये वर्तमाने स्वप्नदशायामेवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर्दृष्टा । तद्वदत्रापि संभवति+इति । नैवम् । स्वप्नवेलायामेव सो ऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिरेव दृष्टेति न कश्चिद्विशेषः ।

(५१) श्रवणवेलायामेव सोऽपि स्वप्न इति ज्ञातमेव+इत्युक्तम् । यदपि च+इदम् उक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपम् अपि शास्त्रम् अद्वितीयं ब्रह्म+इति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात्तनबाधादर्शनाद्ब्रह्म सुस्थितमेव+इति । तदयुक्तम् । शून्यमेव तत्त्वम् इति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यम् इति चेत् । सदद्वितीयं ब्रह्म+इति वाक्यम् अपि भ्रान्तिमूलम् इति त्वया+एव+उक्तम् । पश्चात्तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैव+इति विशेषः । सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश्च स्वपक्षसाधनप्रमाणपारमार्थ्यानब्युपगमेनाभियुक्तैर्वादानधिकार एव प्रतिपादितः । अधिकारो ऽनभ्युपायत्वान्न वादे शून्यवादिनः । इति ।

(५२) अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान्निर्दोषं शास्त्रम् अनन्यथासिद्धं प्रत्यक्षस्य बाधकम् इति चेत् । केन दोषेण जातं प्रत्यक्षम् अनन्तभेदविषयम् इति वक्तव्यम् । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षम् इति चेत् । हन्त तर्ह्यनेनैव दोषेण जातं शास्त्रम् अपि+इत्येकदोषमूलत्वाच्छास्त्रप्रत्यक्षयोर्न बाध्यबाधकभावसिद्धिः ।

(५३) आकाशवाय्वादिभूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम् । शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्टब्रह्मस्वरूपतदुपासनाद्याराधनप्रकारतत्प्राप्तिपूर्वकतत्प्रसादलभ्यफलविशेषतदनिष्टकरणमूलनिग्रहविशेषविषयम् इति न शात्रप्रत्यक्षयोर्विरोधः । अनादिनिधनाविच्छिन्नपाटसंप्रदायताद्यनेकगुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यम् अवश्यम् अभ्युपगन्तव्यम् इत्यलम् अनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्तिजालतूलनिरसनेन+इत्युपरम्यते ।

(५४) द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्ब्रह्मण्येव+उपाधिसंसर्गादौपाधिकाः सर्वे दोषा ब्रह्मण्येव भवेयुः । ततश्चापहतपाप्मत्वादिनिर्दोषत्वश्रुतयः सर्वे विहन्यन्ते ।

(५५) यथा घटाकाशादेः परिच्छिन्नतया महाकाशाद्वैलक्षण्यं परस्परभेदश्च दृश्यते तत्रस्था गुणा वा दोषा वा+अनवच्छिन्ने महाकाशे न संबध्यन्ते एवम् उपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् । नैतदुपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश्छेदासंभवात्तेनैवाकाशेन घटादयः संयुक्ता इति ब्रह्मणो ऽप्यच्छेद्यत्वाद्ब्रह्मैव+उपाधिसंयुक्तं स्यात् । घटसंयुक्ताकाशप्रदेशो ऽन्यस्मादाकाशप्रदेशाद्भिद्यत इत्चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद्घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद्ब्रह्मण्येव प्रदेशभेदानियमेन+उपाधिसंसर्गादुपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच्च ब्रह्मण्येव+उपाधिसंसर्गः क्षणे क्षणे बन्धमोक्षौ स्याताम् इति सन्तः परिहसन्ति ।

(५६) निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वे ऽपि+इन्द्रियव्यवस्थावद्ब्रह्मण्यपि व्यवस्था+उपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्य+इन्द्रियत्वात्तस्य च प्रदेशान्तराभेदे ऽपि+इन्द्रियव्यवस्था+उपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत्स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्युपाधिसंयोगप्रदेशानियम एव ।

(५७) आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वम् अभ्युपगम्यापि+इन्द्रियव्यवस्था+उकता । परमार्थतस्त्वाकाशो न श्रोत्रेन्द्रियम् । वैकारिकादहंकारादेकादशेन्द्रियाणि जायन्त इति हि वैदिकाः । यथा+उक्तं भगवता पराशरेण

तैजसानि+इन्द्रियाण्याहुर्देवा वैकारिका दश । एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ इति ।

अयम् अर्थः । वैकारिकस्तैजसो भूतादिरिति त्रिविधो ऽहंकारः । स च क्रमात्सात्त्विको राजसस्तामसश्च । तत्र तामसाद्भूतादेराकाशादीनि भूतानि जायन्त इति सृष्टिक्रमम् उक्त्वा तैजसाद्राजसादहंकारादेकदशेन्द्रियाणि जायन्त इति परमतम् उपन्यस्य सात्त्विकाहंकाराद्वैकारिकानि+इन्द्रियाणि जायन्त इति स्वमतम् उच्यते देवा वैकारिकाः स्मृता इति । देवा इन्द्रियाणि । एवम् इन्द्रियाणां आहंकारिकाणां भूतैश्चाप्यायनं महाभारत उच्यते । भौतिकत्वे ऽपि+इन्द्रियाणाम् आकाशादिभूतविकारत्वादेवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत्पुरुषाणाम् इन्द्रियाणि भवन्ति+इति ब्रह्मण्यच्छेद्ये निरवयवे निर्विकारे त्वनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एव+इति श्रद्दधानानामेवायं पक्ष इति शास्त्रविदो न बहु मन्यन्ते । स्वरूपपरिणामाभ्युपगमादविकारत्वश्रुतिर्बाध्यते । निरवद्यता च ब्रह्मणः शक्तिपरिणाम इति चेत् । केयं शक्तिरुच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणो ऽनन्या का+अपि+इति । उभयपक्षे ऽपि स्वरूपपरिणामो ऽवर्जनीय एव ।

(५८) तृतीये ऽपि पक्षे जीवब्रह्मणोर्भेदवदभेदस्य चाभ्युपगमात्तस्य च तद्भावात्सौभरिभेदवच्च स्वावतारभेदवच्च सर्वस्य+ईश्वरभेदतात्सर्वे जीवगता दोषास्तस्यैव स्युः । एतदुक्तं भवति । ईश्वरः स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्येकमृत्पिण्डारब्धघटशरावादिगतान्युदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदुःखादि सर्वम् ईश्वरगतमेव स्यात् ।

(५९) घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितमेवमेव सुरपशुमनुजादिजीवत्वानुपयुक्तेश्वरः सर्वज्ञः सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत्सत्यं स एव+ईश्वर एकेनांशेन कल्याणगुणगणाकरः स एवान्येनांशेन हेयगुणाकर इत्युक्तम् । द्वयोरंशयोरीश्वराविशेषात् । द्ववंशौ व्यवस्थितविति चेत् । कस्तेन लाभः । एकस्यैवानेकांशेन नित्यदुःखित्वादंशान्तरेण सुखित्वम् अपि न+ईश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूरकटकाङ्गुलीयालंकारस्तस्यैवान्यस्मिन् हस्ते मुद्गराभिघातः कालानलज्वालानुप्रवेशश्च तद्वदेव+ईश्वरस्य स्यातिति ब्रह्माज्ञानपक्षादपि पापीयान् अयं भेदाभेदपक्षः । अपरिमितदुःखस्य पारमार्थिकत्वात्संसारिणाम् अनन्तत्वेन दुस्तरत्वाच्च ।

(६०) तस्माद्विलक्षणो ऽयं जीवांश इति चेत् । आगतो ऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्यादयं दोषः । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद्दोषः । प्रत्युत निखिलभुवननियमनादिर्महान् अयं गुणगणः प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तम् ।