Vedarthasangraha Text 2

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

< Part 1 | Index | Part 3 >

(२१) अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश्च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति । नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्युक्तम् । नामरूपे व्याकरवाणि+इत्यत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद्वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते । वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते । एवमेव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदादवुद्धृत्य+उद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत्सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन्नामतया प्रयुक्ताः । तदाह मनुः

सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥

इति । संस्थाः संस्थानानि रूपाणि+इति यावत् । आह च भगवान् पराशरः

नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् । वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥

इति । श्रुतिश्च सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयदिति । सूर्यादीन् पूर्ववत्परिकल्प्य नामानि च पूर्ववच्चकार इत्यर्थः ।

(२२) एवं जगद्ब्रह्मणोरनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतया+एव सत्यत्वं नान्यथेति तत्सत्यम् इत्युक्तम् । यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मना+एव सत्यत्वम् ।

(२३) शोधकवाक्यान्यपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधने ऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान्न निर्विशेषवस्तुसिद्धिः ।

(२४) ननु च ज्ञानमात्रं ब्रह्म+इति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्म+इति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति । गवादिशब्दवत् । तदाह सूत्रकारः तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत् । यावदात्मभावितत्वाच्च न दोष इति । ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्म+इति । कथम् इदम् अवगम्यत इति चेद्यः सर्वज्ञः सर्वविदित्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारम् अरे केन विजानीयादित्यादिश्रुतिशतसमधिगतम् इदम् । ज्ञानस्य धर्ममात्रत्वाद्धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश्च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टमेव ब्रह्म प्रतिपादयन्ति । तत्त्वम् इति द्वयोरपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च ।

(२५) नन्वैक्ये तात्पर्यनिश्चयान्न लक्षणादोषः । सो ऽयं देवदत्त इतिवत् । यथा सो ऽयम् इत्यत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर्न घटत इति द्वयोर्पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन्नैतदेवम् । सो ऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर्भूत्वा संनिहितदेशस्थितिर्वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितया+ऐक्यप्रतिपादनम् अविरुद्धम् । देशद्वयविरोधश्च कालभेदेन परिहृतः । लक्षणायाम् अपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणम् । एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एव+उक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।

(२६) एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोरेव हि द्वयोरैक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्रैक्यं न सामानाधिकरण्यार्थः भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः । तथाभूतयोरैक्यम् उपपादितम् अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश्च न घटते । उपक्रमे हि तदैक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्युक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।

(२७) अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान्न निर्विशेषवस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्यादिशब्दास्तु केनचिद्विशेषेण विशिष्टतया+अवगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषम् अप्यनवबोधकत्वमेव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वादनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य ।

(२८) अथ स्यात् नास्माभिर्निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्युच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस्तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतदेवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देन+इति चेन्न । सो ऽपि सविशेषमेव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश्च प्रकृत्या+अवगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धावप्येतत्स्वभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिरुच्यते ।

(२९) ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयमेव प्रकाशते चेन्न तस्मिन्नन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपे ऽवभासमाने सर्पत्वादिरध्यस्यते । अत एव हि भवद्भिराच्छादिकाविद्या+अभ्युपगम्यते । ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश्चेद्विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवति+इति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति ।

(३०) अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । निर्विकल्पकप्रत्यक्षे ऽपि सविशेषमेव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वाद्गोत्वादेर्निर्विकल्पतदशायाम् अपि ससंस्थानमेव वस्त्वित्थम् इति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतया+अनेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यम् इति द्वितीयादिप्रत्ययाः सविकल्पका इत्युच्यन्ते । अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वादेव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्च+इति न द्व्यात्मकत्वसिद्धिः ।

(३१) अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर्निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचा+आरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति विकारनामधेययोर्वाचा+आरम्भणमात्रत्वात् । यत्तत्र कारणतया+उपलक्ष्यते वस्तुमात्रं तदेव सत्यम् अन्यदसत्यम् इति+इयं श्रुतिर्वदति+इति चेन्नैतदुपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवति+इति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकमेव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत्तत्रैकस्मिन् विज्ञाते तस्माद्विलक्षणसंस्थानान्तरम् अपि तदेव+इति तत्र दृष्टान्तो ऽयं निदर्शितः । नात्र कस्यचिद्विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचा+आरम्भणम् इति वाचा व्यवहारेणारभ्यत इत्यारम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वा+अन्यद्व्यवहारश्चान्यः । घटशरावादिरूपेणावस्थितायास्तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश्चान्यद्दशाः । तथा+अपि सर्वत्र मृत्तिकाद्रव्यमेकमेव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतदेव सत्यम् इत्यनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद्वस्तु निषिध्यत इति पूर्वमेवायम् अर्थः प्रपञ्चितः ।

(३२) अपि च येनाश्रुतं श्रुतम् इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद्यथा सोम्यैकेन मृत्पिण्डेन+इत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवन् मृत्तिकाविकारस्य घटशरावादेरसत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्येतदपि सिषाधयिषितम् इति चेत् । यथेति दृष्टान्तया+उपादानं न घटते ।

(३३) सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयमेवाद्वितीयम् इत्यत्र सदेवैकमेव+इत्यवधारणद्वयेनाद्वितीयम् इत्यनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नेतदेवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोरप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सदेव सोम्य+इदम् इत्यारब्धम् । इदम् अग्रे सदेवासीदिति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकमेव+इति चास्य नानानामरूपविकारप्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्र+उपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शने ऽपि सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्यद्वितीयपदम् अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वादेव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रतिपाद्य निमित्तकारणम् अपि तदेव+इति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश्च श्रुतयो ब्रह्मणो निमित्तकारणत्वम् अनुज्ञायास्यैव+उपादानतादि कथम् इति परिचोद्य, सर्वशक्तियुक्तत्वादुपादानकारणं तदितराशेषोपकरणं च ब्रह्मैव+इति परिहरन्ति किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेदुत्द्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुर्मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि । धारयन्निति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः । अतः सदेव सोम्य+इदम् अग्र आसीदित्यत्राप्यग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची को ऽपि शब्दो न दृश्यते । प्रत्युत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः । आसीदिति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर्भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश्च+इत्यप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः ।

(३४) यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तम् अत एवासदेव+इदम् अग्र आसीदित्यारभ्यासत्कार्यवादनिषेधश्च क्रियते कुतस्तु खलु सोम्यैवं स्यादिति । प्रागसत उत्पत्तिरहेतुकेत्यर्थः । तदेव+उपपादयति कथम् असतः सज् जायेत+इति । असत उत्पन्नम् असदात्मकमेव भवति+इत्यर्थः । यथा मृदुत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर्नाम व्यवहारविशेषहेतुभूतो ऽवस्थाविशेषयोगः ।

(३५) एतदुक्तं भवति । एकमेव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्युच्यत इत्येकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तदसत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैरवयव्याख्यं कार्यं द्रव्यान्तरमेव+उत्पद्यत इति कारणभूताद्वस्तुनः कार्यस्य वस्त्वन्तरत्वान्न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवति+इति । कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेरुपपादकत्वाद्द्रव्यान्तरादर्शनाच्च+इति कारणमेवावस्थान्तरापन्नं कार्यम् इत्युच्यत इत्युक्तम् ।

(३६) ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्येकं चिद्रूपं सत्यमेवाविद्याच्छादितं जगद्रूपेण विवर्तत इत्यविद्याश्रयत्वाय मूलकारणं सत्यम् इत्यभ्युपगन्तव्यम् इत्यसत्कार्यवादनिरासः । नैतदेवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वादित्युक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच्च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश्चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्याश्रयेण तदुपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।

(३७) शोधकेष्वपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म+इत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वमेव+उक्तम् ।

(३८) अथात आदेशो न+इति न+इति+इति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च+इति मूर्तामूर्तात्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन्नैवम् । ब्रह्मणो रूपतया+अप्रज्ञातं सर्वं रूपतया+उपदिश्य पुनर्तदेव निषेद्धुम् अयुक्तम् । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति न्यायात् । कस्तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयमेव वदति प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् इति सत्यादिगुणगणस्य प्रतिपादितत्वात्पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्म+इति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः ।

(३९) न+इह नाना+अस्ति किंचन+इत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्युत्तरत्र सर्वस्य वशी सर्वस्य+ईशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच्चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एव+इति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् । सर्वास्वेवंप्रकारासु श्रुतिष्वियमेव स्थितिरिति न क्वचिदपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते ।

(४०) अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच्चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यति+इत्ययम् अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् । अविद्यया प्रकाशतिरोहित इति प्रकाश+उत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद्विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस्तिष्ठति+इति चेत् । सत्याम् अप्यविद्यायां ब्रह्मणि न किंचित्तिरोहितम् इति नानात्वं पश्यति+इति भवताम् अयं व्यवहारः सत्स्वनिर्वचनीय एव ।