Vedarthasangraha

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

Index | Part 2 >

(१) अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः ॥(१)

(२) परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदम् इति । श्रुतिन्यायापेतं जगति विततं मोहनम् इदं तमो येनापास्तं स हि विजयते यामुनमुनिः ॥(२)

(३) अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतो ऽयम् अर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलः ।

(४) अस्य जीवात्मनो ऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः । एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा+अनाशकेन । ब्रह्मविदाप्नोति परम् । तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकम् ।

(५) जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्येतावदेव निर्देश्यम् । तच्च सर्वेषाम् आत्मनां समानम् ।

(६) एवंविधचिदचिदात्मकप्रपञ्चस्य+उद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतः समस्तहेयप्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः सर्वात्मपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मसदादिशब्दभेदैर्निखिलवेदान्तवेद्यो भगवान्नारायणः पुरुषोत्तम इत्यन्तर्यामिस्वरूपम् । अस्य च वैभवप्रतिपादनपराः श्रुतयः स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्तितदंशतद्विभूतितद्रूपतच्छरीरतत्तनुप्रभृतिभिः शब्दैस्तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।

(७) तस्य वैभवप्रतिपादनपराणामेषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ताः केचन निर्विशेषज्ञानमात्रमेव ब्रह्म, तच्च नित्यमुक्तस्वप्रकाशस्वभावम् अपि तत्त्वम् अस्यादिसामानाधिकरण्यावगतजीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्याद्यनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद्बद्धः, कश्चिन् मुक्त इत्यियम् अवस्था न विद्यते । इतः पूर्वं केचन मुक्ता इत्ययम् अर्थो मिथ्या । एकमेव शरीरं जीववन्निर्जीवानि+इतराणि, तच्छरीरं किम् इति न व्यवस्थितम्, आचार्यो ज्ञानस्य+उपदेष्टा मिथ्या शास्त्रं च मिथ्या शास्त्रप्रमाता च मिथ्या शास्त्रजन्यं ज्ञानं च मिथ्या एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।

(८) अपरे त्वपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतम् अपि ब्रह्मैतेनैवाइक्यावबोधेन केनचिदुपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं च+इति व्यवस्थिताः ।

(९) अन्ये पुनरैक्यावबोधयाथात्म्यं वर्णयन्तः स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणम् अविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं च+इति प्रत्यवतिष्ठन्ते ।

(१०) तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषान् उदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगतस्वसंकल्पकृतजगदुदयविभवविलयादयस्तद+ऐक्षत बहु स्यां प्रजायेय+इत्यारभ्य सन्मूलाः सोम्य+इमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिभिः पदैः प्रतिपादितास्तत्संबन्धितया प्रकरणान्तरनिर्दिष्टाः सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्वसर्वप्रकारत्वसमाभ्यधिकनिवृत्तिसत्यकामत्वसत्यसंकल्पत्वसर्वावभासकत्वाद्यनवधिकातिशयासंख्येयकल्याणगुणगणा अपहतपाप्मेत्याद्यनेकवाक्यावगतनिरस्तनिखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते ।

(११) अथ स्यात् उपक्रमे ऽप्येकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मणः सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मणः सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयम् इति सजातीयविजातीयनिखिलभेदनिरसनेन निर्विशेषता+एव प्रतिपादिता । एतच्छोधकानि प्रकरणान्तरगतवाक्यान्यपि सत्यं ज्ञानम् अनन्तं ब्रह्म, निष्कलं निष्क्रियं निर्गुणं, विज्ञानम् आनन्दम् इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वे ऽपि वस्तुनः सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानाम् अर्थवत्त्वादिति ।

(१२) नैतदेवम् । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति । सत्यत्वमिथ्यात्वयोरेकताप्रसक्तिर्वा । अपि त्वेकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।

(१३) अयम् अर्थः श्वेतकेतुं प्रत्याह स्तब्धो ऽस्युत तम् आदेशम् अप्राक्ष्य इति परिपूर्ण इव लक्ष्यसे तान् आचार्यान् प्रति तम् अप्यादेशं पृष्टवान् असि+इति । आदिश्यते ऽनेन+इत्यादेशः । आदेषः प्रशासनम् । एतस्य वा अक्षरस्य गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यादिभिरैक्यर्थ्यात् । तथा च मानवं वचः प्रशासितारं सर्वेषाम् इत्यादि । अत्राप्येकमेव+इति जगदुपादानतां प्रतिपाद्याद्वितीयपदेनाधिष्ठातरनिवारणादस्यैवाधिष्ठातृत्वम् अपि प्रतिपाद्यते ।अतस्तं प्रशासितारं जगदुपादानभूतम् अपि पृष्टवान् असि येन श्रुतेन मतेन विज्ञातेनाश्रुतम् अमतम् अविज्ञानं श्रुतं मतं विज्ञातं भवति+इत्युक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्वसत्यसंकल्पत्वपरिमितोदारगुणगणसागरं किं ब्रह्मापि त्वया श्रुतम् इति हार्दो भावः । तस्य निखिलकारणतया कारणमेव नानासंस्थानविशेषसंस्थितं कार्यम् इत्युच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कार्रभूतम् अखिलं जगद्विज्ञातं भवति+इति हृदि निधाय येनाश्रुतं श्रुतं भवत्यमतं मतम् अविज्ञातं विज्ञातं स्यादिति पुत्रं प्रति पृष्टवान् पिता । तदेतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितम् अजानन् पुत्रः परस्परविलक्षणेषु वस्तुष्वन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति कथं नु बगवः स आदेश इति ।

(१४) परिचोदितः पुनस्तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपम् अपरिच्छेद्यमाहात्म्यं सत्यसंकल्पत्वमिश्रैरनवधिकातिशयासंख्येयकल्याणगुणगणैर्जुष्टम् अविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिरत्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितम् इति ।

(१५) तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवंल् लोकदृष्टं कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तं आह यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचा+आरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति । एकमेव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादिनानासंस्थानावस्थारूपविकारापन्नं नानानामधेयम् अपि मृत्तिकासंस्थानविशेषत्वान् मृद्द्रव्यमेव+इत्थम् अवस्थितं न वस्त्वन्तरम् इति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपं घटशरावादि सर्वं ज्ञातमेव भवति+इत्यर्थः ।

(१६) ततः कृत्स्नस्य जगतो ब्रह्मैककारणताम् अजानन् पुत्रः पृच्छति भगवांस्त्वेव मे तद्ब्रवीत्विति । ततः सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणम् इत्युपदिशन् स होवाच सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयम् इति । अत्र+इदम् इति जगन्निर्दिष्टम् । अग्र इति च सृष्टेः पूर्वकालः । तस्मिन् काले जगतः सदात्मकतां सदेव+इति प्रतिपाद्य, तत्सृष्टिकाले ऽप्यविशिष्टम् इति कृत्वा+एकमेव+इति सदापन्नस्य जगतस्तदानीम् अविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितम् इति स्वव्यतिरिक्तनिमित्तकारणम् अद्वितीयपदेन प्रतिषिद्धम् ।

(१७) तम् आदेशं प्राक्ष्यो येनाश्रुतं श्रुतं भवति+इत्यादावेव प्रशास्तिता+एव जगदुपादानम् इति हृदि निहितम् इदानीम् अभिव्यक्तम् । स्वयमेव जगदुपादानं जगन्निमित्तं च सत्तदैक्षत बहु स्यां प्रजायेय+इति । तदेतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पम् अवाप्तसमस्तकामम् अपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहमेव बहु स्यां तदर्थं प्रजायेय+इति स्वयमेव संकल्प्य स्वांशैकदेशादेव वियदादिभूतानि सृष्ट्वा पुनरपि सा+एव सच्छब्दाभिहिता परा देवता+एवम् ऐक्षत हन्ताहम् इमास्तिस्रो देवता अनेन जीवेनात्मना+अनुप्रविश्य नामरूपे व्याकरवाणि+इति । अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशादेव कृत्स्नस्याचिद्वस्तुनः पदार्थत्वमेवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वम् इति च दर्शयति । एतदुक्तं भवति जीवात्मा तु ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । यस्यात्मा शरीरम् इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनि+इति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षसः पशुर्मृगः पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पट इत्यादयः सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धाः शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्यैव वाचका इति ।

(१८) एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यतासच्छेषतादि सर्वं च सन्मूलाः सोम्य+इमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेनाइतदात्म्यम् इदं सर्वं तत्सत्यम् इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वमेव सत्यम् इति प्रतिपाद्य कृत्स्नस्य जगतः स एवात्मा कृत्स्नं जगत्तस्य शरीरं तस्मात्त्वंशब्दवाच्यम् अपि जीवप्रकारं ब्रह्मैव+इति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत्त्वम् असि+इति जीवविशेष उपसंहृतम् ।

(१९) एतदुक्तं भवति । ऐतदात्म्यम् इदं सर्वम् इति चेतनाचेतनप्रपञ्चम् इदं सर्वम् इति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादितः, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं प्रतिपादितम् इत्यर्थः । तदिदं ब्रह्मात्मकत्वं किम् आत्मशरीरभावेन+उत स्वरूपेण+इति विवेचनीयम् । स्वरूपेण चेद्ब्रह्मणः सत्यसङ्कल्पाद्यः तदैक्षत बहु स्यं प्रजायेय+इत्युपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तराद्विशेषतो ऽवगतम् अन्तःप्रविष्टः शास्ता जनानां सर्वात्मेति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानाम् अन्तःप्रविष्टो ऽतः सर्वात्मा सर्वेषां जनानाम् आत्मा सर्वं चास्य शरीरम् इति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृत इति च । अत्राप्यनेन जीवेनात्मनेति+इदमेव ज्ञायत इति पूर्वमेव+उक्तम् । अतः सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात्सर्वप्रकारं सर्वशब्दैर्ब्रह्मैवाभिधीयत इति तत्त्वम् इति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् ।

(२०) एवम् अभिहिते सत्ययम् अर्थो ज्ञायते त्वम् इति यः पूर्वं देहस्याधिष्ठातृतया प्रतीतः स परमात्मशरीरतया परमात्मप्रकारभूतः परमात्मपर्यन्तः । अतस्त्वम् इति शब्दस्त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणमेवाचष्ट इति । अनेन जीवेनात्मना+अनुप्रविश्य नामरूपे व्याकरवाणि+इति ब्रह्मात्मकतया+एव जीवस्य शरीरिणः स्वनामभाक्त्वात्तत्त्वम् इति सामानाधिकरण्यप्रवृत्तयोर्द्वयोरपि पदयोर्ब्रह्मैव वाच्यम् । तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारम् आचष्टे । त्वम् इति च तदेव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टम् आचष्टे । तदेवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्येव तत्त्वम् इति द्वयोः पदयोर्वृत्तिरुक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् ।