Gitarthasangraha of Sri Yamunacharya

DRAFT — NOT PROOFREAD, FOR EVALUATION PURPOSES ONLY

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

भगवद्यामुनमुनिभिरनुगृहीतः

॥ गीतार्थसङ्ग्रहः ॥

स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥

ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥

मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्म धीर्भक्तिरित्यादिपूर्वशेषो ऽन्तिमोदितः ॥४॥

अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम् ॥५॥

नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।
द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥६॥

असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्त्र्क्ताम् ।
सर्वेश्वरे वा न्यस्य+उक्ता तृतीये कर्मकार्यता ॥७॥

प्रसङ्गात्स्वस्वभावोक्तिः कर्मणो ऽकर्मता+अस्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥८॥

कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥९॥

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥१०॥

स्वयाथात्म्यं प्रकृत्या+अस्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥११।

ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् ।
वेद्योपादेयभावानाम् अष्टमे भेदे उच्यते ॥१२॥

स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥१३॥

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥१४॥

एकादशे ऽस्य याथात्म्यसाक्षात्कारावलोकनम् ।
दत्तम् उक्ता विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥१५॥

भक्तिश्रैष्ठ्यम् उपायोक्तिरशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥१६॥

देहस्वरूपम् आत्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥१७॥

गुणबन्धविधौ तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥१८॥

अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः ।
व्यापानाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥१९॥

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥२०॥

अशास्त्रम् आसुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥२१॥

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥२२॥

कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥२३॥

भक्तियोगः परैकान्त्यप्रीत्या ध्यानादिषु स्थितिः ।
त्रयानाम् अपि योगानां त्रिभिरन्योन्यसंगमः ॥२४॥

नित्यनैमित्तिकानां च पराराधनरूपिणम् ।
आत्मदृष्टेस्त्रयो ऽप्येते योगद्वारेण साधकाः ॥२५॥

निरस्तनिखिलाज्ञानो दृष्ट्वा+आत्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तया+एवावाप्नोति तत्पदम् ॥२६॥

भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधनम् ।
आत्मार्थी चेत्त्रयो ऽप्येते तत्कैवल्यस्य साधकाः ॥२७॥

ऐकान्त्यं भगवत्येषां समानम् अधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तम् अशुनुते ॥२८॥

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥२९॥

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धिइन्द्रियक्रियः ॥३०॥

निजकर्मादिभक्त्यन्तं कुर्यात्प्रीत्या+एव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवे तु ताम् अभीः ॥३१॥

ऐकान्त्यात्यन्तदास्यैकरतिस्तत्पदम् आप्नुयात् ।
तत्प्रधानम् इदं शास्त्रम् इति गीतार्थसंग्रहं ॥३२॥

॥ श्रीमते यामुनमहामुनये नमः ॥