Gitabhashya of Bhagavad Ramanuja, part 2

DRAFT — NOT PROOFREAD, FOR EVALUATION PURPOSES ONLY

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

  1. wikitext {

word-wrap: break-word; /* Internet Explorer 5.5+ */ overflow: auto }

भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशैश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते

* श्रीभगवान् उवाच
* भूय एव महाबाहो शृणु मे परमं वचः ।
* यत्ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०,१॥

मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयमेव परमं वचो यत्वक्ष्यामि; ततवहितमनाश्शृणु ॥१०,१॥

* न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
* अहम् आदिर्हि देवानां महर्षीणां च सर्वशः ॥१०,२॥

सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनो ऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति; यतस्तेषां देवानां महर्षीणां च सर्वशो ऽहम् आदिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहम् आदिः; तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्; अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥१०,२॥

तदेतत्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायं आह

* यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् ।
* असंमूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०,३॥

न जायत इत्यजः, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वम् उक्तम् । संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिम् इत्यनेन पदेन आदिमतो ऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम् । मुक्तात्मनो ह्यजत्वम् आदिमत्; तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हता+अस्ति । अतो ऽनादिम् इत्यनेन तदनर्हतया तत्प्रत्यनीकता+उच्यते; “निरवद्यम” इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणाम् अपि+ईश्वरं मर्त्येष्वसंमूढो यो वेत्ति; इतरसजातीयतया+एकीकृत्य मोहः संमोहः, तद्रहितो ऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वैः पापैः प्रमुच्यते । एतदुक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित्कर्मणा तदाधिपत्यं प्राप्तः; तथा देवानाम् अधिपतिरपि; तथा+अण्डाधिपतिरपि+इतरसंसारिसजातीयः; तस्यापि भावनात्रयान्तर्गतत्वात् । “यो ब्रह्माणं विदधाति” इति श्रुतेश्च । तथा+अन्ये ऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थादचेतनाद्बद्धान् मुक्ताच्च चेतनातीशितव्यात्सर्वस्मान्निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इति+इत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥१०,३॥

एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वैश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारं आह

* बुद्धिर्ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः ।
* सुखं दुःखं भवो ऽभावो भयं चाभयमेव च ॥१०,४॥
* अहिंसा समता तुष्ठिस्तपो दानं यशो ऽयशः ।
* भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०,५॥

बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीतात्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः; क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम्; सत्यं यथादृष्टविषयं भूतहितरूपं वचनम् । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानाम् अनर्थविषयेभ्यो नियमनम्; शमः अन्तःकरणस्य तथा नियमनम्; सुखम् आत्मानुकूलानुभवः; दुःखं प्रतिकूलानुभवः; भवः भवनम्; अनुकूलानुभवहेतुकं मनसो भवनम्; अभावः प्रतिकूलानुभवहेतुको मनसो ऽवसादः; भयम् आगामिनो दुःखस्य हेतुदर्शनजं दुःखम्; तन्निवृत्तिः अभयम्; अहिंसा परदुःखाहेतुत्वम्; समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वम्; तुष्टिः सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वम्; तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः; दानं स्वकीयभोग्यानं परस्मै प्रतिपादनम्; यशः गुणवत्ताप्रथा; अयशः नैर्गुण्यप्रथा । एतच्च+उभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवम् आद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥१०,४,५॥

सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह

* महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
* मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०,६॥

पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणम् आप्रलयातपत्यानाम् उत्पादकाः पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पानुवर्तिन इत्यर्थः ॥१०,६॥

* एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
* सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०,७॥

विभूतिः ऐश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सो ऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनम् इति स्वयमेव द्रक्ष्यसि+इत्यभिप्रायः ॥१०,७॥

विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति

* अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
* इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०,८॥

अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इति+इदं मम स्वाभाविकं निरंकुशैश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधाः ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥१०,८॥

कथम?

* मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
* कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०,९॥

मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विना+आत्मधारणम् अलभमाना इत्यर्थः; स्वैः स्वैरनुभूतान् मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति; श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥१०,९॥

* तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
* ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥१०,१०॥

तेषां सततयुक्तानां मयि सततयोगम् आशंसमानानां मां भजमानानां अहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि; येन ते माम् उपयान्ति ॥१०,१०॥

किञ् च,

* तेषामेवानुकम्पार्थं अहम् अज्ञानजं तमः ।
* नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०,११॥

तेषामेवानुग्रहार्थं अहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतया+अवस्थितः मदीयान् कल्याणगुणगणांश्चाविष्कुर्वन् मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि ॥१०,११॥

* अर्जुन उवाच

एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामो ऽर्जुन उवाच

* परं ब्रह्म परं धाम पवित्रं परमं भवान् ।

परं ब्रह्म परं धाम परमं पवित्रं इति यं श्रुतयो वदन्ति, स हि भवान् । “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म+इति”, “ब्रह्मविदाप्नोति परम”, “स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति” इति । तथा परं धाम; धामशब्दो ज्योतिर्वचनः; परं ज्योतिः “अथ यदतः परो दिवो ज्योतिर्दीप्यते”, “परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते”, “तं देवा ज्योतिषां ज्योतिः” इति । तथा च परमं पवित्रं परमं पावनम्; स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । “यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते”, “तद्यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते”, “नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः” इति हि श्रुतयो वदन्ति ॥१०,१२अब् ॥

* पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥१०,१२॥
* आहुस्त्वाम् ऋषयः सर्वे देवर्षिर्नारदस्तथा ।
* असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०,१३॥

ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वामेव शाश्वतं दिव्यं पुरुषम् आदिदेवम् अजं विभुं आहुः; तथा+एव देवर्षिर्नारदः असितः देवलः व्यासश्च । “ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परम् उच्यते । पुण्यानाम् अपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥”, “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कम् उत्सृज्य ह्यागतो मधुरां पुरीम् ॥”, “पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः । साक्षाद्देवः पुराणो ऽसौ स हि धर्मस्सनातनः” । तथा, “यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् । तत्र देवर्षयस्सिद्धाः सर्वे चैव तपोधनाः ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानाम् अपि तत्पुण्यं मा भूत्ते संशयो ऽत्र वै ॥”, “कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम् ॥” इति । तथा स्वयमेव ब्रवीषि च, “भूमिरपो ऽनलो वायुः खं मनो बुधिरेव च । अहंकार इति+इयं मे भिन्ना प्रकृतिरष्टधा ॥” इत्यादिना, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इत्यन्तेन ॥१०,१२,१३॥

* सर्वमेतदृतं मन्ये यन् मां वदसि केशव ।
* न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥१०,१४॥

अतः सर्वमेतत्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्; यन् मां प्रति अनन्यसाधारणम् अनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशयज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदुः ॥१०,१४॥

* स्वयमेवात्मना+आत्मानं वेत्थ त्वं पुरुषोत्तम ।
* भूतभावन भूतेश देवदेव जगत्पते ॥१०,१५॥

हे पुरुषोत्तम, आत्मना, आत्मानं त्वां स्वयमेव स्वेन ज्ञानेनैव वेत्थ । भूतभावन; सर्वेषां भूतानाम् उत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानाम् अपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैसतीत्य वर्तमान, जगत्पते जगत्स्वामिन् ॥१०,१५॥

* वक्तुम् अर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
* याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य तिष्ठसि ॥१०,१६॥

दिव्याः त्वदसाधारण्यो विभूतयो याः, तास्त्वमेवाशेषेण वक्तुम् अर्हसि । त्वमेव व्यञ्जय+इत्यर्थः । याभिरनन्ताभिर्विभूतिभिः यैर्नियमनविशेषैर्युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥१०,१६॥

* कथं विद्यां अहं योगी त्वां सदा परिचिन्तयन् ।
* केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥१०,१७॥

अहं योगी भक्तियोगनिष्ठस्सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णैश्वर्यादिकल्याणगुणगणं कथं विद्याम? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्यो ऽसि? ॥१०,१७॥

* विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
* भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे ऽमृतम् ॥१०,१८॥

“अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इति संक्षेपेण+उक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वया+उच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति; हि ममातृप्तिस्त्वया+एव विदितेत्यभिप्रायः ॥१०,१८॥

* श्रीभगवान् उवाच
* हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः ।
* प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०,१९॥

हे कुरुश्रेष्ठ! मदीयाः कल्याणीर्विभूतीः प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः; “पुरोधसां च मुख्यं माम” इति हि वक्ष्यते । जगत्युत्कृष्टाः काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासाम् आनन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्; सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्ति+इत्युक्त्वा, “एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः” इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वम् इति ह्युक्तं पुनश्च, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः” इति ॥१०,१९॥

तत्र सर्वभूतानां प्रवर्तनरूपं नियमनम् आत्मतया+अवस्थाय+इति+इमम् अर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं च+इति सुस्पष्टं आह

* अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः ।
* अहम् आदिश्च मध्यं च भूतानाम् अन्त एव च ॥१०,२०॥

सर्वेषां भूतानां मम शरीरभूतानाम् आशये हृदये अहम् आत्मतया+अवस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, “सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानम् अपोहनं च”, “ईश्वरस्सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥” इति । श्रूयते च, “यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्यो ऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मा+अन्तर्याम्यमृतः” इति, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा+अन्तर्याम्यमृतः” इति च । एवं सर्वभूतानाम् आत्मतया+अवस्थितो ऽहं तेषाम् आदिर्मध्यं चान्तश्च तेषाम् उत्पत्तिस्थितिप्रलयहेतुरित्यर्थः ॥१०,२०॥

एवं भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतया+अवस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतया+अवस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति; यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस्तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतया+अवस्थानमेव तत्तच्छब्दसामानाधिकरण्यनिबन्धनम् इति विभूत्युपसंहारे वक्ष्यति; “न तदस्ति विना यत्स्यान् मया भूतं चराचरम” इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति; “मत्तस्सर्वं प्रवर्तते” इत्युपक्रमोदितम् ।

* आदित्यानां अहं विष्णुर्ज्योतिषां रविरंशुमान् ।
* मरीचिर्मरुताम् अस्मि नक्षत्राणां अहं शशी ॥१०,२१॥

द्वादशसंख्यासंख्यातानाम् आदित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्यः, सो ऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्यगणः, सो ऽहम् । मरुताम् उत्कृष्टो मरीचिर्यः, सो ऽहम् अस्मि । नक्षत्राणां अहं शशी । न+इयं निर्धारणे षष्ठी, “भूतानाम् अस्मि चेतना” इतिवत् । नक्षत्राणां पतिर्यश्चन्द्रः, सो ऽहम् अस्मि ॥१०,२१॥

* वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः ।
* इन्द्रियाणां मनश्चास्मि भूतानाम् अस्मि चेतना ॥१०,२२॥

वेदानाम् ऋग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सो ऽहम् । देवानाम् इन्द्रो ऽहम् अस्मि । एकादशानाम् इन्द्रियाणां यतुत्कृष्टं मन इन्द्रियम्, तदहम् अस्मि । इयम् अपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सो ऽहम् अस्मि ॥१०,२२॥

* रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
* वसूनां पावकश्चास्मि मेरुः शिखरिणां अहम् ॥१०,२३॥

रुद्राणामेकादशानां शङ्करो ऽहम् अस्मि । यक्षरक्षसां वैश्रवणो ऽहम् । वसूनाम् अष्टानां पावको ऽहम् । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहम् ॥१०,२३॥

* पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
* सेनानीनां अहं स्कन्दः सरसाम् अस्मि सागरः ॥१०,२४॥

पुरोधसाम् उत्कृष्टो बृहस्पतिर्यः, सो ऽहम् अस्मि, सेनानीनां सेनापतीनां स्कन्दो ऽहम् अस्मि । सरसां सागरो ऽहम् अस्मि ॥१०,२४॥

* महर्षीणां भृगुरहं गिराम् अस्म्येकम् अक्षरम् ।
* यज्ञानां जपयज्ञो ऽस्मि स्थावराणां हिमालयः ॥१०,२५॥

महर्षीणां मरीच्यादीनां भृगुरहम् । अर्थाभिधायिनः शब्दा गिरः, तासामेकम् अक्षरं प्रणवो ऽहम् अस्मि । यज्ञानाम् उत्कृष्टो जपयज्ञो ऽस्मि । पूर्वमात्राणां हिमवान् अहम् ॥१०,२५॥

* अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः ।
* गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०,२६॥
* उच्चैश्श्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ।
* ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०,२७॥
* आयुधानां अहं वज्रं धेनूनाम् अस्मि कामधुक् ।
* प्रजनश्चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥१०,२८॥
* अनन्तश्चास्मि नागानां वरुणो यादसां अहम् ।
* पित्ह्णाम् अर्यमा चास्मि यमः संयमतां अहम् ॥१०,२९॥

वृक्षाणां पूज्यो ऽश्वत्थो ऽहम् । देवर्षीणं नारदो ऽहम् । कामधुक् दिव्या सुरभिः । जननहेतुः कन्दर्पश्चाहम् अस्मि । सर्पाः एकाशिरसः; नागाः बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणो ऽहम् । दण्डयतां वैवस्वतो ऽहम् ॥१०,२६,२७,२८,२९॥

* प्रह्लादश्चास्मि दैत्यानां कालः कलयतां अहम् ।
* मृगाणां च मृगेन्द्रो ऽहं वैनतेयश्च पक्षिणाम् ॥१०,३०॥

अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युरहम् ॥१०,३०॥

* पवनः पवताम् अस्मि रामः शस्त्रभृतां अहम् ।
* झषाणां मकरश्चास्मि स्रोतसाम् अस्मि जाह्नवी ॥१०,३१॥

पवतां गमनस्वभावानां पवनो ऽहम् । शस्त्रभृतां रामो ऽहम् । शस्त्रभृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात् । आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥१०,३१॥

* सर्गाणाम् आदिरन्तश्च मध्यं चैवाहम् अर्जुन ।
* अध्यात्मविद्या विद्यानां वादः प्रवदतां अहम् ॥१०,३२॥

सृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्; सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारो ऽहमेव+इत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारो ऽप्यहमेव । तथा च मध्यं पालनम्; सर्वदा पाल्यमानानां पालयितारश्चाहमेव+इत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सो ऽहम् ॥१०,३२॥

* अक्षराणाम् अकारो ऽस्मि द्वन्द्वस्सामासिकस्य च ।
* अहमेव अक्षयः कालः धाता+अहं विश्वतोमुखः ॥१०,३३॥

अक्षराणां मध्ये “अकारो वै सर्वा वाक” इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिरकारो ऽहं सामासिकः समाससमूहः; तस्य मध्ये द्वन्द्वसमासो ऽहम् । स ह्युभयपदार्थप्रधानत्वेन+उत्कृष्टः । कलामुहूर्तादिमयो ऽक्षयः कालो ऽहमेव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखो ऽहम् ॥१०,३३॥

* मृत्युस्सर्वहरश्चाहम् उद्भवश्च भविष्यताम् ।
* कीर्तिश्श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०,३४॥

सर्वप्राणहरो मृत्युश्चाहम् । उत्पत्स्यमानानाम् उद्भवाख्यं कर्म चाहम् । श्रीरहम्; कीर्तिश्चाहम्; वाक् चाहम्; स्मृतिश्चाहम्; मेधा चाहम्; धृतिश्चाहम्; क्षमा चाहम् ॥१०,३४॥

* बृहत्साम तथा साम्नां गायत्री छन्दसां अहम् ।
* मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥१०,३५॥

साम्नां बृहत्साम अहम् । छन्दसां गायत्र्यहम् । कुसुमाकरः वसन्तः ॥१०,३५॥

* द्यूतं छलयताम् अस्मि तेजस्तेजस्विनां अहम् ।
* जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववतां अहम् ॥१०,३६॥

छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतं अहम् । जेत्ह्णां जयो ऽस्मि । व्यवसायिनां व्यवसायो ऽस्मि । सत्त्ववतां सत्त्वं अहम् । सत्त्वं महामनस्त्वम् ॥१०,३६॥

* वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः ।
* मुनीनाम् अप्यहं व्यासः कवीनाम् उशना कविः ॥१०,३७॥

वसुदेवसूनुत्वम् अत्र विभूतिः, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयो ऽर्जुनो ऽहम् । मुनयः मननेनात्मयाथात्म्यदर्शिनः; तेषां व्यासो ऽहम् । कवयः विपश्चितः ॥१०,३७॥

* दण्डो दमयताम् अस्मि नीतिरस्मि जिगीषताम् ।
* मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतां अहम् ॥१०,३८॥

नियमातिक्रमणे दण्डं कुर्वतां दण्डो ऽहम् । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनम् अस्मि । ज्ञानवतां ज्ञानं चाहम् ॥१०,३८॥

* यच्चापि सर्वभूतानां बीजं तदहम् अर्जुन ।
* न तदस्ति विना यत्स्यान् मया भूतं चराचरम् ॥१०,३९॥

सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानम् अप्रतीयमानं च यत्, ततहमेव । भूतजातं मया आत्मतया+अवस्थितेन विना यत्स्यात्, न तदस्ति । “अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः” इति प्रक्रमात्, “न तदस्ति विना यत्स्यान् मया भूतं चराचरम” इत्यत्राप्यात्मतया+अवस्थानमेव विवक्षितम् । सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतया+अवस्थितिरेव हेतुरिति प्रकटितम् ॥१०,३९॥

* नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
* एष तु+उद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०,४०॥

मम दिव्यानां कल्याणीनां विभूतीनाम् अन्तो नास्ति; एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभिः संक्षेपतः प्रोक्तः ॥४०॥

* यद्यत्विभूतिमत्सत्त्वं श्रीमतूर्जितमेव वा ।
* तत्तदेवावगच्छ त्वं मम तेजो$ंशसंभवम् ॥१०,४१॥

यत्यत्विभूतिमतीशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्; तत्तन् मम तेजो$ंशसंभवम् इत्यवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमनशक्त्येकदेशसंभवति+इत्यर्थः ॥१०,४१॥

* अथ वा बहुना+एतेन किं ज्ञानेन तवार्जुन ।
* विष्टभ्याहम् इदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०,४२॥

बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् ।इदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नो ऽयुतायुतांशेन विष्टभ्याहम् अवस्थितः । यथोक्तं भगवता पराशरेण, “यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता” इति ॥१०,४२॥

एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं च+उक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेव+इति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामो ऽर्जुन उवाच । तथा+एव भगवत्प्रसादादनन्तरं द्रक्ष्यति । “सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥। तत्रैकस्थं जगत्कृत्स्नं प्रतिभक्तम् अनेकधाः” इति हि वक्ष्यते ।

* अर्जुन उवाच
* मदनुग्रहाय परमं गुह्यम् अध्यात्मसंज्ञितम् ।
* यत्त्वया+उक्तं वचस्तेन मोहो ऽयं विगतो मम ॥११,१॥

देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यम् अध्यात्मसंज्ञितम् आत्मनि वक्तव्यं वचः, “न त्वेवाहं जातु नासम” इत्यादि, “तस्माद्योगी भवार्जुन” इत्येतदन्तं यत्त्वया+उक्तम्, तेनायं ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥११,१॥

तथा च

* भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
* त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि चाव्ययम् ॥११,२॥

सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस्तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वम् इत्यादि अपरिमितं माहात्म्यं च श्रुतम् । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः ॥११,२॥

* एवमेतत्यथा+आत्थ त्वम् आत्मानं परमेश्वर ।
* द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥११,३॥

हे परमेश्वर, एवमेतदित्यवधृतम्, यथा+आथ त्वम् आत्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवाइश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वे ऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुम् इच्छामि ॥११,३॥

* मन्यसे यदि तच्छक्यं मया द्रष्टुम् इति प्रभो ।
* योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम् ॥११,४॥

तत्सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यम् इति यदि मन्यसे, ततो योगेश्वर योगो ज्ञानादिकल्याणगुणयोगः, “पश्य मे योगम् ऐश्वरम” इति हि वक्ष्यते त्वद्व्यतिरिक्तस्य कस्याप्यसंभावितानां ज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वाम् अव्ययं मे दर्शय । अव्ययम् इति क्रियाविशेषणम् । त्वां सकलं मे दर्शय+इत्यर्थः ॥११,४॥

* श्रीभगवान् उवाच

एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवान् उवाच

* पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः ।
* नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥११,५॥

पश्य मे सर्वाश्रयाणि रूपाणि; अथ शतशः सहस्रशश्च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥११,५॥

* पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा ।
* बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥११,६॥

ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश्चैकोनपञ्चाशतम् । प्रदर्शनार्थम् इदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्यपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्वदृष्टपूर्वाणि बहून्याश्चर्याणि पश्य ॥११,६॥

* इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
* मम देहे गुडाकेश यच्चान्यद्द्रष्टुम् इच्छसि ॥११,७॥

इह ममैकस्मिन् देहे, तत्रापि एकस्थमेकदेशस्थं सचराचरं कृत्स्नं जगत्पश्य; यच्चान्यत्द्रष्टुम् इच्छसि, तदप्येकदेहैकदेश एव पश्य ॥११,७॥

* न तु मां शक्ष्यसे द्रष्टुम् अनेनैव स्वचक्षुषा ।
* दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥११,८॥

अहं मम देहैकदेशे सर्वं जगत्दर्शयिष्यामि; त्वं त्वनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयम् अपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यम् अप्राकृतं मद्दर्शनसाधनं चक्षुर्ददामि । पश्य मे योगम् ऐश्वरं मदसाधारणं योगं पश्य; ममानन्तज्ञानादियोगम् अनन्तविभूतियोगं च पश्य+इत्यर्थः ॥११,८॥

* एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
* दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम् ॥११,९॥

एवम् उक्त्वा सारथ्ये ऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिः महाश्चर्ययोगानाम् ईश्वरः परब्रह्मभूतो नारायणः परमम् ऐश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयाम् आस । तत्विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम्; तच्च+ईदृशम्

* अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् ।
* अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥११,१०॥
* दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
* सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥११,११॥

देवं द्योतमानम्, अनन्तं कालत्रयवर्ति; निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हम्, विश्वतोमुखं विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् ॥११,१०,११॥

तामेव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि

* दिवि सूर्यसहस्रस्य भवेत्युगपदुत्थिता ।
* यदि भाः, सदृशी सा स्यात्भासस्तस्य महात्मनः ॥११,१२॥

तेजसो ऽपरिमितत्वदर्शनार्थम् इदम्; अक्षयतेजस्स्वरूपम् इत्यर्थः ॥११,१२॥

* तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तम् अनेकधा ।
* अपश्यत्देवदेवस्य शरीरे पाण्डवस्तदा ॥११,१३॥

तत्र अनन्तायाम् अविस्तारे, अनन्तबाहुउदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते”, “हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः”, “अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः”, आदित्यानां अहं विष्णुः” इत्यादिना, “न तदस्ति विना यत्स्यान् मया भूतं चराचरम”, “विष्टभ्याहम् इदं कृत्स्नमेकांशेन स्थितो जगत” इत्यन्तेन+उदितम्, एकस्थमेकदेशस्थम्; पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुरपश्यत् ॥११,१३॥

* ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
* प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥११,१४॥

ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत्प्रणम्य कृताञ्जलिरभाषत ॥११,१४॥

* अर्जुन उवाच
* पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्गान् ।
* ब्रह्माणम् ईशं कमलासनस्थम् ऋषींश्च सर्वान् उरगांश्च दीप्तान् ॥११,१५॥

देव; तव देहे सर्वान् देवान् पश्यामि; तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखम् अण्डाधिपतिम्, तथा+ईशं कमलासनस्थं कमलासने ब्रह्मणि स्थितम् ईशं तन्मते ऽवस्थितं तथा देवर्षिप्रमुखान् सर्वान् ऋषीन्, उरगांश्च वासुकितक्षकादीन् दीप्तान् ॥११,१५॥

* अनेकबाहुउदरवक्त्रनेत्रं पश्यामि त्वां सर्वतो ऽनन्तरूपम् ।
* नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥११,१६॥

अनेकबाहुउदरवक्त्रनेत्रम् अनन्तरूपं त्वां सर्वतः पश्यामि; विश्वेश्वर विश्वस्य नियन्तः, विश्वरूप विश्वशरीर! यतस्त्वम् अनन्तः, अतस्तव नान्तं न मध्यं न पुनस्तवादिं च पश्यामि ॥११,१६॥

* किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिम् अन्तम् ।
* पश्यामि त्वा दुर्निरीक्षं समन्तात्दीप्तानलार्कद्युतिम् अप्रमेयम् ॥११,१७॥

तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद्दुर्निरीक्षं दीप्तानलार्कद्युतिम् अप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥११,१७॥

* त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् ।
* त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥११,१८॥

उपनिषत्सु, “द्वे विद्ये वेदितव्ये” इत्यादिषु वेदितव्यतया निर्दिष्टं परमम् अक्षरं त्वमेव; अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधारभूतस्त्वमेव; त्वम् अव्ययः व्ययरहितः; यत्स्वरूपो यद्गुणो यद्विभवश्च त्वम्, तेनैव रूपेण सर्वदा+अवतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवम् आदिभिरवतारैस्त्वमेव गोप्ता । सनातनस्त्वं पुरुषो मतो मे “वेदाहमेतं पुरुषं महान्तं”, “परात्परं पुरुषम” इत्यादिषु+उदितः सनातनपुरुषस्त्वमेव+इति मे मतः ज्ञातः । यदुकुलतिलकस्त्वमेवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः ॥११,१८॥

* अनादिमध्यान्तम् अनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् ।
* पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वम् इदं तपन्तम् ॥११,१९॥

अनादिमध्यान्तम् आदिमध्यान्तरहितम् । अनन्तवीर्यम् अनवधिकातिशयवीर्यम्; वीर्यशब्दः प्रदर्शनार्थः; अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधिम् इत्यर्थः । अनन्तबाहुम् असंख्येयबाहुम् । सो ऽपि प्रदर्शनार्थः; अनन्तबाहुउदरपादवक्त्रादिकम् । शशिसूर्यनेत्रं शशिवत्सूर्यवच्च प्रसादप्रतापयुक्तसर्वनेत्रम् । देवादीन् अनुकूलान्नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्विपरीतान् असुरराक्षसादीन् प्रति प्रतापः; “रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः” इति हि वक्ष्यते । दीप्तहुताशवक्त्रं प्रदीप्तकालानलवत्संहारानुगुणवक्त्रम् । स्वतेजसा विश्वम् इदं तपन्तम् । तेजः पराभिभवनसामर्थ्यम्; स्वकीयेन तेजसा विश्वम् इदं तपन्तं त्वां पश्यामि एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरम् आदिमध्यान्तरहितमेवंभूतदिव्यदेहं त्वां यथा+उपदेशं साक्षात्करोमि+इत्यर्थः । एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम? । इत्थम् उपपद्यते । एकस्मात्कटिप्रदेशातनन्तपरिमाणादूर्ध्वम् उद्गता यथोदितोदरादयः, अधश्च यथोदितदिव्यपादाः; तत्रैकस्मिन् मुखे नेत्रद्वयम् इति च न विरोधः ॥११,१९॥

एवंभूतं त्वां दृष्ट्वा देवादयो ऽहं च प्रव्यथिता भवाम इत्याह

* द्यावापृथिव्योरिदम् अन्तरं हि व्याप्तं त्वया+एकेन दिशश्च सर्वाः ।
* दृष्ट्वा+अद्भुतं रूपम् उग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥११,२०॥

द्युशब्दः पृथिवीशब्दश्च+उभौ उपरितनानाम् अधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्योः अन्तरम् अवकाशः । यस्मिन्नवकासे सर्वे लोकास्तिष्ठन्ति, सर्वो ऽयम् अवकाशो दिशश्च सर्वास्त्वया+एकेन व्याप्ताः । दृष्ट्वा+अद्भुतं रूपम् उग्रं तव+इदम् अनन्तायाम् अविस्तारम् अत्यद्भुतम् अत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितम् अत्यन्तभीतम् । महात्मन् अपरिच्छेद्यमनोवृत्ते । एतेषाम् अप्यर्जुनस्यैव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुर्भगवता दत्तम् । किम् अर्थम् इति चेत्, अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् । अत इदम् उच्यते, “दृष्ट्वा+अद्भुतं रूपम् उग्रं तव+इदं लोकत्रयं प्रव्यर्थितं महात्मन” इति ॥११,२०॥

* अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
* स्वस्ति+इत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥११,२१॥

अमी सुरसंघाः उत्कृष्टास्त्वां विश्वाश्रयम् अवलोक्य हृष्टमनसः त्वन् समीपं विशन्ति । तेष्वेव केचिदत्युग्रम् अत्यद्भुतं च तवाकारम् आलोक्य भीताः प्राञ्जलयः स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघाः सिद्धसंघाश्च परावरतत्त्वयाथात्म्यविदः स्वस्ति+इत्युक्त्वा पुष्कलाभिर्भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥११,२१॥

* रुद्रादित्या वसवो ये च साध्या विश्वे ऽश्विनौ मरुतश्च+ऊष्मपाश्च ।
* गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश्चैव सर्वे ॥११,२२॥

ऊष्मपाः पितरः, “ऊष्मभागा हि पितरः” इति श्रुतेः । एते सर्वे विस्मयम् आपन्नास्त्वां वीक्षन्ते ॥११,२२॥

* रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुउरुपादम् ।
* बहुउदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथा ऽहम् ॥११,२३॥

बह्वीभिर्दंष्ट्राभिरतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास्त्रिविधाः सर्व एव अहं च तदेवम् ईदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥११,२३॥

* नभस्स्पृशं दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
* दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥११,२४॥

नमश्शब्दः “तदक्षरे परमे व्योमन”, “आदित्यवर्णं तमसः परस्तात”, “क्षयन्तम् अस्य रजसः पराके”, “यो अस्याध्यक्षः परमे व्योमन” इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची; सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस्स्पृशम् इति वचनात्; “द्यावापृथिव्योरिदम् अन्तरं हि व्याप्तम” इति पूर्वोक्तत्वाच्च । दीप्तम् अनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश्च+इन्द्रियाणां च शमं न लभे । विष्णो व्यापिन! । सर्वव्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश्च भवामि+इत्यर्थः ॥११,२४॥

* दंष्ट्राकरालानि च ते मुखानि दृष्ट्वा+एव कालानलसन्निभानि ।
* दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥११,२५॥

युगान्तकालानलवत्सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने; सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनाम् ईश्वराणाम् अपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथा+अहं प्रकृतिं गतो भवामि, तथा कुर्वित्यर्थः ॥११,२५॥

एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मना+अवस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्वनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयाम् आस । स च पार्थो भगवतः स्रष्ट्र्त्वादिकं सर्वैश्वर्यं साक्षात्कृत्य तस्मिन्नेव भगवति सर्वात्मनि धार्तराष्ट्रादीनाम् उपसंहारम् अनागतम् अपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्निदं च+उवाच

* अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः ।
* भीष्मो द्रोणः सूतपुत्रस्तथा+असौ सहास्मदीयैरपि योधमुख्यैः ॥११,२६॥

* वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
* केचित्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥११,२७॥

अमी धृतराष्ट्रस्य पुत्राः दुर्योधनादयस्सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश्च तत्पक्षीयैरवनिपालसमूहैः सर्वैः, अस्मदीयैरपि कैश्चित्योधमुख्यैस्सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति; तत्र केचित्चूर्णितैरुत्तमाङ्गैर्दशानान्तरेषु विलग्नास्संदृश्यन्ते ॥११,२६,२७॥

* यथा नदीनां बहवो ऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
* तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥११,२८॥
* यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
* तथा+एव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥११,२९॥

एते राजलोकाः, बहवो नदीनाम् अम्बुप्रवाहाः समुद्रम् इव, प्रदीप्तज्वलनम् इव च शलभाः, तव वक्त्राण्यभिविज्वलन्ति स्वयमेव त्वरमाणा आत्मनाशाय विशन्ति ॥११,२८,२९॥

* लेलिह्यसे ग्रसमानः समन्ताल् लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
* तेजोभिरापूर्य जगत्समग्रं भासस्तव+उग्राः प्रतपन्ति विष्णो ॥११,३०॥

राजलोकान् समग्रान् ज्वलद्भिर्वदनैर्ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर्लेहनं करोषि । तवातिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत्समग्रम् आपूर्य प्रतपन्ति ॥११,३०॥

* आख्याहि मे को भवान् उग्ररूपो नमो ऽस्तु ते देववर प्रसीद ।
* विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥११,३१॥

“दर्शयात्मानम् अव्ययम” इति तवाइश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशम् ऐश्वर्यं दर्शयता अतिघोररूपम् इदम् आविष्कृतम् । अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुम् इच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतदाख्याहि मे । नमो ऽस्तु ते देववर! प्रसीद नमस्ते ऽस्तु सर्वेश्वर; एवं कर्तुम्, अनेनाभिप्रायेण+इदं संहर्तृरूपम् आविष्कृतम् इत्युक्त्वा प्रसन्नरूपश्च भव ॥११,३१॥

आश्रितवात्सल्यातिरेकेण विश्वैश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे को ऽभिप्राय इति पृष्टो भगवान् पार्थसारथिः स्वाभिप्रायं आह, पार्थोद्योगेन विना+अपि धार्तराष्ट्रप्रमुखम् अशेषं राजलोकं निहन्तुं अहमेव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थम् उद्योजयितुम् इति ।

* श्रीभगवान् उवाच
* कालो ऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुं इह प्रवृत्तः ।
* ऋते ऽपि त्वा न भविष्यन्ति सर्वे ये ऽवस्थिताः प्रत्यनीकेषु योधाः ॥११,३२॥

कलयति गणयति+इति कालः; सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानाम् आयुरवसानं गणयन्नहं तत्क्षयकृत्घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुम् आभिमुख्येन संहर्तुं इह प्रवृत्तो ऽस्मि । अतो मत्संकल्पादेव त्वाम् ऋते ऽपि त्वदुद्योगातृते ऽपि एते धार्तराष्ट्रप्रमुखास्तव प्रत्यनीकेषु ये ऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥११,३२॥

* तस्मात्त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
* मया+एवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥११,३३॥

तस्मात्त्वं तान् प्रति युद्धाय+उत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व; धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मया+एवैते कृतापराधाः पूर्वमेव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्तमात्रं भव । मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये; सव्येन शरसचनशीलः सव्यसाची; सव्येनापि करेण शरसमवायकरः; करद्वयेन योद्धुं समर्थ इत्यर्थः ॥११,३३॥

* द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा+अन्यान् अपि योधमुख्यान् ।
* मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥११,३४॥

द्रोणभीष्मकर्णादीन् कृतापराधतया मया+एव हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश्च अन्यान् अपि भोगसक्तान् कथं हनिष्यामि+इति मा व्यथिष्ठाः तान् उद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस्ते कृतापराधा मया+एव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्धः; अपि तु जय एव लभ्यत इत्यर्थः ॥११,३४॥

* सञ्जय उवाच
* एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
* नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥११,३५॥

एतताश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस्तस्मै नमस्कृत्य भीतभीतो भूयस्तं प्रणम्य कृताञ्जलिर्वेपमानः किरीटी सगद्गदं आह ॥११,३५॥

* स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
* रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥११,३६॥

स्थाने युक्तम् । यदेतत्युद्धदिदृक्षया+आगतम् अशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नरकिंपुरुषादिकं जगत्, त्वत्प्रसादात्त्वां सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच्च त्वाम् अवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघाः नमस्यन्ति च तदेतत्सर्वं युक्तम् इति पूर्वेण संबन्धः ॥११,३६॥

युक्ततामेव+उपपादयति

* कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणो ऽप्यादिकर्त्रे ।

महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद्धेतोर्न नमस्कुर्युः ॥११,३७अब् ॥

* अनन्त देवेश जगन्निवास त्वम् अक्षरं सदसत्तत्परं यत् ॥११,३७॥

अनन्त देवेश जगन्निवास त्वमेवाक्षरम् । न क्षरति+इत्यक्षरं जीवात्मतत्त्वम् । “न जायते म्रियते वा विपश्चित” इत्यादिश्रुतिसिद्धो जीवात्मा हि न क्षरति । सदसच्च त्वमेव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हतया कारणावस्थम् असच्छब्दनिर्दिष्टं च त्वमेव । तत्परं यत्तस्मात्प्रकृतेः प्रकृतिसंबन्धिनश्च जीवात्मनः परम् अन्यत्मुक्तात्मतत्त्वं यत्, तदपि त्वमेव ॥११,३७॥

* त्वम् आदिदेवः पुरुषः पुराणस्त्वम् अस्य विश्वस्य परं निधानम् ।

अतस्त्वम् आदिदेवः, पुरुषः पुराणः, त्वम् अस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परं निधानम्; विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस्त्वमेव+इत्यर्थः ॥११,३७॥

* वेत्ता+असि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥११,३८॥

जगति सर्वो वेदिता वेद्यं च सर्वं त्वमेव । एवं सर्वात्मतया+अवस्थितस्त्वमेव परं च धाम स्थानम्; प्राप्यस्थानम् इत्यर्थः । त्वया ततं विश्वम् अनन्तरूप । त्वया+आत्मत्वेन विश्वं चिदचिन्मिश्रं जगत्ततं व्याप्तम् ॥११,३८॥

अतस्त्वमेव वाय्वादिशब्दवाच्य इत्याह

* वायुर्यमो ऽग्निर्वरुणश्शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।

सर्वेषां प्रपितामहस्त्वमेव; पितामहादयश्च । सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनाम् आत्मतया तत्तच्छब्दवाच्यस्त्वमेव+इत्यर्थः ॥११,३९अब् ॥

अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनो ऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति ॥

* नमो नमस्ते ऽस्तु सहस्रकृत्वः पुनश्च भूयो ऽपि नमो नमस्ते ॥११,३९॥
* नमः पुरस्तादथ पृष्ठतस्ते नमो ऽस्तु ते सर्वत एव सर्व ।
* अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततो ऽसि सर्वः ॥११,४०॥

अमितवीर्य, अपरिमितपराक्रमस्त्वं सर्वात्मतया समाप्नोषि; ततः सर्वो ऽसि । यतस्त्वं सर्वं चिदचिद्वस्तुजातम् आत्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात्सर्वप्रकारस्त्वमेव सर्वशब्दवाच्यो ऽसि+इत्यर्थः । “त्वम् अक्षरं सदसत”, “वायुर्यमो ऽग्निः” इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिरेव हेतुरिति सुव्यक्तम् उक्तम्, “त्वया ततं विश्वम् अनन्तरूप”, “सर्वं समाप्नोषि ततो ऽसि सर्वः” इति च ॥११,४०॥

* सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
* अजानता महिमानं तव+इमं मया प्रमादात्प्रणयेन वा+अपि ॥११,४१॥
* यश्चापहासार्थम् असत्कृतो ऽसि विहारशय्यासनभोजनेषु ।
* एको ऽथ वा+अप्यच्युत तत्समक्षं तत्क्षामये त्वां अहम् अप्रमेयम् ॥११,४२॥

तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तम् इमम् अजानता मया प्रमादात्मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभं विनयापेतं यदुक्तं, यच्च प्रिहासार्थं सर्वदा+एव सत्कारार्हस्त्वम् असत्कृतो ऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यतसत्कृतो ऽसि; तत्सर्वं त्वाम् अप्रमेयं अहं क्षामये ॥११,४१,४२॥

* पिता+असि लोकस्य चराचरस्य त्वम् अस्य पूज्यश्च गुरु गरीयान् ।
* न त्वत्समो ऽस्त्यभ्यधिकः कुतो ऽन्यो लोकत्रये ऽप्यप्रतिमप्रभाव ॥११,४३॥

अप्रतिमप्रभाव! त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पिता+असि । अस्य लोकस्य गुरुश्चासि; अतस्त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्समो ऽस्त्यभ्यधिकः कुतो ऽन्यः लोकत्रये ऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समो ऽस्ति । कुतो ऽभ्यधिकः? ॥११,४३॥

* तस्मात्प्रणम्य प्रणिधाय कार्यं प्रसादये त्वां अहम् ईशम् ईड्यम् ।
* पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥११,४४॥

यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिको ऽसि, तस्मात्त्वाम् ईशम् ईड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये; यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति; तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुम् अर्हसि ॥११,४४॥

* अदृष्टपूर्वं हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
* तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥११,४५॥

अदृष्टपूर्वम् अत्यद्भुतम् अत्युग्रं च तव रूपं दृष्ट्वा हृषितो ऽस्मि प्रीतो ऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस्तदेव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास मयि प्रसादं कुरु, देवानां ब्रह्मादीनाम् अपि+ईश, निखिलजगदाश्रयभूत ॥११,४५॥

* किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुं अहं तथा+एव ।
* तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥११,४६॥

तथा+एव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुम् इच्छामि । अतस्तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस्त्वं तेनैव रूपेण युक्तो भव+इत्यर्थः ॥११,४६॥

* श्रीभगवान् उवाच
* मया प्रसन्नेन तवार्जुन+इदं रूपं परं दर्शितम् आत्मयोगात् ।
* तेजोमयं विश्वम् अनन्तम् आद्यं यन् मे त्वदन्येन न दृष्टपूर्वम् ॥११,४७॥

यन् मे तेजोमयं तेजसां राशिः; विश्वं विश्वात्मभूतम्, अनन्तम् अन्तरहितम्; प्रदर्शनार्थम् इदम्; आदिमध्यान्तरहितम्; आद्यं मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपं तदिदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम्; आत्मयोगातात्मनस्सत्यसंकल्पत्वयोगात् ॥११,४७॥

अनन्यभक्तिव्यतिरिक्तैः सर्वैरप्युपायैर्यथावदवस्थितो ऽहं द्रष्टुं न शक्य इत्याह

* न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
* एवंरूपश्शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥११,४८॥

एवंरूपो यथावदवथितो ऽहं मयि भक्तिमतस्त्वत्तो ऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर्द्रष्टुं न शक्यः ॥११,४८॥

* मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरम् ईदृङ् मम+इदम् ।
* व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपम् इदं प्रपश्य ॥११,४९॥

ईदृशघोररूपदर्शनेन ते या व्यथा, यश्च विमूढभावो वर्तते, तदुभयं मा भूत्; त्वया अभ्यस्तपूर्वमेव सौम्यं रूपं दर्शयामि, तदेव+इदं मम रूपं प्रपश्य ॥११,४९॥

* सञ्जय उवाच
* इत्यर्जुनं वासुदेवस्तथा+उक्त्वा स्वकं रूपं दर्शयाम् आस भूयः ।
* आश्वासयाम् आस च भीतमेनं भूत्वा पुनस्सौम्यवपुर्महात्मा ॥११,५०॥

एवं पाण्डुतनयं भगवान् वसुदेवसूनुरुक्त्वा भूयः स्वकीयमेव चतुर्भुजं रूपं दर्शयाम् आस; अपरिचितरुपदर्शनेन भीतमेनं पुनरपि परिचितसौम्यवपुर्भूत्वा आश्वासयाम् आस च, महात्मा सत्यसङ्कल्पः । अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश्चतुर्भुजमेव स्वकीयं रूपम्; कंसात्भीतवसुदेवप्रार्थनेन आकंसवधात्भुजद्वयम् उपसंहृतं पश्चादाविष्कृतं च । “जातो ऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपम् इदं देव प्रसादेन+उप्संहर ॥ ॥॥। उपसंहर विश्वात्मन् रूपमेतच्चतुर्भुजम” इति हि प्रार्थितम् । शिशुपालस्यापि द्विषतो ऽनवरतभावनाविषयश्चतुर्भुजमेव वसुदेवसूनो रूपम्, “उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम” इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजन+इत्युच्यते ॥११,५०॥

* अर्जुन उवाच
* दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
* इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥११,५१॥

अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थानसंस्थितम् अतिसौम्यम् इदं तव रूपं दृष्ट्वा इदानीं सचेतास्संवृत्तो ऽस्मि; प्रकृतिं गतश्च ॥५१॥

* श्रीभगवान् उवाच
* सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
* देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥११,५२॥

मम इदं सर्वस्य प्रशासने ऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यत्दृष्टवान् असि, तत्सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः ॥११,५२॥

कुत इत्यत्र आह

* नाहं वेदैर्न तपसा न दानेन न च+इज्यया ।
* शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा ॥११,५३॥
* भक्त्या त्वनन्यया शक्य अहमेवंविधो ऽर्जुन ।
* ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥११,५४॥

वेदैरध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश्च मद्भक्तिविरहितैः केवलैः यथावदवस्थितो ऽहं द्रष्टुम् अशक्यः । अनन्यया तु भक्त्या तत्त्वतश्शास्त्रैर्ज्ञातुं तत्त्वतस्साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, “नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम” इति ॥११,५३,५४॥

* मत्कर्मकृन् मत्परमो मद्भक्तस्सङ्गवर्जितः ।
* निर्वैरस्सर्वभूतेषु यः स मामेति पाण्डव ॥११,५५॥

वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणि+इति यः करोति, स मत्कर्मकृत् । मत्परमः सर्वेषाम् आरम्भाणां अहमेव परमोद्देश्यो यस्य, स मत्परमः । मद्भक्तः अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुतिध्यानार्चनप्रणामादिभिर्विना आत्मधारणम् अलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः । सङ्गवर्जितः मदेकप्रियत्वेन+इतरसङ्गम् असहमानः । निर्वैरस्सर्वभूतेषु मत्संश्लेषवियोगैकसुखदुःखस्वभावत्वात्स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच्च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच्च सर्वभूतेषु वैरनिमित्ताभावात्तेषु निर्वैरः । य एवं भूतः, स माम् इति मां यथावदवस्थितं प्राप्नोति; निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवति+इत्यर्थः ॥११,५५॥

भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशैश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्यौदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम्; उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनाम् ऐकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् । अननतरम् आत्मप्राप्तिसाधनभूतातात्मोपासनात्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात्सुसुखोपादानत्वाच्च श्रैष्ठ्यम्, भगवदुपासनोपायश्च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश्च+उच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्यात्श्रैष्ठ्यं तु, “योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥” इत्यत्र+उक्तम् ।

* एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
* ये चाप्यक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥१२,१॥

एवम् “मत्कर्मकृत” इत्यादिना+उक्तेन प्रकारेण, सततयुक्ताः भगवन्तं त्वामेव परं प्राप्यं मन्वानाः ये भक्ताः, त्वां सकलविभूतियुक्तम् अनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्तगुणसागरं परिपूर्णम् उपासते, ये चाप्यक्षरं प्रत्यगात्मस्वरूपं तदेव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपम् उपासते; तेषाम् उभयेषां के योगवित्तमाः के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थः, “भवामि न चिरात्पार्थ” इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयम् इति हि व्यञ्जयिष्यते ॥१२,१॥

* श्रीभगवान् उवाच
* मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
* श्रद्धया परया+उपेतास्ते मे युक्ततमाः मताः ॥१२,२॥

अत्यर्थमत्प्रियत्वेन मनो मय्यावेश्य श्रद्धया परया+उपेताः नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः ये माम् उपासते प्राप्यविषयं मनो मय्यावेश्य ये माम् उपासत इत्यर्थः ते युक्ततमाः मां सुखेनाचिरात्प्राप्नुवन्ति+इत्यर्थः ॥१२,२॥

* ये त्वक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
* सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥१२,३॥
* सन्नियम्य+इन्द्रियग्रामं सर्वत्र समबुद्धयः ।
* ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥१२,४॥
* क्लेशो ऽधिकतरस्तेषाम् अव्यक्तासक्तचेतसाम् ।
* अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥१२,५॥

ये तु अक्षरं प्रत्यगात्मस्वरूपम्, अनिर्देश्यं देहादन्यतया देवादिशब्दानिर्देश्यं तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगम् अचिन्त्यं च सर्वत्र देवादिदेहेषु वर्तमानम् अपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुम् अनर्हम्, तत एव कूटस्थं सर्वसाधारणं तत्तद्देवाद्यसाधारणाकारासंबद्धम् इत्यर्थः अपरिणामित्वेन स्वासाधारणाकारान्न चलति न च्यवत इत्यचलम्, तत एव ध्रुवम्, नित्यम् । सन्नियाम्येन्द्रियग्रामं चक्षुरादिकम् इन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस्सम्यङ्नियम्य, सर्वत्र समबुद्धयः सर्वत्र देवादिविषमाकारेषु देहेष्ववस्थितेष्वात्मसु ज्ञानैकाकारतया समबुद्धयः, तत एव सर्वभूतहिते रताः सर्वभूताहितरहितत्वान्निवृत्ताः । सर्वभूताहितरहितत्वं ह्यात्मनो देवादिविषमाकाराभिमाननिमित्तम् । य एवम् अक्षरम् उपासते, ते ऽपि मां प्राप्नुवन्त्येव मत्समानाकारम् असंसारिणम् आत्मानं प्राप्नुवन्त्येव+इत्यर्थः । “मम साधर्म्यम् आगताः” इति हि वक्ष्यते । श्रूयते च, “निरञ्जनः परमं साम्यम् उपैति” इति । तथा अक्षरशब्दनिर्दिष्टात्कूटस्थादन्यत्वं परस्य ब्रह्मणो वक्ष्यते, “कूटस्थो ऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः” इति । “अथ परा यया तदक्षरम् अधिक्गम्यते” इत्यक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परमेव ब्रह्म, भूतयोनित्वादेः ।तेषाम् अव्यक्तासक्तचेतसां क्लेशस्त्वधिकतरः । अव्यक्ता हि गतिः अव्यक्तविषया मनोवृत्तिः देहवद्भिः देहात्माभिमानयुक्तैः दुःखेनावाप्यते । देहवन्तो हि देहमेव आत्मानं मन्यन्ते ॥१२,३,४,५॥

भगवन्तम् उपासीनानां युक्ततमत्वं सुव्यक्तं आह

* ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
* अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२,६॥
* तेषां अहं समुद्धर्ता मृत्युसंसारसागरात् ।
* भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥१२,७॥

ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतपःप्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्पराः मदेकप्राप्याः, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयमेवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो माम् उपासत इत्यर्थः । तेषां मत्प्राप्तिविरोधितया मृत्युभूतात्संसाराख्यात्सागरादहम् अचिरेणैव कालेन समुद्धर्ता भवामि ॥१२,६,७॥

* मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
* निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥१२,८॥

अतो ऽतिशयितपुरुषार्थत्वात्सुलभत्वादचिरलभ्यत्वाच्च मय्येव मन आधत्स्व मयि मनस्समाधानं कुरु । मयि बुद्धिं निवेशय अहमेव परमप्राप्य इत्यध्यवसायं कुरु । अत ऊर्ध्वं मय्येव निवसिष्यसि । अहमेव परमप्राप्य इत्यध्यवसायपूर्वकमनोनिवेशनानन्तरमेव मयि निवसिष्यसि+इत्यर्थः ॥१२,८॥

* अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
* अभ्यासयोगेन ततो माम् इच्छा+आप्तुं धनञ्जय ॥१२,९॥

अथ सहसा+एव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततो ऽभ्यासयोगेन माम् आप्तुम् इच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्यौदार्यशैर्यवीर्यपराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिलहेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुम् इच्छ ॥१२,९॥

* अभ्यासे ऽप्यसमर्थो ऽसि मत्कर्मपरमो भव ।
* मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥१२,१०॥

अथैवंविधस्मृत्यभ्यासे ऽप्यसमर्थो ऽसि, मत्कर्मपरमो भव । मदीयानि कर्माण्यालयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननामसंकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि; तानि अत्यर्थप्रियत्वेनाचर । अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्नपि अचिरादभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिम् अवाप्स्यसि ॥१२,१०॥

* अथैतदप्यशक्तो ऽसि कर्तुं मद्योगम् आश्रितः ।
* सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥१२,११॥

अथ मद्योगम् आश्रित्यैतदपि कर्तुं न शक्नोषि मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगम् आश्रित्य भक्तियोगाङ्कुररूपमेतत्मत्कर्मापि कर्तुं न शक्नोषि, ततो ऽक्षरयोगम् आत्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितम् आश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु । मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर्हि प्रक्षीणाशेषपापस्यैव जायते । यतात्मवान् यतमनस्कः । ततो ऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयमेव+उत्पद्यते । तथा च वक्ष्यते, “स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः” इत्यारभ्य, “विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कलपते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम” इति ॥१२,११॥

* श्रेयो हि ज्ञानम् अभ्यासात्ज्ञानात्ध्यानं विशिष्यते ।
* ध्यानात्कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ॥१२,१२॥

अत्यर्थप्रीतिविरहितात्कर्कशरूपात्स्मृत्यभ्यासातक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्यज्ञानमेव आत्महितत्वेन विशिष्यते । आत्मापरोक्ष्यज्ञानादप्यनिष्पन्नरूपात्तदुपायभूतात्मध्यानमेवात्महितत्वे विशिष्यते । तद्ध्यानादप्यनिष्पन्नरूपात्तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते । अनभिसंहितफलादनुष्ठितात्कर्मणो ऽनन्तरमेव निरस्तपापतया मनसश्शान्तिर्भविष्यति; शान्ते मनसि आत्मध्यानं संपत्स्यते; ध्यानाच्च तदापरोक्ष्यम्; तदापरोक्ष्यात्परा भक्तिः इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठा+एव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठा+एव श्रेयसी+इत्यर्थः ॥१२,१२॥

अनभिसंहितफलकर्मनिष्ठस्य+उपादेयान् गुणान् आह

* अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
* निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥१२,१३॥
* सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चयः ।
* मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥१२,१४॥

अद्वेष्टा सर्वभूतानां विद्विषताम् अपकुर्वताम् अपि सर्वेषां भूतानाम् अद्वेष्टा मदपराधानुगुणम् ईश्वरप्रेरितान्येतानि भूतानि द्विषन्त्यपकुर्वन्ति च+इत्यनुसन्दधानः; तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन् मैत्रः, तेष्वेव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहेन्द्रियेषु तत्संबन्धिषु च निर्ममः, निरहङ्कारः देहात्माभिमानरहितः, तत एव समदुःखसुखः सुखदुःखागमयोः साङ्कल्पिकयोः हर्षोद्वेगरहितः, क्षमी स्पर्शप्रभवयोरवर्जनीययोरपि तयोर्विकाररहितः, संतुष्टः यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्टः, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धानपरः, यतात्मा नियमितमनोवृत्तिः, दृढनिश्चयः अध्यात्मशास्त्रोदितेष्वर्थेषु दृढनिश्चयः, मय्यर्पितमनोबुद्धिः भगवान् वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश्च मम आत्मापरोक्ष्यं साधयिष्यति+इति मय्यर्पितमनोबुद्धिः, य एवंभूतो मद्भक्तः एवं कर्मयोगेन मां भजमानो यः, स मे प्रियः ॥१२,१३॥१२,१४॥

* यस्मान्न+उद्विजते लोको लोकान्न+उद्विजते च यः ।
* हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥१२,१५॥

यस्मात्कर्मनिष्ठात्पुरुषान्निमित्तभूतात्लोको न+उद्विजते यो लोकोद्वेगकरं कर्म किञ्चिदपि न करोति+इत्यर्थः । लोकाच्च निमित्तभूतात्यो न+उद्विजते यम् उद्दिश्य सर्वलोको न+उद्वेगकरं कर्म करोति; सर्वाविरोधित्वनिश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तह्; एवंभूतो यः, सो ऽपि मम प्रियः ॥१२,१५॥

* अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
* सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१२,१६॥

अनपेक्षः आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्यनपेक्षः, शुचिः शास्त्रविहितद्रव्यवर्धितकायः, दक्षः शास्त्रीयक्रियोपादानसमर्थः, अन्यत्र+उदासीनः, गनव्यथः शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुषस्पर्शादिदुःखेषु व्यथारहितः, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्तः, स मे प्रियः ॥१२,१६॥

* यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
* शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥१२,१७॥

यो न हृष्यति यत्मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत्प्राप्य यः कर्मयोगी न हृष्यति; यच्चाप्रियम्, तत्प्राप्य न द्वेष्टि; यच्च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत्प्राप्य न शोचति; तथाविधम् अप्राप्तं च न काङ्क्षति; शुभाशुभपरित्यागी पापवत्पुण्यस्यापि बन्धहेतुत्वाविशेषादुभयपरित्यागी । य एवंभूतो भक्तिमान्, स मे प्रियः ॥१२,१७॥

* समश्शत्रौ च मित्रे च तथा मानावमानयोः ।
* शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥१२,१८॥
* तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।
* अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥१२,१९॥

“अद्वेष्टा सर्वभूतानाम” इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वम् उक्तम्; अत्र तेषु सन्निहितेष्वपि समचित्तत्वं ततो ऽप्यतिरिक्तो विशेष उच्यते । आत्मनि स्थिरमतित्वेन निकेतनादिष्वसक्त इत्यनिकेतः; तत एव मानावमानादिष्वपि समः; य एवंभूतो भक्तिमान्, स मे प्रियः ॥१२,१८॥१२,१९॥

अस्मादात्मनिष्ठात्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रमम् उपसंहरति

* ये तु धर्म्यामृतम् इदं यथोक्तं पर्युपासते ।
* श्रद्दधाना मत्परमा भक्तास्ते ऽतीव मे प्रियाः ॥१२,२०॥

धर्म्यं चामृतं च+इति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् “मय्यावेश्य मनो ये माम”इत्यादिना+उक्तेन प्रकारेण उपासते; ते भक्ताः अतितरां मम प्रियाः ॥१२,२०॥

पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यम् उक्तम् । मध्यमे च परमप्राप्यभूतभगवद्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षाणाम् आत्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनम् इति च+उक्तम् । इदानीम् उपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्वयोदिता विशोध्यन्ते । तत्र तावत्त्रयोदशे देहात्मनोः स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपायः, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश्चाचित्संबन्धहेतुः, ततो विवेकानुसन्धानप्रकारश्च+उच्यते ।

* श्रीभगवान् उवाच
* इदं शरीरं कौन्तेय क्षेत्रम् इत्यभिधीयते ।
* एतत्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३,१॥

इदं शरीरं देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुरात्मनो ऽर्थान्तरभूतस्य भोगक्षेत्रम् इति शरीरयाथात्म्यविद्भिरभिधीयते । एततवयवशः संघातरूपेण च, इदं अहं वेद्मि+इति यो वेत्ति, तं वेद्यभूतादस्माद्वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः । यद्यपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां “देवो ऽहम्, मनुष्यो ऽहं घटादिकं जानामि” इति देहसामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथा+अपि देहानुभववेलायां देहम् अपि घटादिकम् इव “इदं अहं वेद्मि” इति वेद्यतया वेदिता+अनुभवति+इति वेदितुरात्मनो वेद्यतया शरीरम् अपि घटादिवदर्थान्तरभूतम् । तथा घटादेरिव वेद्यभूताच्छरीरादपि वेदिता क्षेत्रज्ञो ऽर्थान्तरभूतः । सामानाधिकरण्येन प्रतीतिस्तु वस्तुतश्शरीरस्य गोत्वादिवतात्मविशेषणता+एकस्वभावतया तदपृथक्सिद्धेरुपपन्ना । तत्र वेदितुरसाधारणाकारस्य चक्षुरादिकरणाविषयत्वात्योगसंस्कृतमनोविषयत्वाच्च प्रकृतिसन्निधानादेव मूढाः प्रकृत्याकारमेव वेदितारं पश्यन्ति, तथा च वक्ष्यति, “उत्क्रामन्तं स्थितं वा+अपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः” इति ॥१३,१॥

* क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
* क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज् ज्ञानं मतं मम ॥१३,२॥

देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि; क्षेत्रज्ञं चापि+इति अपिशब्दात्क्षेत्रम् अपि मां विद्धि+इत्युक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मा+अन्तर्याम्यमृतः” इत्यारभ्य, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा+अन्तर्याम्यमृतः” इत्याद्याः । इदमेवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । “अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः”, “न तदस्ति विना यत्स्यान् मया भूतं चराचरम” ,”विष्टभ्याहम् इदं कृत्स्नमेकांशेन स्थितो जगत” इति पुरस्तादुपरिष्टाच्चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, “आदित्यानां अहं विष्णुः” इत्यादिना । यदिदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर्मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तदेव+उपादेयं ज्ञानम् इति मम मतम् । केचिदाहुः “क्षेत्रज्ञं चापि मां विद्धि” इति सामानाधिकरण्येनैकत्वम् अवगम्यते । ततश्च+इश्वरस्यैव सतो ऽज्ञानात्क्षेत्रज्ञत्वम् इव भवति+इत्यभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश्चायमेकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, “रज्जुरेषा न सर्पः” इत्याप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत्क्षेत्रज्ञत्वभ्रमो निवर्तते इति ।
ते प्रष्टव्याः अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत न+इति । निवृत्ताज्ञानश्चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्युपदेशादिव्यापाराश्च न संभवन्ति । अथात्मसाक्षात्काराभावादनिवृत्ताज्ञानः, न तर्ह्यज्ञत्वादेवात्मज्ञानोपदेशसंभवः; “उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” इति ह्युक्तम् । अत एवम् आदिवादा अनाकलितश्रुतिस्मृतिइतिहासपुराणन्यायस्ववाग्विरोधैरज्ञानिभिर्जगन्मोहनाय प्रवर्तिता इत्यनादरणीयाः । अत्र+इदं तत्त्वम्
अचिद्वस्तुनश्चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन च+ईशितृत्वेन च स्वरूपविवेकं आहुः काश्चन श्रुतयः, “अस्मान् मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः”, “मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं”, “क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानावीशते देव एकः” अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरति+इति हरः “स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः”, “प्रधानक्षेत्रज्ञपतिर्गुणेशः”, “पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम”, “ज्ञाज्ञौ द्वावजावीशनीशौ”, “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान”, “भोक्ता भोग्यं प्रेरितारं च मत्वा”, “पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति”, “तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो ऽभिचाकशीति”, “अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगाम् अजो ऽन्यः” इत्याद्याः । अत्रापि, “अहङ्कार इति+इयं मे भिन्ना प्रकृतिरष्टधा । अपरेयम् इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां”, “सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर्वशात् ॥ ॥॥। मया+अध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुना+अनेन कौन्तेय जगद्धि परिवर्तते ॥”, “प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि”, “मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत” इति । जगद्योनिभूतं महत्ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृतात्चिदचित्संसर्गादेव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवति+इत्यर्थः ।
एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वं आहुः काश्चन श्रुतयः, “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति” इत्यारभ्य, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा+अन्तर्याम्यमृताः” इति; तथा, “यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद” इत्यारभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद”, “यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्मा+अपहतपाप्मा दिव्यो देव एको नारायण”, अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्वभिधीयते, अस्यामेव+उपनिषदि, “अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते” इति वचनात् “अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा” इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इति+इमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत्स एव+इत्याहुः, “सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयम”, “तदैक्षत बहु स्यां प्रजायेय+इति । तत्तेजो ऽसृजत” इत्यारभ्य, “सन्मूलास्सोम्य+इमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठा”, “ऐतदात्म्यम् इदं सर्वं तत्सत्यं स आत्मा तत्त्वम् असि श्वेतकेतो” इति । तथा, “सो ऽकामयत, बहु स्यां प्रजायेय+इति । स तपो ऽतप्यत, स तपस्तप्त्वा, इदं सर्वम् असृजत” इत्यारभ्य, “सत्यं चामृतं च सत्यम् अभवत” इति । अत्रापि श्रुत्यन्तरसिद्धिश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, “हन्ताहम् इमास्तिस्रो देवता अनेन जीवेनात्मना+अनुप्रविश्य नामरूपे व्याकरवाणि”, “तत्सृष्ट्वा, तदेवानुप्रविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् ॥॥। विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत” इति च । एवंभूतमेव नामरूपव्याकरणम्, “तद्ध+इदं तर्ह्यव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत” इत्यत्राप्युक्तम् ।
अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एव+इति, कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततया+एकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् । “हन्ताहम् इमास्तिस्रो देवता अनेन जीवेनात्मना+अनुप्रविश्य नामरूपे व्याकरवाणि” इति, “तिस्रो देवताः” इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात्सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं च+इति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्य+उपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करो ऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस्सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतया+एव पदार्थत्वात्तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावादविकृतत्वम् उपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतया+अवस्थानात्कार्यत्वम् अप्युपपन्नम् । अवस्थान्तरापत्तिरेव हि कार्यता । निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणसंबन्धाभावादुपपद्यन्ते । “अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः” इति हेयगुणान् प्रतिषिध्य, “सत्यकामस्सत्यसङ्कल्पः” इति कल्याणगुणगणान् विदधती+इयं श्रुतिरेव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं च+इत्यभ्युपगमादुपपन्नतरः । “यस्सर्वज्ञः सर्ववित”, “परा+अस्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, “विज्ञातारम् अरे केन विजानीयात” इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति । “सत्यं ज्ञानम” इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । “सो ऽकामयत बहु स्याम”, “तदैक्षत बहु स्याम”, “तन्नामरूपाभ्यामेव व्याक्रियत” इति ब्रह्मैव स्वसङ्कल्पात्विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, “मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ॥॥। न+इह नाना+अस्ति किञ्चन”, “यत्र हि द्वैतम् इव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वम् आत्मा+एवाभूत्तत्केन कं पश्येत” इत्यादिना । न पुनः, “बहु स्यां प्रजायेय” इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते । “यत्र त्वस्य सर्वम् आत्मा+एवाभूत” इति निषेधवाक्यारम्भे च तत्स्थापितम्, “सर्वं तं परादात्यो ऽन्यतरात्मनस्सर्वं वेद”, “तस्य एतस्य महतो भूतस्य निश्श्वसितमेतत्यदृग्वेदः” इत्यादिना ।
एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिदप्यवकाशो दृश्यत इत्यलम् अतिविस्तरेण ॥१३,२॥

* तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
* स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३,३॥

तत्क्षेत्रं यच्च यत्द्रव्यम्, यादृक् च येषाम् आश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश्च यतो हेतोरिदम् उत्पन्नम्; यस्मै प्रयोजनाय+उत्पन्नम् इत्यर्थः, यत् यत्स्वरूपं च+इदम्, स च यः स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश्च ये चास्य प्रभावाः, तत्सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥१३,३॥

* ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
* ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३,४॥

तदिदं क्षेत्रक्षेत्रज्ञयाथात्म्यम् ऋषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् “अहं त्वं च तथा+अन्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गो ऽपि या+अत्ययम् ॥ कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरश्शान्तो निर्गुणः प्रकृतेः परः ॥”; तथा, “पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः । ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्यहम”; तथा च, “किं त्वमेतच्छिरः किं नु उरस्तव तथा+उदरम् । किम् उ पादादिकं त्वं वै तवैतत्किं महीपते ॥ समस्तावयवेभ्यस्त्वं पृथक् भूय व्यवस्थितः । को ऽहम् इत्येव निपुणो भूत्वा चिन्तय पार्थिव ॥” इति । एवं विविक्तयोर्द्वयोः वासुदेवात्मकत्वं चाहुः, “इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ॥” इति । छन्दोभिर्विविधैः पृथक् पृथग्विधैश्छन्दोभिश्च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग् गीतम् “तस्माद्वा एतस्मादात्मन आकाशस्संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषो ऽन्नरसमयः” इति शरीरस्वरूपम् अभिधाय तस्मादन्तरं प्राणमयं तस्माच्चान्तरं मनोमयम् अभिधाय, “तस्माद्वा एतस्माद्मनोमयातन्यो ऽन्तर आत्मा विज्ञानमयः” इति क्षेत्रज्ञस्वरूपम् अभिधाय, “तस्माद्वा एतस्माद्विज्ञानमयातन्यो ऽन्तर आत्मा+आनन्दमयः” इति क्षेत्रज्ञस्याप्यन्तरात्मतया आनन्न्दमयः परमात्मा+अभिहितः । एवम् ऋक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस्तयोर्ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् । ब्रह्मसूत्रपदैश्चैव ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः; “न वियदश्रुतेः” इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः । “नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः” इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः । “परात्तु तच्छ्रुतेः” इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वम् उक्तम् । एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्वित्यर्थः ॥१३,४॥

* महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
* इन्द्रियाणि दशैकं च पञ्च च+इन्द्रियगोचराः ॥१३,५॥
* इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः ।
* एतत्क्षेत्रं समासेन सविकारम् उदाहृतम् ॥१३,६॥

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च+इति क्षेत्रारम्भकद्रव्याणि; पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशैकं च पञ्च च+इन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि; श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायुउपस्थानि पञ्च कर्मेन्द्रियाणि+इति तानि दश, एकम् इति मनः; इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः; इच्छा द्वेषस्सुखं दुःखम् इति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते; यद्यपि+इच्छाद्वेषसुखदुःखान्यात्मधर्मभूतानि, तथा+अप्यात्मनः क्षेत्रसंबन्धप्रयुक्तानि+इति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, “पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते” इति वक्ष्यते; संघातश्चेतनाधृतिः । आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश्च चेतनस्याधारतया+उत्पन्नो भूतसंघातः । प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धम् इन्द्रियाश्रयभूतम् इच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रम् इत्युक्तं भवति; एतत्क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम् ॥१३,५,६॥

अथ क्षेत्रकार्येष्वात्मज्ञानसाधनतया+उपादेया गुणाः प्रोच्यन्ते

* अमानित्वम् अदम्भित्वं अहिंसा क्षान्तिरार्जवम् ।
* आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥१३,७॥

अमानित्वम् उत्कृष्टजनेष्ववधीरणारहितत्वम्; अदम्भित्वं धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्; अहिंसा वाङ्मनःकायैः परपीडारहितत्वम्; क्षान्तिः परैः पीड्यमानस्यापि तान् प्रति अविकृतचित्तत्वम् । आर्जवं परान् प्रति वाङ्मनःकायप्रभृतीनामेकरूपता; आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचं आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यम् अध्यात्मशास्त्रोदिते ऽर्थे निश्चलत्वम्; आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् ॥१३,७॥

* इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च ।
* जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३,८॥

इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेन+उद्वेजनम्; अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थम् इदम्; अनात्मीयेष्वात्मीयाभिमानरहितत्वं च विवक्षितम् । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानम् ॥१३,८॥

* असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
* नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥१३,९॥

असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्विष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम् ॥१३,९॥

* मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
* विविक्तदेशसेवित्वम् अरतिर्जनसंसदि ॥१३,१०॥

मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः ॥१३,१०॥

* अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् ।
* एतत्ज्ञानम् इति प्रोक्तम् अज्ञानं यदतो ऽन्यथा ॥१३,११॥

आत्मनि ज्ञानम् अध्यात्मज्ञानं तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनं तत्त्वज्ञानप्रयोजनं यच्चिन्तनं तन्निरतत्वम् इत्यर्थः । ज्ञायते ऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनम् इत्यर्थः; क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकम् उक्तं गुणबृन्हमेवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधि+इति अज्ञानम् ॥१३,११॥

अथ एतद्यो वेत्ति+इति वेदितृत्वलक्षणेन+उक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते

* ज्ञेयं यत्तत्प्रवक्ष्यामि यत्ज्ञात्वा+अमृतम् अश्नुते ।
* अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३,१२॥

अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत्प्रत्यगात्मस्वरूपं तत्प्रवक्ष्यामि, यत्ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितम् अमृतम् आत्मानं प्राप्नोति; आदिर्यस्य न विद्यते, ततनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर्न विद्यते; तत एवान्तो न विद्यते । श्रुतिश्च, “न जायते म्रियते वा विपश्चित” इति, मत्परं अहं परो यस्य तत्मत्परम् । “इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम” इति ह्युक्तम् । भगवच्छरीरतया भगवच्छेषतैकरसं ह्यात्मस्वरूपम्; तथा च श्रुतिः, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति” इति, तथा, “स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः”, “प्रधानक्षेत्रज्ञपतिर्गुणेशः” इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेरर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वम् इत्यर्थः; “स चानन्त्याय कल्पते” इति हि श्रूयते; शरीरपरिच्छिन्नत्वम् अणुत्वं चास्य कर्मकृतम् । कर्मबन्धान् मुक्तस्यानन्त्यम् । आत्मन्यपि ब्रह्मशब्दः प्रयुज्यते, “स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठा+अहम् अमृतस्याव्ययस्य च”, “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥” इति । न सत्तन्नासदुच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मसवरूपं न+उच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सदित्युच्यते, तदनर्हता कारणावस्थायाम् असदित्युच्यते । तथा च श्रुतिः, “असद्वा इदम् अग्र आसीत् । ततो वै सदजायत”,”तद्ध+इदं तर्ह्यव्याकृतम् आसीत्तन्नामरूपाभ्यां व्याक्रियत” इत्यादिका । कार्यकारणावस्थाद्वयान्वयस्त्वात्मनः कर्मरूपाविद्यावेष्टनकृतः, न स्वरूपकृत इति सदसच्छब्दाभ्याम् आत्मस्वरूपं न+उच्यते । यद्यपि “असद्वा इदम् अग्र आसीत” इति कारणावस्थं परं ब्रह्म+उच्यते, तथा+अपि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपम् अपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सा+अवस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम् ॥१३,१२॥

* सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
* सर्वतश्श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥१३,१३॥

सर्वतः पाणिपादं तत्परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतो ऽक्षिशिरोमुखं सर्वतश्श्रुतिमत्सर्वतश्चक्षुरादिकार्यकृत्, “अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इति परस्य ब्रह्मणो ऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनो ऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धमेव । “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति” इति हि श्रूयते । “इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः” इति च वक्ष्यते । लोके सर्वम् आवृत्य तिष्ठति लोके यत्वस्तुजातं तत्सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः ॥१३,१३॥

* सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
* असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३,१४॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैराभासो यस्य तत्सर्वेन्द्रियाभासम् । इन्द्रियगुणा इन्द्रियवृत्तयः । इन्द्रियवृत्तिभिरपि विषयान् ज्ञतुं समर्थम् इत्यर्थः । स्वभावतस्सर्वेन्द्रियविवर्जितं विना+एव+इन्द्रियवृत्तिभिः स्वत एव सर्वं जानाति+इत्यर्थः । असक्तं स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच्चैव देवादिसर्वदेहभरणसमर्थं च; “स एकधा भवति त्रिधा भवति” इत्यादिश्रुतेः । निर्गुणं तथा स्वभावतस्सत्त्वादिगुणरहितम् । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च ॥१३,१४॥

* बहिरन्तश्च भूतानाम् अचरं चरमेव च ।
* सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३,१५॥

पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते; तेषाम् अन्तश्च वर्तते, “जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा” इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरमेव च स्वभावतो ऽचरम्; चरं च देहित्वे । सूक्ष्मत्वात्तदविज्ञेयमेवं सर्वशक्तियुक्तं सर्वज्ञां ततात्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्यतिसूक्ष्मत्वात्देहात्पृथक्त्वेन संसारिभिरविज्ञेयम्, दूरस्थं चान्तिके च ततमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानम् अप्यतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तदेवान्तिके वर्तते ॥१३,१५॥

* अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् ।
* भूतभर्तृ च तत्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३,१६॥

देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् । अविदुषां देवाद्याकारेण “अयं देवो मनुष्यः” इति विभक्तम् इव च स्थितम् । देवो ऽहम्, मनुष्यो ऽहम् इति देहसामानाधिकरण्येनानुसन्धीयमानम् अपि वेदितृत्वेन देहादर्थान्तरभूतं ज्ञातुं शक्यम् इति आदावुक्तमेव, “एतत्यो वेत्ति” इति, इदानीं प्रकारान्तरैश्च ज्ञातुं शक्यम् इत्याज भूतभर्तृ च+इति । भूतानां पृथिव्यादीनां देहरूपेण संहतानां यत्भर्तृ, तत्भर्तव्येभ्यो भूतेभ्यो ऽर्थान्तरं ज्ञेयम्; अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतम् इति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभवहेतुश्च, ग्रस्तानाम् अन्नादीनाम् आकारान्तरेण परिणतानां प्रभहेतुः, तेभ्यो ऽर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः; मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनान्न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुरिति निश्चीयते ॥१३,१६॥

* ज्योतिषाम् अपि तत्ज्योतिस्तमसः परम् उच्यते ।
* ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३,१७॥

ज्योतिशां दीपादित्यमणिप्रभृतीनाम् अपि तदेव ज्योतिः प्रकाशकम्, दीपादित्यादीनाम् अप्यात्मप्रभारूपं । ज्ञानमेव प्रकाशकम् । दीपादयस्तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते । तावन् मात्रेण तेषां प्रकाशकत्वम् । तमसः परम् उच्यते । तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः । प्रकृतेः परम् उच्यत इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् । तच्च ज्ञानगम्यम् अमानित्वादिभिर्ज्ञानसाधनैरुक्तैः प्राप्यम् इत्यर्थः । हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितं सन्निहितम् ॥१३,१७॥

* इति क्षेत्रं तथा ज्ञानं ज्ञेयं च+उक्तं समासतः ।
* मद्भक्त एतत्विज्ञाय मद्भावाय+उपपद्यते ॥१३,१८॥

एवं “महाभूतान्यहङ्कारः” इत्यादिना “संघातश्चेतनाधृतिर” इत्यन्तेन क्षेत्रतत्त्वं समासेन+उक्तम् । “अमानित्वम” इत्यादिना “तत्त्वज्ञानार्थचिन्तनम” इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनम् उक्तम् । “अनादि मत्परम” इत्यादिना “हृदि सर्वस्य विष्ठितम” इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेण+उक्तम् । मद्भक्तः एतत्क्षेत्रयाथात्म्यं, क्षेत्राद्विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावाय+उपपद्यते । मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवति+इत्यर्थः ॥१३,१८॥

अथात्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्यानादित्वं संसृष्टयोर्द्वयोः कार्यभेदः संसर्गहेतुश्च+उच्यते

* प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
* विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३,१९॥

प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि; बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन्, अमानित्वादिकांश्च गुणां मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि । पुरुषेण संसृष्टेयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैरिच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर्भवति; सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर्भवति+इत्यर्थः ॥१३,१९॥

* कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
* पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३,२०॥

कार्यं शरीरम्; कारणानि ज्ञानकर्मात्मकानि समनस्कानि+इन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिरेव हेतुः; पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः । पुरुषस्याधिष्ठातृत्वमेव; तदपेक्षया, “कर्ता शास्त्रार्थवत्त्वात” इत्यादिकम् उक्तम्; शरीराधिष्ठानप्रयत्नहेतुत्वमेव हि पुरुषस्य कर्तृत्वम् । प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः ॥१३,२०॥

एवम् अन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः; पुरुषस्य स्वतस्स्वानुभवैकसुखस्यापि वैषयिकसुखदुःखोपभोगहेतुं आह

* पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।

गुणशब्दः स्वकार्येष्वौपचारिकः । स्वतस्स्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः, प्रकृतिजान् गुणान् प्रकृतिसंसर्गोपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदुःखादीन्, भुङ्क्ते अनुभवति । प्रकृतिसंसर्गहेतुं आह

* कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु ॥१३,२१॥

पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितो ऽयं पुरुषस्तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते; ततस्तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते; ततश्च कर्मारभते; ततो जायते; यावतमानित्वादिकान् आत्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावदेव संसरति । तदिदम् उक्तं कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु इति ॥१३,२१॥

* उपद्रष्टा+अनुमन्ता च भर्ता भोक्ता महेश्वरः ।
* परमात्मेति चाप्युक्तो देहे ऽस्मिन् पुरुषः परः ॥१३,२२॥

अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्य+उपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देहप्रवृत्तिजनितसुखदुःखयोर्भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, “शरीरं यदवाप्नोति यच्चाप्युत्क्रामति+ईश्वरः । गृहीत्वा+एतानि संयाति वायुर्गन्धान् इवा+आशयात् ॥” इति । अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्युक्तः । देहे मनसि च आत्मशब्दो ऽनन्तरमेव प्रयुज्यते, “ध्यानेनात्मनि पश्यन्ति केचिदात्मानम् आत्मना” इति; अपिशब्दात्महेश्वर इत्यप्युक्त इति गम्यते; पुरुषः परः “अनादि मत्परम” इत्यादिना+उक्तो ऽपरिच्छिन्नज्ञानशक्तिरयं पुरुषो ऽनादिप्रकृतिसंबन्धकृतगुणसङ्गातेतद्देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति ॥१३,२२॥

* य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह ।
* सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ॥१३,२३॥

एनम् उक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर्गुणैः सह, यो वेत्ति यथावत्विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्वतिमात्रक्लिष्टप्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्नज्ञानलकषणम् अपहतपाप्मानम् आत्मानं तद्देहावसानसमये प्राप्नोति+इत्यर्थः ॥१३,२३॥

* ध्यानेनात्मनि पश्यन्ति केचिदात्मानम् आत्मना ।
* अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥१३,२४॥

केचित्निष्पन्नयोगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश्च सुकरोपायसक्ताः, व्यपदेश्याश्च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यताम् आपाद्य आत्मानं पश्यन्ति ॥१३,२४॥

* अन्ये त्वेवम् अजानन्तः श्रुत्वा ऽन्येभ्यश्च उपासते ।
* ते ऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३,२५॥

अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्वनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिरात्मानम् उपासते; ते ऽप्यात्मदर्शनेन मृत्युम् अतितरन्ति । ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकम् आरभ्यातितरन्त्येव मृत्युम् । अपिशब्दाच्च पूर्वभेदो ऽवगम्यते ॥१३,२५॥

अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजम् इत्याह

* यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
* क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३,२६॥

यावत्स्थावरजङ्गमात्मना सत्त्वं जायते, तावत्क्षेत्रक्षेत्रज्ञयोरितरेतरसंयोगादेव जायते संयुक्तमेव जायते, न त्वितरेतरवियुक्तम् इत्यर्थः ॥१३,२६॥

* समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
* विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३,२७॥

एवम् इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकारात्वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स पश्यति स आत्मानं यथावदवस्थितं पश्यति । यस्तु देवादिविषमाकारेणात्मानम् अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यमेव संसरति+इत्यभिप्रायः ॥१३,२७॥

* समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् ।
* न हिनस्त्यात्मना+आत्मानं ततो याति परां गतिम् ॥१३,२८॥

सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति । ततः तस्मात्ज्ञातृतया सर्वत्र समानाकारदर्शनात्परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावदवस्थितम् आत्मानं प्राप्नोति; देवाद्याकारयुक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति भवजलधिमध्ये प्रक्षिपति ॥१३,२८॥

* प्रकृत्या+एव च कर्माणि क्रियमाणानि सर्वशः ।
* यः पश्यति तथा+आत्मानम् अकर्तारं स पश्यति ॥१३,२९॥

सर्वाणि कर्माणि, “कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते” इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानि+इति यः पश्यति, तथा आत्मानं ज्ञानाकारं अकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस्तदधिष्ठानं तज्जन्यसुखदुःखानुभवश्च कर्मरूपाज्ञानकृतानि+इति च यः पश्यति, स आत्मानं यथावदवस्थितं पश्यति ॥१३,२९॥

* यदा भूतपृथग्भावमेकस्थम् अनुपश्यति ।
* तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३,३०॥

प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावमेकस्थमेकतत्त्वस्थं प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एव+उत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदा+एव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारम् आत्मानं प्राप्नोति+इत्यर्थः ॥१३,३०॥

* अनादित्वान्निर्गुणत्वात्परमात्मा+अयम् अव्ययः ।
* शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते ॥१३,३१॥

अयं परमात्मा देहान्निष्कृष्य स्वस्वभावेन निरूपितः, शरीरस्थो ऽपि अनादित्वातनारभ्यत्वातव्ययः व्ययरहितः, निर्गुणत्वात्सत्त्वादिगुणरहितत्वात्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते ॥१३,३१॥

यद्यपि निर्गुणत्वान्न करोति, नित्यसंयुक्तो देहस्वभावैः कथं न लिप्यत इत्यत्राह

* यथा सर्वगतं सौक्ष्म्यादाकाशं न+उपलिप्यते ।
* सर्वत्रावस्थितो देहे तथा+आत्मा न+उपलिप्यते ॥१३,३२॥

यथा आकाशं सर्वगतम् अपि सर्वैर्वस्तुभिस्संयुक्तम् अपि सौक्ष्म्यात्सर्ववस्तुस्वभावैर्न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात्सर्वत्र देवमनुष्यादौ देहे ऽवस्थितो ऽपि तत्तद्देहस्वभावैर्न लिप्यते ॥१३,३२॥

* यथा प्रकाशयत्येकः कृत्स्नं लोकम् इमं रविः ।
* क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३,३३॥

यथा+एक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, “मम+इदं क्षेत्रम् ईदृशम” इति कृत्स्नं बहिरन्तश्चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल् लोकात्प्रकाशकादित्यवत्वेदितृत्वेन वेद्यभूतादस्मात्क्षेत्रादत्यन्तविलक्षणो ऽयम् उक्तलक्षण आत्मेत्यर्थः ॥१३,३३॥

* क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा ।
* भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३,३४॥

एवम् उक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धम् आत्मानं प्राप्नुवन्ति । मोक्ष्यते ऽनेन+इति मोक्षः, अमानित्वादिकं मोक्षसाधनम् इत्यर्थः; क्षेत्रक्षेत्रज्ञयोर्विवेकविषयेण+उक्तेन ज्ञानेन तयोर्विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायम् अमानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितम् अनवच्छिन्नज्ञानलक्षणम् आत्मानं प्राप्नुवन्ति+इत्यर्थः ॥१३,३४॥

त्रयोदशे प्रकृतिपुरुषयोरन्यान्यसंसृष्टयोः स्वरूपयाथात्मयं विज्ञाय अमानित्वादिभिः भगवद्भक्त्यनुगृहीतैर्बन्धान् मुच्यत इत्युक्तम् । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, “कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु” इति । अथ+इदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश्च+उच्यते ।

* श्रीभगवान् उवाच
* परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् ।
* यत्ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतो गताः ॥१४,१॥

परं पूर्वोक्तादन्यत्प्रकृतिपुरुषान्तर्गतमेव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि । तच्च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानाम् उत्तमम् । यत्ज्ञानं ज्ञात्वा सर्वे मुनयस्तन् मननशीलाः इतः संसारबन्धात्परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिम् अवाप्ताः ॥१४,१॥

पुनरपि तज् ज्ञानं फलेन विशिनष्टि

* इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
* सर्गे ऽपि न+उपजायन्ते प्रलये न व्यथन्ति च ॥१४,२॥

इदं वक्ष्यमाणं ज्ञानम् उपश्रित्य मम साधर्म्यम् आगताः मत्साम्यं प्राप्ताः, सर्गे ऽपि न+उपजायन्ते न सृजिकर्मतां भजन्ते; प्रलये न व्यथन्ति च न च संहृतिकर्मताम् ॥१४,२॥

अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं “यावत्संजायते किञ्चित” इत्यनेन+उक्तं भगवता स्वेनैव कृतम् इत्याह

* मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
* संभवस्सर्वभूतानां ततो भवति भारत ॥१४,३॥

कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन् गर्भं दधाम्यहम्; “भूमिरापो ऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इति+इयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयम” इति निर्दिष्टा अचेतनप्रकृतिः महदहङ्कारादिविकाराणां कारणतया महद्ब्रह्म+इत्युच्यते । श्रुतावपि क्वचित्प्रकृतिरपि ब्रह्म+इति निर्दिश्यते, “यस्सर्वज्ञस्सर्ववित्यस्य ज्ञानमयं तपः । तस्मातेतद्ब्रह्म नाम रूपम् अन्नं च जायते” इति; “इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम” इति चेतनपुञ्जरूपा या परा प्रकृतिर्निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भशब्देन+उच्यते । तस्मिन् अचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि; अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामि+इत्यर्थः । ततः तस्मात्प्रकृतिद्वयसंयोगात्मत्संकल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति ॥१४,३॥

कार्यावस्थो ऽपि चिदचित्प्रकृतिसंसर्गो मया+एव कृत इत्याह

* सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
* तासां ब्रह्म महत्योनिरहं बीजप्रदः पिता ॥१४,४॥

सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महत्योनिः कारणम्; मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणम् इत्यर्थः । अहं बीजप्रदः पिता तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश्चाहम् इत्यर्थः ॥१४,४॥

एवं सर्गादौ प्राचीनकर्मवशादचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर्देवादिभावेन जन्महेतुं आह

* सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
* निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥१४,५॥

सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायाम् अनुद्भूताः तद्विकारेषु महदादिषु उद्भूताः महदादिविशेषान्तैरारब्धदेवमनुष्यादिदेहसंबन्धिनमेनं देहिनम्, अव्ययं स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्ति+इत्यर्थः ॥१४,५॥

सत्त्वरजस्तमसाम् आकारं बन्धनप्रकारं चाह

* तत्र सत्त्वं निर्मलत्वात्प्रकाशकम् अनामयम् ।
* सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥१४,६॥

तत्र सत्त्वरजस्तमस्तु सत्त्वस्य स्वरूपम् ईदृशं निर्मलत्वात्प्रकाशकम्; प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम्; प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतम् इत्यर्थः । प्रकाशः वस्तुयाथात्म्यावबोधः । अनामयम् आमयाख्यं कार्यं न विद्यत इत्यनामयम्; अरोगताहेतुरित्यर्थः । एष सत्त्वाख्यो गुणो देहिनमेनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयति+इत्यर्थः । ज्ञानसुखयोस्सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते; ततश्च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति । ज्ञानसुखजननं पुनरपि तयोस्सङ्गजननं च सत्त्वम् इत्युक्तं भवति ॥१४,६॥

* रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
* तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥१४,७॥

रजो रागात्मकं रागहेतुभूतम् । रागः योषित्पुरुषयोरन्यान्यस्पृहा । तृणासङ्गसमुद्भवं तृष्णासङ्गयोरुद्भवस्थानं तृष्णासङ्गहेतुभूतम् इत्यर्थः । तृष्णा शब्दादिसर्वविषयस्पृहा; सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा । तत्रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति; क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश्च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति । अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति । तदेवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश्च+इत्युक्तं भवति ॥१४,७॥

* तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
* प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥१४,८॥

ज्ञानादन्यदिह अज्ञानम् अभिप्रेतम् । ज्ञानं वस्तुयथात्म्यावबोधः; तस्मादन्यत्तद्विपर्ययज्ञानम् । तमस्तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजम् । मोहनं सर्वदेहिनाम् । मोहो विपर्ययज्ञानम्; विपर्ययज्ञानहेतुरित्यर्थः । तत्तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात्कर्मणो ऽन्यत्र प्रवृत्तिहेतुभूतम् अनवधानम् । आलस्यं कर्मस्वनारम्भस्वभावः; स्तब्धतेति यावत् । पुरुषस्य+इन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर्निद्रा; तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः; मनसो ऽप्युपरतिः सुषुप्तिः ॥१४,८॥

सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्याह

* सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
* ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्युत ॥१४,९॥

सत्त्वं सुखसङ्गप्रधानम्; रजः कर्मसङ्गप्रधानम्; तमस्तु वस्तुयाथात्म्यज्ञानम् आवृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानम् ॥१४,९॥

देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः; ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्ति+इत्यत्र आह

* रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
* रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥१४,१०॥

यद्यपि सत्त्वाद्यस्त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथा+अपि प्राचीनकर्मवशात्देहाप्यायनभूताहारवैषम्याच्च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते । रजस्तमसी कदाचिदभिभूय सत्त्वम् उद्रिक्तं वर्तते; तथा तमस्सत्त्वे अभिभूय रजः कदाचित्; कदाचिच्च रजस्सत्त्वे अभिभूय तमः ॥१४,१०॥

तच्च कार्योपलभ्यैवावगच्छेदित्याह

* सर्वद्वारेषु देहे ऽस्मिन् प्रकाश उपजायते ।
* ज्ञानं यदा तदा विद्यात्विवृद्धं सत्त्वम् इत्युत ॥१४,११।

सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानम् उपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धम् इति विद्यात् ॥१४,११॥

* लोभः प्रवृत्तिरारम्भः कर्मणाम् अशमः स्पृहा ।
* रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥१४,१२॥

लोभः स्वकीयद्रव्यस्यात्यागशीलता; प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि चलनस्वभावाता; आरम्भः कर्मणां फलसाधनभूतानां कर्मणाम् आरम्भः; अशमः इन्द्रियानुरतिः; स्पृहा विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्यादित्यर्थः ॥१४,१२॥

* अप्रकाशो ऽप्रवृत्तिश्च प्रमादो मोह एव च ।
* तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१४,१३॥

अप्रकाशः ज्ञानानुदयः; अप्रवृत्तिश्च स्तब्धता; प्रमादः अकार्यप्रवृत्तिफलम् अनवधानम्; मोहः विपरीतज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस्तमः प्रवृद्धम् इति विद्यात् ॥१४,१३॥

* यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
* तदा+उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥१४,१४॥

यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत्प्रलयं मरणं याति चेत्, उत्तमविदाम् उत्तमतत्त्वविदाम् आत्मयाथात्म्यविदां लोकान् समूहान् अमलान् मलरहितान् अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्वधिकरोति+इत्युक्तं भवति ॥१४,१४॥

* रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते; तत्र जनित्वा स्वर्गादिफलसाधनकर्मस्वधिकरोति+इत्यर्थः ॥

* तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥१४,१५॥

तथा तमसि प्रवृद्धे मृता मूढयोनिषु श्वसूकरादियोनिषु जायते । सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः ॥१४,१५॥

* कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
* रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम् ॥१४,१६॥

एवं सत्त्वप्रवृद्धौ मरणम् उपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनरपि ततो ऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवति+इत्याहुः सत्त्वगुणपरिणामविदः । अन्त्यकालप्रवृद्धस्य रजसस्तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभिसन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःखप्रायमेव+इत्याहुः तद्गुणयाथात्म्यविदः । अज्ञानं तमसः फलम् एवम् अन्त्यकालप्रवृद्धस्य तमसः फलम् अज्ञानपरम्परारूपम् ॥१४,१६॥

ततधिकसत्त्वादिजनितं निर्मलादिफलं किम् इत्यत्राह

* सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
* प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च ॥१४,१७॥

एवं परम्परया जातादधिकसत्त्वादात्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते । तथा प्रवृद्धात्रजसः स्वर्गादिफललोभो जायते । तथा प्रवृद्धाच्च तमसः प्रमादः अनवधाननिमित्ता असत्कर्मणि प्रवृत्तिः; ततश्च मोहः विपरीतज्ञानम्; ततश्चाधिकतरं तमः; ततश्चाज्ञानं ज्ञानाभावः ॥१४,१७॥

* ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
* जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥१४,१८॥

एवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसारबन्धान् मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वात्राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलम् अनुभूय पुनरपि जनित्वा तदेव कर्मानुतिष्ठन्ति+इति मध्ये तिष्ठन्ति । पुनरावृत्तिरूपतया दुःखप्रायमेव तत् । तामसास्तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति अन्त्यत्वम्, ततस्तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततो ऽपि गुल्मलतात्वम्, ततश्च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्ति+इत्यर्थः ॥१४,१८॥

आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश्च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारं आह

* नान्यं गुणेभ्यः कर्तारं यदा द्रष्टा+अनुपश्यति ।
* गुणेभ्यश्च परं वेत्ति मद्भावं सो ऽधिगच्छति ॥१४,१९॥

एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश्च रजस्तमसी सर्वात्मना+अभिभूय उत्कृष्टसत्त्वनिष्ठो यदा+अयं गुणेभ्यो ऽन्यं कर्तारं नानुपश्यति गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति; गुणेभ्यश्च परं वेत्ति कर्तृभ्यो गुणेभ्यश्च परम् अन्यम् आत्मानम् अकर्तारं वेत्ति स मद्भावम् अधिगच्छति मम यो भावस्तम् अधिगच्छति । एतदुक्तं भवति “आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम्; आत्मा स्वतस्त्वकर्ता अपरिच्छिन्नज्ञानैकाकारः” इत्येवम् आत्मानं यदा पश्यति, तदा मद्भावम् अधिगच्छति+इति ॥१४,१९॥

कर्तृभ्यो गुणेभ्यो ऽन्यम् अकर्तारम् आत्मानं पश्यन् भगवद्भावम् अधिगच्छति+इत्युक्तम्; स भगवद्भावः कीदृश इत्यत आह

* गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् ।
* जन्ममृत्युजरादुःखैर्विमुक्तो ऽमृतम् अश्नुते ॥१४,२०॥

अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान् सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यो ऽन्यं ज्ञानैकाकारम् आत्मानं पश्यन् जन्ममृत्युजरादुह्खैर्विमुक्तः अमृतम् आत्मानम् अनुभवति । एष मद्भाव इत्यर्थः ॥१४,२०॥

अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छन् अर्जुन उवाच

* अर्जुन उवाच
* कैर्लिङ्गैस्त्रिगुणान् एतान् अतीतो भवति प्रभो ।
* किम् आचारः कथं चैतांस्त्रीन् गुणान् अतिवर्तते ॥१४,२१॥

सत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैर्लिङ्गैः कैर्लक्षणैः उपलक्षितो भवति? किम् आचारः केनाचारेण युक्तो ऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः । कथं चैतान् केन+उपायेन सत्त्वादींस्त्रीन् गुणान् अतिवर्तते? ॥१४,२१॥

* श्रीभगवान् उवाच
* प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
* न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥१४,२२॥

आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्विष्टेषु वस्तुषु तान्येव निवृत्तानि न काङ्क्षति ॥१४,२२॥

* उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
* गुणा वर्तन्त इत्येव यो ऽवतिष्ठति न+इङ्गते ॥१४,२३॥

उदासीनवदासीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्र+उदासीनवदासीनः, गुणैर्द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्यनुसन्धाय यस्तु+उष्णीम् अवतिष्ठते । न+इङ्गते न गुणकार्यानुगुणं चेष्टते ॥१४,२३॥

* समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
* तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥१४,२४॥
* मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
* सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥१४,२५॥

समदुःखसुखः सुखदुःखयोस्समचित्तः, स्वस्थः स्वस्मिन् स्थितः । स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस्समचित्त इत्यर्थः । तत एव समलोष्टाश्मकाञ्चनः । तत एव तुल्यप्रियाप्रियः तुल्यप्रियाप्रियविषयः । धीरः प्रकृत्यात्मविवेककुशलः । तत एव तुल्यनिन्दात्मसंस्तुतिः आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः । तत्प्रयुक्तमानावमानयोः तत्प्रयुक्तमित्रारिपक्षयोरपि स्वसंबन्धाभावादेव तुल्यचित्तः । तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी । य एवंभूतः, स गुणातीत उच्यते ॥१४,२४,२५॥

अथैवंरूपगुणात्यये प्रधानहेतुं आह

* मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते ।
* स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥१४,२६॥

“नान्यं गुणेभ्यः कर्तारम” इत्यादिना+उक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते; तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् । मां सत्यसङ्कल्पं परमकारुणिकम् आश्रितवात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययान् अतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते; ब्रह्मभावयोग्यो भवति । यथावस्थितम् आत्मानम् अमृतम् अव्ययं प्राप्नोति+इत्यर्थः ॥१४,२६॥

* ब्रह्मणो हि प्रतिष्ठा+अहम् अमृतस्याव्ययस्य च ।
* शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥१४,२७॥

हिशब्दो हेतौ; यस्मादहम् अव्यभिचारिभक्तियोगेन सेवितो ऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्यैश्वर्यस्य; एइकान्तिकस्य च सुखस्य “वासुदेवः सर्वम” इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्य+इत्यर्थः । यद्यपि शाश्वतधर्मशब्दः प्रापकवचनः, तथा+अपि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयम् अपि प्राप्यलक्षकः । एतदुक्तं भवति पूर्वत्र “दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते” इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर्भगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वातेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावश्च+इति ॥१४,२७॥

क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धो ऽनादिरित्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवता+एव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम् । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयात्निखिलहेयप्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुम् आरभते । तत्र तावतसङ्गरूपशस्त्रच्छिन्नबन्धाम् अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततम् अचित्परिणामविशेषम् अश्वत्थवृक्षाकारं कल्पयन्

* श्रीभगवान् उवाच
* ऊर्ध्वमूलम् अधश्शाखम् अश्वत्थं प्राहुरव्ययम् ।
* छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१५,१॥

यं संसाराख्यम् अश्वथम् ऊर्ध्वमूलम् अधश्शाखम् अव्ययं प्राहुः श्रुतयः, “ऊर्ध्वमूलो ऽवाक्छाख एषो ऽश्वत्थस्सनातनः”, “ऊर्ध्वमूलम् अवाक्छाखं वृक्षं यो वेद संप्र्ति” इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्य+ऊर्ध्वमूलत्वम् । पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वम् । असङ्गहेतुभूताता सम्यग्ज्ञनोदयात्प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् । यस्य चाश्वत्थस्य छन्दांसि पर्णान्याहुः । छन्दांसि श्रुतयः, “वायव्यं श्वेतम् आलभेत भूतिकामः”, “ऐन्द्राग्नमेकादश कपालं निर्वपेत्प्रजाकामः” इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर्वर्धते ऽयं संसारवृक्ष इति छन्दांस्येवास्य पर्णानि । पर्णैर्हि वृक्षो वर्धते । यस्तमेवंभूतम् अश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदोपायं वदति; छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगि+इति वेदविदित्युच्यते ॥१५,१॥

* अधश्च+ऊर्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।

तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश्च अधः शाखाः पुनरपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति; ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश्च गुणप्रवृद्धाः गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः । कथम् इत्यत्राह

* अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥१५,२अब् ॥

ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्यनुसन्ततानि; तानि च कर्मानुबन्धीनि कर्माण्येवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्ति+इत्यर्थः । मनुष्यत्वावस्थायां कृतैर्हि कर्मभिः अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति ॥१५,२॥

* न रूपम् अस्य+इह तथा+उपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।

अस्य वृक्षस्य चतुर्मुखादित्वेन+ऊर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधश्शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्च+ऊर्ध्वं च प्रसृतशाखत्वम् इति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिरुपलभ्यते । मनुष्यो ऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश्च+इत्येतावन्मात्रम् उपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशो ऽपि गुणमयभोगेष्वसङ्गकृत इति न+उपलभ्यते । तथा अस्य गुणसङ्ग एवादिरिति न+उपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपम् अज्ञानम् इति न+उपलभ्यते; प्रतितिष्ठत्यस्मिन्न+एव+इति ह्यज्ञानमेवास्य प्रतिष्ठा ॥१५,२॥

* अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्वा ॥१५,३॥
* ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।

एनम् उक्तप्रकारं सुविरूढमूलं सुष्ठु विविधं रूढमूलम् अश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद्धेतोः तत्पदं परिमार्गितव्यम् अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥१५,३॥

कथम् अनादिकालप्रवृत्तो गुणमयभोगसंगः तन्मूलं च विपरीतज्ञानं निवर्तत इत्यत आह

* तमेव चाद्यं पुरुषं प्रपद्येद्यतः प्रवृत्तिः प्रसृता पुराणी ॥१५,४॥

अज्ञानादिनिवृत्तये तमेव च आद्यं कृत्स्नस्यादिभूतम्, “मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम”, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते”, “मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय” इत्यादिषु+उक्तम् आद्यं पुरुषमेव शरणं प्रपद्येत्तमेव शरणं प्रपद्येत । यतः यस्मात्कृत्स्नस्य स्रष्टुरियं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मया+एतत्पूर्वमेव, “दैवी ह्येषा गुणमयी मं माया दूरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इति । प्रपद्येयतः प्रवृत्तिरिति वा पाठः; तमेव चाद्यं पुरुषं प्र्पद्य शरणम् उपगम्य, इयतः अज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो मामेव शरणम् उपगम्य निर्मुक्तबन्धास्संजाता इत्यर्थः ॥१५,४॥

* निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
* द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदम् अव्ययं तत् ॥१५,५॥

एवं मां शरणम् उपगम्य निर्मानमोहाः निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषाः जितगुणमयभोगसङ्गाख्यदोषाः । अध्यात्मनित्याः आत्मनि यत्ज्ञानं ततध्यात्मम्, आत्मज्ञाननिरताः । विनिवृत्तकामाः विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर्द्वन्द्वैश्च विमुक्ताः, अमूढाः आत्मानात्मस्वभवज्ञाः, तदव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारम् आत्मानं यथावस्थितं प्राप्नुवन्ति; मां शरणम् उपगतानां मत्प्रसादादेरेवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्ति+इत्यर्थः ॥१५,५॥

* न तत्भासयते सूर्यो न शशाङ्को न पावकः ।
* यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥१५,६॥

ततात्मज्योतिर्न सूर्यो भासयते, न शशाङ्कः, न पावकश्च । ज्ञानमेव हि सर्वस्य प्रकाशकम्; बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेण+उपकारकाणि । अस्य च प्रकाशको योगः । तद्विरोधि चानादिकर्म । तन्निवर्तनं च+उक्तं भगवत्प्रपत्तिमूलम् असङ्गादि । यद्गत्वा पुनर्न निवर्तन्ते, तत्परमं धाम परं ज्योतिः मम मदीयम्; मद्विभूतिभूतः ममांश इत्यर्थः । आदित्यादीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि; ज्ञानमेव सर्वस्य प्रकाशकम् ॥१५,६॥

* ममैवांशो जीवलोके जीवभूतः सनातनः ।
* मनष्षष्ठानि+इन्द्रियाणि प्रकृतिस्थितानि कर्षति ॥१५,७॥

इत्थम् उक्तस्वरूपः सनातनो ममांश एव सन् कश्चिदनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानि+इन्द्रियाणि कर्षति । कश्चिच्च पूर्वोक्तेन मार्गेणास्या अविद्यायाः मुक्तः स्वेन रूपेणावतिष्ठते । जीवभूतस्त्वतिसंकुचितज्ञानैश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानाम् इन्द्रियाणां मनष्षष्ठानाम् ईश्वरः तानि कर्मानुगुणम् इतस्ततः कर्षति ॥१५,७॥

* शरीरं यदवाप्नोति यच्चाप्युत्क्रामति+ईश्वरः ।
* गृहीत्वा+एतानि संयाति वायुर्गन्धान् इवाशयात् ॥१५,८॥

यत्शरीरम् अवाप्नोति, यमाच्छरीरादुत्क्रामति, तत्रायम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूतसूक्ष्मैस्सह गृहीत्वा संयाति वायुर्गन्धान् इवाशयात् । यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात्तत्स्थानात्सूक्ष्मावयवैस्सह गन्धान् गृहीत्वा+अन्यत्र संयाति, तद्वदित्यर्थः ॥१५,८॥

कानि पुनस्तानि+इन्द्रियाणि+इत्यत्राह

* श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
* अधिष्ठाय मनश्चायं विषयान् उपसेवते ॥१५,९॥

एतानि मनष्षष्ठानि+इन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयान् उपसेवते उपभुङ्क्ते ॥१५,९॥

* उत्क्रामन्तं स्थितं वा+अपि भुञ्जानं वा गुणान्वितम् ।
* विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥१५,१०॥

एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषादुत्क्रामन्तं पिण्डविशेषे ऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिदपि प्रकृतिपरिणामविशेषमनुष्यत्वादिपिण्डाद्विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति । विमूढाः मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः । ज्ञानचक्षुषस्तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थम् अप्येनं विविक्ताकारमेव पश्यन्ति ॥१५,१०॥

* यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
* यतन्तो ऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥१५,११॥

मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास्तैर्निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरे ऽवस्थितम् अपि शरीराद्विविक्तं स्वेन रूपेणावस्थितमेनं पश्यन्ति । यतमाना अप्यकृतात्मानः मत्प्रपत्तिविरहिणः तत एवासंस्कृतमनसः, तत एव अचेतसः आत्मावलोकनसमर्थचेतोरहिताः नैनं पश्यन्ति ॥१५,११॥

एवं रविचन्द्राग्नीनाम् इन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेन+इन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मताम् अपि प्रकाशकज्ञानज्योतिरात्मा मुक्तावस्थो जीवावस्थश्च भगवद्विभूतिरित्युक्तम्, “तद्धाम प्रमं मम”, “ममैवांशो जीवलोके जीवभूतस्सनातनः” इति । इदानीम् अचित्परिणामविशेषभूतम् आदित्यादीनां ज्योतिष्मतां ज्योतिरपि भगवद्विभूतिरित्याह

* यदादित्यगतं तेजो जगद्भासयते ऽखिलम् ।
* यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥१५,१२॥

अखिलस्य जगतो भासकमेतेषाम् आदित्यादीनां यत्तेजः, तत्मदीयं तेजः तैस्तैराराधितेन मया तेभ्यो दत्तम् इति विद्धि ॥१५,१२॥

पृथिव्याश्च भूतधारिण्या धारकत्वशक्तिर्मदीयेत्याह

* गाम् आविश्य च भूतानि धारयाम्यहम् ओजसा ॥
* पुष्णामि च+ओषधीः सर्वास्सोमो भूत्वा रसात्मकः ॥१५,१३॥

अहं पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथा+अहम् अमृतरसमयस्सोमो भूत्वा सर्वौषधीः पुष्णामि ॥१५,१३॥

* अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
* प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥१५,१४॥

अहं वैश्वानरः जाठरानलो भूत्वा सर्वेषां प्राणिनां देहम् आश्रितः तैर्भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधम् अन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि ॥१५,१४॥

अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश्च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुं आह

* सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानम् अपोहनं च ।
* वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृत्वेदविदेव चाहम् ॥१५,१५॥

तयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः । तथा+आहुः श्रुतयः, “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा”, “यः पृथिव्यां तिष्ठन”, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो ॥॥। यमयति”, “पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम”, “अथ यदिदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” इत्याद्याः । स्मृतयश्च, “शास्ता विष्णुरशेषस्य जगतो यो जगन्मयः”, “प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसाम”, “यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः” इत्याद्याः । अतो मत्त एव सर्वेषां स्मृतिर्जायते । स्मृतिः पूर्वानुभूतिविषयम् अनुभवसंस्कारमात्रजं ज्ञानम् । ज्ञानम् इन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः; सो ऽपि मत्तः । अपोहनं च । अपोहनं ज्ञाननिवृत्तिः । अपोहनं ऊहनं वा; ऊहनं ऊहः; ऊहो नाम इदं प्रमाणम् इत्थं प्रवर्तितुम् अर्हति+इति प्रमाणप्रवृत्त्यर्हताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्; स च+ऊहो मत्त एव । वेदैश्च सर्वैरहमेव वेद्यः । अतो ऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात्तत्प्रतिपादनपरैरपि सर्वैर्वेदैरहमेव वेद्यः, देवमनुष्यादिशब्दैर्जीवात्मा+एव । वेदान्तकृत्वेदानाम् “इन्द्रं यजेत”, “वरुणं यजेत” इत्येवम् आदीनाम् अन्तः फलम्; फले हि ते सर्वे वेदाः पर्यवस्यन्ति; अन्तकृत्फलकृत्; वेदोदितफलस्य प्रदाता चाहमेव+इत्यर्थः । तदुक्तं पूर्वमेव, “यो यो यां यां तनुं भक्तः श्रद्धया+अर्चितुम् इच्छति” इत्यारभ्य “लभते च ततः कामान् मया+एव विहितान् हि तान” इति, “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति च । वेदविदेव चाहं वेदविच्चाहमेव । एवं मदभिधायिनं वेदं अहमेव वेद; इतो ऽन्यथा यो वेदार्थं
ब्रूते न स वेदविदित्यभिप्रायः ॥१५,१५॥

अतो मत्त एव सर्ववेदानां सारभूतम् अर्थं शृणु

* द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
* क्षरस्सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥१५,१६॥

क्षरश्चाक्षरश्च+इति द्वाविमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्टः पुरुषः जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि । अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः । अक्षरशब्दनिर्दिष्टः कूटस्थः अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा । स त्वचित्संसर्गाभवादचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवति+इति कूटस्थ इत्युच्यते । अत्राप्येकत्वनिर्देशो ऽचिद्वियोगरूपैकोपाधिना+अभिहितः । न हि इतः पूर्वम् अनादौ काले मुक्त एक एव । यथा+उक्तम्, “बहवो ज्ञानतपसा पूता मद्भावम् आगताः”, “सर्गे ऽपि न+उपजायन्ते प्रलये न व्यथन्ति च” इति ॥१५,१६॥

* उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
* यो लोकत्रयम् आविश्य बिभर्त्यव्यय ईश्वरः ॥१५,१७॥

उत्तमः पुरुषस्तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्याम् अन्यः अर्थान्तरभूतः परमात्मेत्युदाहृतः सर्वासु श्रुतिषु । परमात्मेति निर्देशादेव ह्युत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यां अर्थान्तरभूत इत्यवगम्यते । कथम? यो लोकत्रयम् आविश्य बिभर्ति । लोक्यत इति लोकः; तत्त्रयं लोकत्रयम् । अचेतनं तत्संसृष्टश्चेतनो मुक्तश्च+इति प्रमाणावगम्यमेतत्त्रयं य आत्मतया आविश्य बिभर्ति, स तस्मात्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः । इतश्च+उक्ताल् लोकत्रयादर्थान्तरभूतः; यतः सो ऽव्ययः, ईश्वरश्च; अव्ययस्वभावो हि व्ययस्वभावादचेतनात्तत्संबन्धेन तदनुसारिणश्च चेतनादचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच्चार्थान्तरभूत एव । तथा+एतस्य लोकत्रयस्य+ईश्वरः, ईशितव्यात्तस्मादर्थान्तरभूतः ॥१५,१७॥

* यस्मात्क्षरम् अतीतो ऽहम् अक्षरादपि च+उत्तमः ।
* अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१५,१८॥

यस्मादेवम् उक्तैः स्वभावैः क्षरं पुरुषम् अतीतो ऽहम्, अक्षरात्मुक्तादप्युक्तैर्हेतुभिरुत्कृष्टतमः, अतो ऽहं लोके वेदे च पुरुषोत्तम इति प्रथितो ऽस्मि । वेदार्थावलोकनाल् लोक इति स्मृतिरिह+उच्यते । श्रुतौ स्मृतौ च+इत्यर्थः । श्रुतौ तावत्, “परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः” इत्यादौ । स्मृतवपि, “अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तम् अजस्य विष्णोः” इत्यादौ ॥१५,१८॥

* यो मामेवम् असंमूढो जानाति पुरुषोत्तमम् ।
* स सर्वविद्भजति मां सर्वभावेन भारत ॥१५,१९॥

य एवम् उक्तेन प्रकारेण पुरुषोत्तमं माम् असंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणैश्वर्यादियोगेन च विसजातीयं जानाति, स सर्ववित्मत्प्राप्त्युपायतया यत्वेदितव्यं तत्सर्वं वेद; भजति मां सर्वभावेन ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टाः तैश्च सर्वैर्भजनप्रकारैर्मां भजते । सर्वैर्मद्विषयैर्वेदनैर्मम या प्रीतिः, या च मम सर्वैर्मद्विषयैर्भजनैः, उभयविधा सा प्रीतिरनेन वेदनेन मम जायते ॥ इत्येतत्पुरुषोत्तमत्ववेदनं पूजयति

* इति गुह्यतमं शास्त्रम् इदम् उक्तं मया ऽनघ ।
* एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥१५,२०॥

इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतमम् इदं शास्त्रम्, “त्वम् अनघतया योग्यतमः” इति कृत्वा मया तव+उक्तम् । एतद्बुद्ध्वा बुद्धिमांस्स्यात्कृतकृत्यश्च मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात: यच्च तेन कर्तव्यम्, तत्सर्वं कृतं स्यादित्यर्थः । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यमेवैतत्सर्वं करोति, न तत्साक्षात्काररूपम् इत्युच्यते ॥१५,२०॥

अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयोः संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपातव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ् च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर्देवासुरसर्गयोर्विभागं

* श्रीभगवान् उवाच
* अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
* दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१६,१॥
* अहिंसा सत्यम् अक्रोधस्त्यागः शान्तिरपैशुनम् ।
* दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥१६,२॥
* तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
* भवन्ति संपदं दैवीम् अभि जातस्य भारत ॥१६,३॥

इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिरभयम् । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्याम् अस्पृष्टत्वम् । ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा । दानं न्यायार्जितधनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम् । यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् । स्वाध्यायः सविभूतेर्भगवतस्तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर्भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् । आर्जवं मनोवाक्कायवृत्तीनामेकनिष्ठता परेषु । अहिंसा परपीडावर्जनम् । सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम् । अक्रोधः परपीडाफलचित्तविकाररहितत्वम् । त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम् । शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम् । अपैशुनं परानर्थकरवाक्यनिवेदनाकरणम् । दया भूतेषु सर्वभूतेषु दुःखासहिष्णुत्वम् । अलोलुप्त्वम् अलोलुपत्वम् । अलोलुत्वम् इति वा पाठः; विषयेषु निस्स्पृहत्वम् इत्यर्थः । मार्दवम् अकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः । ह्रीः अकार्यकरणे व्रीडा । अचापलं स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैरनभिभवनीयत्वम् । क्षमा परनिमित्तपीडानुभवे ऽपि परेषु तं प्रति चित्तविकाररहितता । धृतिः महत्याम् अप्यापदि कृत्यकर्तव्यतावधारणम् । शौचं बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोहः परेष्वनुपरोधः; परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वम् इत्यर्थः । नातिमानिता अस्थाने गर्वो ऽतिमानित्वम्; तद्रहितता । एते गुणाः दैवीं संपदम् अभिजातस्य भवन्ति । देवसंबन्धिनी संपत्दैवी; देवा भगवदाज्ञानुवृत्तिशीलाः; तेषां संपत् । सा च भगवदाज्ञानुवृत्तिरेव । ताम् अभिजातस्य ताम् अभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्ति+इत्यर्थः ॥१६,१,२,३॥

* दम्भो दर्पो ऽतिमानश्च क्रोधः पारुष्यमेव च ।
* अज्ञानं चाभिजातस्य पार्थ सम्पदम् असुरीम् ॥१६,४॥

दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम् । दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः । अतिमानश्च स्वविद्याभिजनान् अनुगुणो ऽभिमानः । क्रोधः परपिडाफलचित्तविकारः । पारुष्यं साधूनाम् उद्वेगकरः स्वभावः । अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः । एते स्वभावाः आसुरीं संपदम् अभिजातस्य भवन्ति । असुराः भगवदाज्ञातिवृत्तिशीलाः ॥४॥

* दैवी संपत्विमोक्षाय निबन्धायासुरी मता ।

दैवी मदाज्ञानुवृत्तिरूपा संपत्विमोक्षाय बन्धान् मुक्तये भवति । क्रमेण मत्प्राप्तये भवति+इत्यर्थः । आसुरी मदाज्ञातिवृत्तिरूपा संपत्निबन्धाय भवति अधोगतिप्राप्तये भवति+इत्यर्थः ॥

एतच्छ्रुत्वा स्वप्रकृत्यनिर्धारणादतिभीतायार्जुनायैवं आह

* मा शुचस्संपदं दैवीम् अभिजातो ऽसि पाण्डव ॥१६,५॥

शोकं मा कृथाः; त्वं तु दैवीं संपदम् अभिजातो ऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस्तनयस्त्वम् इत्यभिप्रायः ॥१६,५॥

* द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च ।
* दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥१६,६॥

अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश्चासुरश्च+इति । सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशात्भगवदाज्ञानुवृत्तितद्विपरीतकरणाय+उत्पत्तिकाल एव विभागेन भूतान्युत्पद्यन्त इत्यर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः देवानां मदाज्ञानुवृत्तिशीलानाम् उत्पत्तिर्यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः । असुराणां सर्गश्च यदाचारार्थः, तम् आचारं मे शृणु मम सकाशाच्छृणु ॥१६,६॥

* प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
* न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥१६,७॥

प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्मम् आसुरा न विदुः न जानन्ति । शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्; तत्बाह्यम् आन्तरं चासुरेषु न विद्यते । नापि चाचारः तत्बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सो ऽप्याचारस्तेषु न विद्यते । यथोक्तम्, “संध्याहीनो ऽशुचिर्नित्यम् अनर्हस्सर्वकर्मसु” इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते ॥१६,७॥

किं च

* असत्यम् अप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
* अपरस्परसंभूतं किम् अन्यत्कामहेतुकम् ॥८॥

असत्यं जगदेतत्सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकम् इति नाहुः । अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति । ब्रह्मणा+अनन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथोक्तम्, “तेन+इयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम” इति । अनीश्वरम् । सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मया+एतन्नियमितम् इति च न वदन्ति । “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इति ह्युक्तम् । वदन्ति चैवम् अपरस्परसंभूतम्; किम् अन्यत् । योषित्पुरुषयोः परस्परसंबन्धेन जातम् इदं मनुष्यपश्वादिकम् उपलभ्यते; अनेवंभूतं किम् अन्यदुपलभ्यते ? किंचिदपि न+उपलभ्यत इत्यर्थः । अतः सर्वम् इदं जगत्कामहेतुकम् इति ॥८॥

* एतां दृष्टिम् अवष्टभ्य नष्टात्मानो ऽल्पबुद्धयः ।
* प्रभवन्त्युग्रकर्माणः क्षयाय जगतो ऽशुभाः ॥९॥

एतां दृष्टिम् अवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवत्ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्म+उपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसकाः जगतः क्षयाय प्रभवन्ति ॥९॥

* कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
* मोहात्गृहीत्वा ऽसद्ग्राहान् प्रवर्तन्ते ऽशुचिव्रताः ॥१०॥

दुष्पूरं दुष्प्रापविषयं कामम् आश्रित्य तत्सिसाधयिषया मोहातज्ञानात्, असद्ग्राहान् अन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते ॥१०॥

* चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः ।
* कामोपभोगपरमा एतावदिति निश्चिताः ॥११॥

अद्य श्वो वा मुमूर्षवः चिन्ताम् अपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयाम् उपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावदिति निश्चिताः इतो ऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः ॥११॥

* आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
* ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् ॥१२॥

आशापाशशतैः आशाख्यपाशशतैर्बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थम् अन्यायेनार्थसंचयान् प्रति ईहन्ते ॥१२॥

* इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् ।
* इदम् अस्ति+इदम् अपि मे भविष्यति पुनर्धनम् ॥१३॥

इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना; इमं च मनोरथं अहमेव प्राप्स्ये, नादृष्टादिसहितः । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदम् अपि पुनर्मे मत्सामर्थ्येनैव भविष्यति ॥१३॥

* असौ मया हतः शत्रुर्हनिष्ये चापरान् अपि ।

असौ मया बलवता हतः शत्रुः । अपरान् अपि शत्रून् अहं शूरो धीरश्च हनिष्ये । किम् अत्र मन्दधीभिर्दुर्बलैः परिकल्पितेनादृष्टपरिकरेण ॥

तथा च

* ईश्वरो ऽहं अहं भोगी सिद्धो ऽहं बलवान् सुखी ॥१४॥

ईश्वरो ऽहं स्वाधीनो ऽहम्; अन्येषां चाहमेव नियन्ता । अहं भोगी स्वत एवाहं भोगी; नादृष्टादिभिः । सिद्धो ऽहं स्वतस्सिद्धो ऽहम्; न कस्माच्चिददृष्टादेः । तथा स्वत एव बलवान्; स्वत एव सुखी ॥१४॥

* आढ्यो ऽभिजनवान् अस्मि को ऽन्यो ऽस्ति सदृशो मया ।
* यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१५॥

अहं स्वतश्चाढ्यो ऽस्मि; अभिजनवान् अस्मि स्वत एव+उत्तमकुले प्रसूतो ऽस्मि; अस्मिन् लोके मया सदृशः को ऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयमेव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यम् इत्यज्ञानविमोहिता मन्यन्ते ॥१५॥

* अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
* प्रसक्ताः कामभोगेषु पतन्ति नरके ऽशुचौ ॥१६॥

अदृष्टेश्वरादिसहकारम् ऋते स्वेनैव सर्वं कर्तुं शक्यम् इति कृत्वा, एवं कुर्याम्, तच्च कुर्याम्, अन्यच्च कुर्याम् इत्यनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥१६॥

* आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः ।
* यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥१७॥

आत्मना+एव संभाविताः । आत्मना+एवात्मानं संभावयन्ति+इत्यर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः । कथम् ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर्यज्ञैः यजन्ते । तदपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकम् अयथाचोदनं यजन्ते ॥१७॥

ते च+ईदृग्भूता यजन्त इत्याह

* अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
* माम् आत्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ॥१८॥

अनन्यापेक्षो ऽहमेव सर्वं करोमि+इत्येवंरूपं अहंकारम् आश्रिताः, तथा सर्वस्य करणे मद्बलमेव पर्याप्तम् इति च बलम्, अतो मत्सदृशो न कश्चिदस्ति+इति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस्तान् सर्वान् हनिष्यामि+इति च क्रोधम्, एवमेतान् संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं माम् अभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर्मत्स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः । अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः ॥१८॥

* तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
* क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ॥१९॥

य एवं मां द्विषन्ति, तान् क्रूरान्नराधमान् अशुभान् अहम् अजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्यासुरीष्वेव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्वेव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्वहमेव संयोजयामि+इत्यर्थः ॥१९॥

* आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
* माम् अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥२०॥

मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनरपि जन्मनि जन्मनि मूढाः मद्विपरीतज्ञाना माम् अप्राप्यैव “अस्ति भगवान् सर्वेश्वरो वासुदेवः” इति ज्ञानम् अप्राप्य ततः ततो जन्मनो ऽधमामेव गतिं यान्ति ।२०॥

अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुं आह

* त्रिविधं नरकस्यैतद्द्वारं नाशनम् आत्मनः ।
* कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥२१॥

अस्यासुरस्वभावरूपस्य नरकस्यैतत्त्रिविधं द्वारम्, तच्चात्मनो नाशनम्; कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वमेव व्याख्यातम् । द्वारं मार्गः; हेतुरित्यर्थः । तस्मादेतत्त्रयं त्यजेत्; तस्माततिघोरनरकहेतुत्वात्कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् ॥२१॥

* एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
* आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥१६,२२॥

एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो मामेव परां गतिं याति ॥१६,२२॥

शास्त्रानादरो ऽस्य नरकस्य प्रधानहेतुरित्याह

* यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः ।
* न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥१६,२३॥

शास्त्रं वेदाः; विधिः अनुशासनम् । वेदाख्यं मदनुशासनम् उत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिम् अवाप्नोति न काम् अप्यामुष्मिकीं सिद्धिम् अवाप्नोति; न सुखं किंचिदवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोति+इत्यर्थः ॥१६,२३॥

* तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
* ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुं इहार्हसि ॥१६,२४॥

तस्मात्कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रमेव तव प्रमाणम् । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यदेव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तत्शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावदन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वम् अर्हसि तदेव+उपादातुम् अर्हसि ॥१६,२४॥

देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलम् इत्युक्तम् । इदानीम् अशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं च+उच्यते । तत्राशास्त्रविहितस्य निष्फलत्वम् अजानन् अशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति

* अर्जुन उवाच
* ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया+अन्विताः ।
* तेषां निष्ठा तु का कृष्ण सत्त्वं आहो रजस्तमः ॥१७,१॥

शास्त्रविधिम् उत्सृज्य श्रद्धया+अन्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्वित्रजः ? अथ तमः ? निष्ठा स्थितिः; स्थीयते ऽस्मिन्निति स्थितिः सत्त्वादिरेव निष्ठेत्युच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसि+इत्यर्थः ॥१७,१॥

एवं पृष्टो भगवान् अशास्त्रविहितश्रद्धायास्तत्पूर्वकस्य च यागादेर्निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर्गुणतस्त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावदाह

* श्रीभगवान् उवाच
* त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
* सात्त्विकी राजसी चैव तामसी च+इति तां शृणु ॥१७,२॥

सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्माः गुणसंसर्गजाः; तेषाम् आत्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश्च+इयं श्रद्धा सात्त्विकी राजसी तामसी च+इति त्रिविधा । ताम् इमां श्रद्धां शृणु; सा श्रद्धा यत्स्वभावा, तं स्वभावं शृण्वित्यर्थः ॥१७,२॥

* सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
* श्रद्धामयो ऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥१७,३॥

सत्त्वम् अन्तःकरणम् । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयो ऽयं पुरुषः । श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश्चेत्, पुण्यकर्मफलसंयुक्तो भवति+इति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥१७,३॥

तदेव विवृणोति

* यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
* प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥१७,४॥

सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते । दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकी+इत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूतगणान् यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा; दुःखप्राया+अत्यल्पसुखजननी तामसी+इत्यर्थः ॥१७,४॥

एवं शास्त्रीयेष्वेव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः । अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिदपि सुखलवः, अपि त्वनर्थ एव+इति हृदि निहितं व्यञ्जयन् आह

* अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
* दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥१७,५॥
* कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः ।
* मां चैवान्तश्शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥१७,६॥

अशास्त्रविहितम् अतिघोरम् अपि तपो ये जनाः तप्यन्ते । प्रदर्शनार्थम् इदम् । अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते; तान् आसुरनिश्चयान् विद्धि । असुराणां निश्चय आसुरो निश्चयः; असुरा हि मदाज्ञाविपरीतकारिणः; मदाज्ञाविपरीतकारित्वात्तेषां सुखलवसंबन्धो न विद्यते; अपि त्वननर्थव्राते पतन्ति+इति पूर्वमेव+उक्तम्, “पतन्ति नरके ऽश्चौ” इति ॥१७,५,६॥

अथ प्रकृतमेव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात्सत्त्वादिवृद्धेराहारत्रैविध्यं प्रथमम् उच्यते । “अन्नमयं हि सोम्य मनः”, “आहारशुद्धौ सत्त्वशुद्धिः” इति हि श्रूयते

* आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
* यज्ञस्तपस्तथा दानं तेषां भेदम् इमं शृणु ॥१७,७॥

आहारो ऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथा+एव यज्ञो ऽपि त्रिविधः, तथा तपः दानं च । तेषां भेदम् इमं शृणु तेषां आहारयज्ञतपोदानानां सत्त्वादिभेदेन+इमम् उच्यमानं भेदं शृणु ॥१७,७॥

* आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
* रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ॥१७,८॥

सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश्चाहारा आयुर्विवर्धनाः; पुनरपि सत्त्वस्य विवर्धनाः । सत्त्वम् अन्तःकरणम्; अन्तःकरणकार्यं ज्ञानं इह सत्त्वशब्देन+उच्यते । “सत्त्वात्संजायते ज्ञानम” इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारो ऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः । तथा बलारोग्ययोरपि विवर्धनाः । सुखप्रीत्योरपि विवर्धनाः परिणामकाले स्वयमेव सुखस्य विवर्धनाः ;तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्याः मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः । हृद्याः रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥१७,८॥

* कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
* आहारा राजसस्य+इष्टा दुःखशोकामयप्रदाः ॥१७,९॥

कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश्च+इति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास्तीक्ष्णाः; शोषकरा रूक्षाः; तापकरा विदाहिनः । एवंविधा आहारा राजसस्य+इष्टाः । ते च रजोमयत्वात्दुःखशोकामयवर्धनाः रजोवर्धनाश्च ॥१७,९॥

* यातयामं गतरसं पूति पर्युषितं च यत् ।
* उच्छिष्टम् अपि चामेध्यं भोजनं तामसप्रियम् ॥१७,१०॥

यातयामं चिरकालावस्थितम्; गतरसं त्यक्तस्वाभाविकरसम्; पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम्; उच्छिष्टं गुर्वादिभ्यो ऽन्येषां भुक्तशिष्टम्; अमेध्यम् अयज्ञार्हम्; अयज्ञशिष्टम् इत्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश्च तमसो वर्धनम् । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥१७,१०॥

* अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
* यष्टव्यमेव+इति मनस्समाधाय स सात्त्विकः ॥१७,११॥

फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर्युक्तः, यष्टव्यमेव+इति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यम् इति मनस्समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥१७,११॥

* अभिसन्धाय तु फलं दम्भार्थम् अपि चैव यः ।
* इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥१७,१२॥

फलाभिसन्धियुक्तैर्दम्भगर्भो यशःफलश्च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥१७,१२॥

* विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् ।
* श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७,१३॥

विधिहीनं ब्राह्मणोक्तिहीनम्; सदाचारयुक्तैर्विद्वद्भिर्ब्राह्मणैर्यजस्व+इत्युक्तिहीनम् इत्यर्थः; असृष्टान्नं अचोदितद्रव्यम्, मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥१७,१३॥

अथ तपसो गुणतस्त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावदाह

* देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ।
* ब्रह्मचर्यं अहिंसा च शारीरं तप उच्यते ॥१७,१४॥

देवद्विजगुरुप्राज्ञानां पूजनम्, शौचं तीर्थस्नानादिकम्, आर्जवं यथामनःशरीरवृत्तम्, ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा; एतच्छरीरं तप उच्यते ॥१७,१४॥

* अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
* स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१७,१५॥

परेषाम् अनुद्वेगकरं सत्यं प्रियहितं च यत्वाक्यं स्वाध्यायाभ्यसनं च+इत्येतत्वाङ्मयं तप उच्यते ॥१७,१५॥

* मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः ।
* भावसंशुद्धिरित्येतत्तपो मानसम् उच्यते ॥१७,१६॥

मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वं मनसः परेषाम् अभ्युदयप्रावण्यम्, मौनं मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर्ध्येयविषये ऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्; एतत्मानसं तपः ॥१७,१६॥

* श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
* अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७,१७॥

अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपम् इदम् इति चिन्तायुक्तैः नरैः परया श्रद्धया यत्त्रिविधं तपः कायवाङ्मनोभिस्तप्तम्, तत्सात्त्विकं परिचक्षते ॥१७,१७॥

* सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
* क्रियते तदिह प्रोक्तं राजसं चलम् अध्रुवम् ॥१७,१८॥

मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत्तपः क्रियते, तदिह राजसं प्रोक्तम्; स्वर्गादिफलसाधनत्वेनास्थिरत्वात्चलम् अध्रुवम् । चलत्वं पातभयेन चलनहेतुत्वम्, अध्रुवत्वं क्षयिष्णुत्वम् ॥

* मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
* परस्य+उत्सादनार्थं वा तत्तामसम् उदाहृतम् ॥१७,१९॥

मूढाः अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकम् अपरीक्ष्य आत्मपीडया यत्तपः क्रियते, परस्य+उत्सादनार्थं च यत्क्रियते, तत्तामसम् उदाहृतम् ॥१७,१९॥

* दातव्यम् इति यत्दानं दीयते ऽनुपकारिणे ।
* देशे काले च पात्रे च तत्दानं सात्त्विकं स्मृतम् ॥१७,२०॥

फलाभिसन्धिरहितं दातव्यम् इति देशे काले पात्रे चानुपकारिणे यत्दानं दीयते, तत्दानं सात्त्विकं स्मृतम् ॥१७,२०॥

* यत्तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
* दीयते च परिक्लिष्टं तत्राजसम् उदाहृतम् ॥१७,२१॥

प्रत्युपकारकटाक्षगर्भं फलम् उद्दिश्य च, परिक्लिष्टम् अकल्याणद्रव्यकं यत्दानं दीयते, तत्राजसम् उदाहृतम् ॥१७,२१॥

* अदेशकाले यत्दानम् अपात्रेभ्यश्च दीयते ।
* असत्कृतम् अवज्ञातं तत्तामसम् उदाहृतम् ॥१७,२२॥

अदेशकाले अपात्रेभ्यश्च यत्दानं दीयते, असत्कृतं पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञम् अनुपचारयुक्तं यत्दीयते, तत्तामसम् उदाहृतम् ॥१७,२२॥

एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः; इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणम् उच्यते

* ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
* ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥१७,२३॥

ओं तत्सतिति त्रिविधो ऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणो ऽन्वयी भवति । ब्रह्म च वेदः । वेदशब्देन वैदिकं कर्म+उच्यते । वैदिकं यज्ञादिकम् । यज्ञादिकं कर्म ओं तत्सदिति शब्दान्वितं भवति । ओम् इति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया; तत्सदिति शब्दयोरन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस्त्रैवर्णिकाः वेदाश्च यज्ञाश्च पुरा विहिताः पुरा मया+एव निर्मिता इत्यर्थः ॥

त्रयाणाम् ओं तत्सदिति शब्दानाम् अन्वयप्रकारो वर्ण्यते; प्रथमम् ओम् इति शब्दस्यान्वयप्रकारं आह

* तस्मादोम् इत्युदाहृत्य यज्ञदानतपःक्रियाः ।
* प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥१७,२४॥

तस्मात्ब्रह्मवादिनां वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओम् इत्युदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश्च ओम् इत्युदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणाम् ओम् इति शब्दान्वयो वर्णितः । ओम् इतिशब्दान्वितवेदधारणात्तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानाम् अपि ओम् इति शब्दान्वयो वर्णितः ॥१७,२४॥

अथैतेषां तदिति शब्दान्वयप्रकारं आह

* तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
* दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥१७,२५॥

फलम् अनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस्त्रैवर्णिकैर्याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः; “स वः कः किं यत्तत्पदम् अनुत्तमम” इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तदिति शब्दान्वय उक्तः । त्रैवर्णिकानाम् अपि तथाविधवेदाध्ययनाद्यनुष्ठानादेव तच्छब्दान्वय उपपन्नः ॥१७,२५॥

अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारं आह

* सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
* प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥१७,२६॥

सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सदित्येतत्पदं प्रयुज्यते लोकवेदयोः । तथा केनचित्पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्म+इदम् इति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥१७,२६॥

* यज्ञे तपसि दाने च स्थितिः सदिति च+उच्यते ।
* कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥१७,२७॥

अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सदित्युच्यते । कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सदित्येवाभिधीयते । तस्मात्वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास्त्रैवर्णिकाश्च ओं तत्सदिति शब्दान्वयरूपलक्षणेन अवेदेभ्यश्चावैदिकेभ्यश्च व्यावृत्ता वेदितव्याः ॥१७,२७॥

* अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
* असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥१७,२८॥

अश्रद्धया कृतं शास्त्रीयम् अपि होमादिकम् असदित्युच्यते । कुतः ? न च तत्प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलाय+इति ॥१७,२८॥

अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव यज्ञतपोदानादिकं कर्म, नान्यत्; वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वयः; तत्र मोक्षाभ्युदयसाधनयोर्भेदः तत्सच्छब्दनिर्देश्यत्वेन; मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्; तदारम्भश्च सत्त्वोद्रेकाद्भवति; सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति

* अर्जुन उवाच
* संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् ।
* त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥१८,१॥

त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, “न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगात्यतयश्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥” इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथक् वेदितुम् इच्छामि । अयम् अभिप्रायः किमेतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थवेव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुम् इच्छामि; एकत्वे ऽपि तस्य स्वरूपं वक्तव्यम् इति ॥१८,१॥

अथानयोरेकमेव स्वरूपम्, तच्च+ईदृशम् इति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन् श्रीभगवान् उवाच

* श्रीभगवान् उवाच
* काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
* सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८,२॥

केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः । केचिच्च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः । तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः; सर्वकर्मफलविषय इति विवादं प्रदर्शयन् एकत्र संन्यासशब्दम् इतरत्र त्यागशब्दं प्रयुक्तवान् । अतस्त्यागसंन्यासशब्दयोरेकार्थत्वम् अङ्गीकृतम् इति ज्ञायते । तथा “निश्चयं शृणु मे तत्र त्यागे भरतसत्तम” इति त्यागशब्देनैव निर्णयवचनात्, “नियतस्य तु संन्यासः कर्मणो न+उपपद्यते । मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥”, “अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।” इति परस्परपर्यायतादर्शनाच्च तयोरेकार्थत्वम् अङ्गीकृतम् इति निश्चीयते ॥१८,२॥

* त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
* यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥१८,३॥

एके मनीषिणः कापिलाः वैदिकाश्च तन्मतानुसारिणः रागादिदोषवत्बन्धकत्वात्सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यम् इति प्राहुः; अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यम् इति प्राहुः ॥१८,३॥

* निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
* त्यागो हि पुरुषव्याघ्र त्रिविधस्संप्रकीर्तितः ॥१८,४॥

तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश्शृणु; त्यागः क्रियमाणेष्वेव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वमेव हि मया त्रिविधस्संप्रकीर्तितः, “मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः” इति । कर्मजन्यं स्वर्गादिकं फलं मम न स्यादिति फलत्यागः; मदीयफलसाधनतया मदीयम् इदं कर्म+इति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः; सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस्त्यागः ॥१८,४॥

* यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिदपि त्याज्यम्, अपि तु आ प्रयाणादहरहः कार्यमेव ॥१८,४॥

कुतः ?

* यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८,५॥

यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननम् उपासनम्; मुमुक्षूणां यावज्जीवम् उपासनं कुर्वताम् उपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानि+इत्यर्थः ॥१८,५॥

* एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
* कर्तव्यानि+इति मे पार्थ निश्चितं मतम् उत्तमम् ॥१८,६॥

यस्मान् मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्मादुपासनवदेतान्यपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गं कर्मणि ममतां फलानि च त्यक्त्वा अहरहराप्रयाणादुपासननिवृत्तये मुमुक्षुणा कर्तव्यानि+इति मम निश्चितम् उत्तमं मतम् ॥१८,६॥

* नियतस्य तु संन्यासः कर्मणो न+उपपद्यते ।
* मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८,७॥

नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो न+उपपद्यते, “शरीरयात्रा+अपि च तेन प्रसिद्ध्येदकर्मणः” इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति; अन्यथा, “ते त्वघं भुञ्जते पापाः” इत्ययज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । “अन्नमयं हि सोम्य मनः” इत्यन्नेन हि मन आप्यायते । “आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥” इति ब्रह्मसाक्षात्काररूपं ज्ञानं आहारशुद्ध्यायत्तं श्रूयते । तस्मात्महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणात्ब्रह्मज्ञानायैव+उपादेयम् इति तस्य त्यागो न+उपपद्यते । एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात्परित्यागस्तामसः परिकीर्तितः । तमोमूलस्त्यागस्तामसः । तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् । तमो ह्यज्ञानस्य मूलं, “प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च” इत्यत्र+उक्तम् । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्; तथा च वक्ष्यते, “अधर्मं धर्मम् इति या मन्यते तमसा $ऽवृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी” इति । अतो नित्यनैमित्तिकादेः कर्मणस्त्यागो विपरीतज्ञानमूल एव+इत्यर्थः ॥१८,७॥

* दुःखम् इत्येव यः कर्म कायक्लेशभयात्त्यजेत् ।
* स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८,८॥

यद्यपि परंपरया मोक्षसाधनभूतं कर्म, तथा+अपि दुःखात्मकद्रव्यार्जनसाध्यत्वात्बह्वायासरूपतया कायक्लेशकरत्वाच्च मनसो ऽवसादकरम् इति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा ततयथावस्थितशास्त्रार्थरूपम् इति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते; “अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी” इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण ॥१८,८॥

* कार्यम् इत्येव यत्कर्म नियतं क्रियते ऽर्जुन ।
* सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ॥१८,९॥

नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनम् इति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत्क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः । सत्त्वं हि यथावस्थितवस्तुज्ञानम् उत्पादयति+इत्युक्तम्, “सत्त्वात्संजायते ज्ञानम” इति । वक्ष्यते च, “प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ “ इति ॥

* न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
* त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥१८,१०॥

एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्यकुशलं कर्म; शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् । सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच्च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकम् अभिप्रेतम्; “नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वा+अपि प्रज्ञानेनैनम् आप्नुयात् ॥” इति दुश्चरिताविरतेर्ज्ञानोत्पत्तिविरोधित्वश्रवणात् । अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः ॥१८,१०॥

तदाह

* न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
* यस्तु कर्मफलत्यागी स त्यागी+इत्यभिधीयते ॥१८,११॥

न हि देहभृता ध्रियमाणशरीरेण कर्माण्यशेषतस्त्यक्तुं शक्यम्; देहधारणार्थानाम् अशनपानादीनां तदनुबन्धिनां च कर्मणाम् अवर्जनीयत्वात् । तदर्थं च महायज्ञाद्यनुष्ठानम् अवर्जनीयम् । यस्तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, “त्यागेनैके अमृतत्वम् आनशुः” इत्यादिशास्त्रेषु त्यागी+इत्यभिधीयते । फलत्यागी+इति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागी+इति; “त्रिविधः संप्रकीर्तितः” इति प्रक्रमात् ॥१८,११॥

ननु कर्माण्यग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर्विधीयन्ते; नित्यनैमित्तिकानाम् अपि “प्राजापत्यं गृहस्थानाम” इत्यादिफलसंबन्धितया+एव हि चोदना । अतः तत्तत्फलसाधनस्वभावतया ऽवगतानां कर्मणाम् अनुष्ठाने, बीजावापादीनाम् इव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयम् इत्यत उत्तरं आह

* अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
* भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८,१२॥

अनिष्टं नरकादिफलम्, इष्टं स्वर्गादि, मिश्रम् अनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि; एतत्त्रिविधं कर्मणः फलम्, अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालम् इत्यर्थः । न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिदपि मोक्षविरोधि फलं भवति । एतदुक्तं भवति यद्यप्यग्निहोत्रमहायज्ञादीनि तान्येव, तथा ऽपि जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश्च, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा ऽनाशकेन” इत्यादिभिरिति । तदेवं क्रियमाणेष्वेव कर्मसु
कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः; स एव च त्याग इत्युक्तः ॥१८,१२॥

इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारं आह, तत एव फलकर्मणोरपि ममतापरित्यागो भवति+इति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्यारभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकम् अपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव ।

* पञ्चैतानि महाबाहो कारणानि निबोधे मे ।
* सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८,१३॥

सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे मम सकाशादनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानमेव कर्तारम् अवधारयति, “य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मा ऽन्तर्याम्यमृतः”, “अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा” इत्यादिषु ॥१८,१३॥

तदिदं आह

* अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
* विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८,१४॥
* शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
* न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८,१५॥

न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः । अधिष्ठानं शरीरम्; अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरम् अधिष्ठानम् । तथा कर्ता जीवात्मा; अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, “ज्ञो ऽत एव”, “कर्ता शास्त्रार्थवत्त्वात” इति च सूत्रोपपादितम् । करणं च पृथग्विधं वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुरभिधीयते तद्वृत्तिवाचिना; शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं चैवात्र पञ्चमम् अत्र कर्महेतुकलापे दैवं पञ्चमं परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तं हि, “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानम् अपोहनं च” इति । वक्ष्यति च, “ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥” इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, “परात्तु तच्छ्रुतेः” इत्याद्युपपादितम् । नन्वेवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवति+इति विधिनिषेधशास्त्राण्यनर्थकानि स्युः ॥ इदम् अपि चोद्यं सूत्रकारेण परिहृतम्, “कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः” इति । एतदुक्तं भवति परमात्मना दत्तैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते; तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयति+इति जीवस्यापि स्वबुद्ध्या+एव प्रवृत्तिहेतुत्वम् अस्ति; यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं च+इति ॥१८,१४,१५॥

* तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
* पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८,१६॥

एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलम् आत्मानमेव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वातनिष्पन्नयथावस्थितवस्तुबुद्धित्वात्न पश्यति न यथावस्थितं कर्तारं पश्यति ॥१८,१६॥

* यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
* हत्वा ऽपि स इमांल् लोकान्न हन्ति न निबध्यते ॥१८,१७॥

परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः । अहं करोमि+इति ज्ञानं यस्य न विद्यत इत्यर्थः । बुद्धिर्यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावादेतत्फलं न मया संबध्यते, न च मदीयं कर्म+इति यस्य बुद्धिर्जायत इत्यर्थः । स इमान् लोकान् युद्धे हत्वा+अपि तान्न निहन्ति; न केवलं भीष्मादीन् इत्यर्थः । ततस्तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवति+इत्यर्थः ॥१८,१७॥

सर्वम् इदम् अकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्या+एव भवति+इति सत्त्वस्य+उपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावदाह

* ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
* कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८,१८॥

ज्ञानं कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना । बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिरित्यर्थः । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणं साधनभूतं द्रव्यादिकम्; कर्म यागादिकम्; कर्ता अनुष्ठातेति ॥१८,१८॥

* ज्ञानं कर्म च कर्ता च त्रिधा+एव गुणभेदतः ।
* प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८,१९॥

कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस्त्रिविधा+एव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच्छृणु तान्यपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच्छृणु ॥१८,१९॥

* सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते ।
* अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥१८,२०॥

ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकम् आत्माख्यं भावं, तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्वपि ब्राह्मणादिशरीरेषु अव्ययम् अविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायाम् ईक्षते, तत्ज्ञानं सात्त्विकं विद्धि ॥१८,२०॥

* पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् ।
* वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥१८,२१॥

सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यान् अपि भावान्नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यत्ज्ञानं वेत्ति, तत्ज्ञानं राजसं विद्धि ॥१८,२१॥

* यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तं अहेतुकम् ।
* अतत्त्वार्थवदल्पं च तत्तामसम् उदाहृतम् ॥१८,२२॥

यत्तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत्सक्तम्, अहेतुकं वस्तुतस्त्वकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितम् अतत्त्वार्थवत्पूर्ववदेवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वादल्पं च, तत्ज्ञानं तामसम् उदाहृतम् ॥१८,२२॥

एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायाम् अधिकार्यंशेन गुणतस्त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतस्त्रैविध्यं आह

* नियतं सङ्गरहितम् अरागद्वेषतः कृतम् ।
* अफलप्रेप्सुना कर्म यत्तत्सात्त्विकम् उच्यते ॥१८,२३॥

नियतं स्ववर्णाश्रमोचितम्, सङ्गरहितं कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतं कीर्तिरागातकीर्तिद्वेषाच्च न कृतम्; अदम्भेन कृतम् इत्यर्थः; अफलप्रेप्सुना अफलाभिसन्धिना कार्यम् इत्येव कृतं यत्कर्म, तत्सात्त्विकम् उच्यते ॥१८,२३॥

* यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
* क्रियते बहुलायासं तत्राजसम् उदाहृतम् ॥१८,२४॥

यत्तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश्चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत्कर्म क्रियते, तत्राजसं बहुलायासम् इदं कर्म मया+एव क्रियत इत्येवंरूपाभिमानयुक्तेन यत्कर्म क्रियते, तत्राजसम् इत्यर्थः ॥१८,२४॥

* अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् ।
* मोहादारभ्यते कर्म यत्तत्तामसम् उच्यते ॥१८,२५॥

कृते कर्मण्यनुबध्यमानं दुःखम् अनुबन्धः; क्षयः कर्मणि क्रियमाणे अर्थविनाशः; हिंसा तत्र प्राणिपीडा; पौरुषम् आत्मनः कर्मसमापनसामर्थ्यम्; एतानि अनवेक्ष्य अविमृश्य, मोहात्परमपुरुषकर्तृत्वाज्ञानात्यत्कर्मारभ्यते, तत्तामसम् उच्यते ॥१८,२५॥

* मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः ।
* सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८,२६॥

मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः; उत्साहः उद्युक्तचेतस्त्वम्; ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर्निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योरविकृतचित्तः कर्ता सात्त्विक उच्यते ॥१८,२६॥

* रगी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मको ऽशुचिः ।
* हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८,२७॥

रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी; लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर्हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८,२७॥

* अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः ।
* विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८,२८॥

अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्वपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः ॥१८,२८॥

एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस्त्रैविध्यम् उक्तम्; इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर्धृतेश्च गुणतस्त्रैविध्यं आह

* बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
* प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥१८,२९॥

बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्; धृतिः आरब्धायाः क्रियाया विघ्नोपनिपाते ऽपि धारणम्, तयोस्सत्त्वादिगुणतस्त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच्छृणु ॥१८,२९॥

* प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
* बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८,३०॥

प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तवुभौ यथावस्थितौ या बुद्धिर्वेत्ति; कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेषेषु “इदं कार्यम्, इदम् अकार्यम” इति या वेत्ति; भयाभये शास्त्रातिवृत्तिर्भयस्थानं तदनुवृत्तिरभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति; सा सात्त्विकी बुद्धिः ॥१८,३०॥

* यथा धर्मम् अधर्मं च कार्यं चाकार्यमेव च ।
* अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८,३१॥

यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन्न जानाति, सा राजसी बुद्धिः ॥१८,३१॥

* अधर्मं धर्मम् इति या मन्यते तमसा $ऽवृता ।
* सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८,३२॥

तामसी तु बुद्धिः तमसा $ऽवृता सती सर्वार्थान् विपरीतान् मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थम् असन्तम्, असन्तं चार्थं सन्तं, परं च तत्त्वम् अपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्यर्थः ॥१८,३२॥

* धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
* योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८,३३॥

यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते; योगः मोक्षसाधनभूतं भगवदुपासनम्; योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास्तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकी+इत्यर्थः ॥१८,३३॥

* यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन ।
* प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८,३४॥

फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षी+इत्यत्रापि फलशब्देन राजसत्वात्धर्मकामार्था एव विवक्षिताः । अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसी+इत्युक्तं भवति ॥१८,३४॥

* यया स्वप्नं भयं शोकं विषादं मदमेव च ।
* न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८,३५॥

यया धृत्या ।स्वप्नं निद्राम् । मदं विषयानुभवजनितं मदम् । स्वप्नमदवुद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश्च भयशोकादिदायिविषयपराः; तत्साधनभूताश्च मनःप्राणादिक्रिया यया धारयते, सा धृतिस्तामसी ॥१८,३५॥

* सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूताः, तच्च सुखं गुणतस्त्रिविधम् इदानीं शृणु ॥

* अभ्यासात्रमते यत्र दुःखान्तं च निगच्छति ॥१८,३६॥
* यत्तदग्रे विषम् इव परिणामे ऽमृतोपमम् ।
* तत्सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥१८,३७॥

यस्मिन् सुखे चिरकालाभ्यासात्क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥ तदेव विशिनष्टि यत्तत्सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वात्विविक्तस्वरूपस्याननुभूतत्वाच्च विषम् इव दुःखम् इव भवति, परिणामे ऽमृतोपमम् । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच्च आत्मबुद्धिप्रसादजम् आत्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखम् अमृतोपमं भवति; तत्सुखं सात्त्विकं प्रोक्तम् ॥१८,३७॥

* विषयेन्द्रियसंयोगात्यत्तदग्रे ऽमृतोपमम् ।
* परिणामे विषम् इव तत्सुखं राजसं स्मृतम् ॥१८,३८॥

अग्रे अनुभववेलायां विषयेन्द्रियसंयोगात्यत्तदमृतम् इव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वात्विषम् इव पीतं भवति, तत्सुखं राजसं स्मृतम् ॥१८,३८॥

* यदग्रे चानुबन्धे च सुखं मोहनम् आत्मनः ।
* निद्रालस्यप्रमादोत्थं तत्तामसम् उदाहृतम् ॥१८,३९॥

यत्सुखम् अग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर्भवति; मोहो ऽत्र यथावस्थितवस्त्वप्रकाशो ऽभिप्रेतः; निद्रालस्यप्रमादोत्थं निद्रालस्यप्रमादजनितम्, निद्रादयो ह्यनुभववेलायाम् अपि मोहहेतवः । निद्राया मोहहेतुत्वं स्पृष्टम् । आलस्यम् इन्द्रियव्यापारम् आन्द्यम् । इन्द्रियव्यापारम् आन्द्ये च ज्ञानम् आन्द्यं भवत्येव । प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानम् आन्द्यं भवति । ततश्च तयोरपि मोहहेतुत्वम् । तत्सुखं तामसम् उदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वमेव+उपादेयम् इत्युक्तं भवति ॥१८,३९॥

* न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
* सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८,४०॥

पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं यत्सत्त्वं प्राणिजातम्, न तदस्ति ॥१८,४०॥

“त्यागेनैके अमृतत्वम् आनशुः” इत्यादिषु मोक्षसाधनतया निर्दिष्टस्त्यागः संन्यासशब्दार्थादनन्यः; स च क्रियमाणेष्वेव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस्त्यागः; कर्तृत्वत्यागश्च परमपुरुषे कर्तृत्वानुसंधानेन+इत्युक्तम् । एतत्सर्वं सत्त्वगुणवृद्धिकार्यम् इति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः । इदानीमेवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस्तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपं आह

* ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
* कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८,४१॥

ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्म+इत्यर्थः; तत्प्रभवाः सत्त्वादयो गुणाः । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेन+उद्भूतः सत्त्वगुणः; क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेन+उद्भूतो रजोगुणः; वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस्तमोगुणः; शूद्रस्य स्वभावप्रभवस्तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस्तमोगुणः । एभिः स्वभावप्रभवैर्गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश्चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥१८,४१॥

* शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च ।
* ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥१८,४२॥

शमः बाह्येन्द्रियनियमनम्; दमः अन्तःकरणनियमनम्; तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः; शौचं शास्त्रीयकर्मयोग्यता; क्षान्तिः परैः पीड्यमानस्याप्यविकृतचित्तता; आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्; ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्; विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्; आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः; केनापि हेतुना चालयितुम् अशक्य इत्यर्थः । भगवान् पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः; स एव निखिलजगदेककारणं निखिलजगदाधारभूतः; निखिलस्य स एव प्रवर्तयिता; तदाराधनभूतं च वैदिकं कृत्स्नं कर्म; तैस्तैराराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छति+इत्यस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्; “वेदैश्च सर्वैरहमेव वेद्यः”, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते “, “मयि सर्वम् इदं प्रोतम”, “भोक्तारं यज्ञतपसां ॥॥। ज्ञात्वा मां शान्तिम् ऋच्छति”, “मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय”, “यतः प्रवृत्तिर्भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः”, “यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम” इति ह्युच्यते । तदेतत्ब्राह्मणस्य स्वभावजं कर्म ॥१८,४२॥

* शैर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
* दानम् ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८,४३॥

शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैरनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपाते ऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्यपलायनं युद्धे चात्ममरणनिश्चये ऽप्यनिर्वर्तनम्; दानं आत्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस्त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्; एतत्क्षत्रियस्य स्वभावजं कर्म ॥१८,४३॥

* कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् ।

कृषिः सत्योत्पादनं कर्षणम् । गोरक्ष्यं पशुपालनम् इत्यर्थः । वाणिज्यं धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतत्वैश्यस्य स्वभावजं कर्म ॥

* परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८,४४॥

पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तदेतत्चतुर्णा वर्णानां वृत्तिभिस्सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थम् उक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः । शमादयो ऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्म+इत्युक्तम् । क्षत्रियवैश्ययोस्तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत्कर्म+इत्युक्तम् । ब्राह्मणस्य वृत्तिर्याजनाध्यापनप्रतिग्रहाः; क्षत्रियस्य जनपदपरिपालनम्; वैश्यस्य च कृष्यादयो यथोक्ताः; शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्या+एव ॥

* स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः ।
* स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ॥१८,४५॥

स्वे स्वे यथोदिते कर्मण्यभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु ॥१८,४५॥

* यतः प्रवृत्तिर्भूतानां येन सर्वम् इदं ततम् ।
* स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८,४६॥

यतो भूतानाम् उत्पत्त्यादिका प्रवृत्तिः, येन च सर्वम् इदं ततम्, स्वकर्मणा तं माम् इन्द्राद्यन्तरात्मतया ऽवस्थितम् अभ्यर्च्य मत्प्रसादात्मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वम् उत्पद्यते, मया च सर्वम् इदं ततम् इति पूर्वमेव+उक्तम्, “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय ।”, “मया ततम् इदं सर्वं जगदव्यक्तमूर्तिना”, “मया ऽध्यक्षेण प्रकृतिः सूयते सचराचरम”, “अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते” इत्यादिषु ॥१८,४६॥

* श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः । स्वेनैव+उपादातुं योग्यो धर्मः; प्रकृतिसंसृष्टेन हि पुरुषेण+इन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति । अतः कर्मयोगाख्यः स्वधर्मो विगुणो ऽपि परधर्मात् इन्द्रियजयनिपुणपुरुषधर्मात्ज्ञानयोगात्सकलेन्द्रियनियमनरूपतया सप्रमादात्कदाचित्स्वनुष्ठितात्श्रेयान् । तदेव+उपपादयति

* स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८,४७॥

प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात्कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति; अप्रमादत्वात्कर्मणः । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात्तन्निष्ठस्तु प्रमादात्किल्बिषं प्रतिपद्येतापि ॥१८,४७॥

अतः कर्मनिष्ठा+एव ज्यायसी+इति तृतीयाध्यायोक्तं स्मारयति

* सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
* सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८,४८॥

अतः सहजत्वेन सुकरम् अप्रमादं च कर्म सदोषं सदुःखम् अपि न त्यजेत्; ज्ञानयोगयोग्यो ऽपि कर्मयोगमेव कुर्वीत+इत्यर्थः । सर्वारम्भाः, कर्मारम्भाः ज्ञानारम्भाश्च हि दोषेण दुःखेन धूमेनाग्निरिवावृताः । इयांस्तु विशेषः कर्मयोगः सुकरो ऽप्रमादश्च, ज्ञानयोगस्तद्विपरीतः इति ॥१८,४८॥

* असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृहः ।
* नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८,४९॥

सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागादनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिम् अधिगच्छति परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतम् अधिगच्छति+इत्यर्थः । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपाम् अधिगच्छति ॥१८,४९॥

* सिद्धिं प्राप्तो यथा ब्रह्म तथा+आप्नोति निबोध मे ।
* समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८,५०॥

सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तदेव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परमप्राप्यम् इत्यर्थः ॥१८,५०॥

* बुद्ध्या विशुद्धया युक्तो धृत्या $ऽत्मानं नियम्य च ।
* शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८,५१॥
* विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
* ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८,५२॥
* अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
* विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते ॥१८,५३॥

बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी सर्वैर्ध्यानविरोधिभिर्विविक्ते देशे वर्तमानः, लघ्वाशी अत्यशनानशनरहितः, यतवाक्कायमानसः ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् एवंभूतस्सन् आ प्रायाणादहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् अनात्मनि आत्माभिमानं, बलं तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्वनात्मीयेष्वात्मीयबुद्धिरहितः, शान्तः आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते सर्वबन्धविनिर्मुक्तो यथावस्थितम् आत्मानम् अनुभवति+इत्यर्थः ॥१८,५१,५२,५३॥

* ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
* समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८,५४॥

ब्रह्मभूतः आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, “इतस्त्वन्यां प्रकृतिं विद्धि मे पराम” इति हि स्वशेषता+उक्ता । प्रसन्नात्मा क्लेशकर्मादिभिरकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति; न किंचन काङ्क्षति; अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन् मन्यमानो मद्भक्तिं लभते परां मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धे ऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥१८,५४॥

तत्फलं आह

* भक्त्या माम् अभिजानाति यावान् यश्चास्मि तत्त्वतः ।
* ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८,५५॥

स्वरूपतः स्वभावतश्च यो ऽहम्; गुणतो विभूतितो ऽपि यावांश्चाहम्, तं मामेवंरूपया भक्त्या तत्त्वतो ऽभिजानाति; मां तत्त्वतो ज्ञात्वा तदनन्तरं तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस्स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोति+इत्यर्थः । अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिरेवाभिधीयते; “भक्त्या त्वनन्यया शक्यः” इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् ॥१८,५५॥

एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानाम् अपि कर्मणाम् उक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्याह

* सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
* मत्प्रसादादवाप्नोति शाश्वतं पदम् अव्ययम् ॥१८,५६॥

न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्यपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच्छाश्वतं पदम् अव्ययम् अविकलं प्राप्नोति । पद्यते गम्यत इति पदम्; मां प्राप्नोति+इत्यर्थः ॥१८,५६॥

यस्मातेवम्, तस्मात्

* चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
* बुद्धियोगम् उपाश्रित्य मच्चित्तस्सततं भव ॥१८,५७॥

चेतसा आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, “मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा” इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः अहमेव फलतया प्राप्य इत्यनुसंधानः, कर्माणि कुर्वन् इममेव बुद्धियोगम् उपाश्रित्य सततं मच्चित्तो भव ॥१८,५७॥

* मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
* अथ चेत्त्वं अहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८,५८॥

एवं मच्चित्तः सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादादेव तरिष्यसि । अथ त्वं अहंकारातहमेव कृत्याकृत्यविषयं सर्वं जानामि+इति भावात्मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि विनष्टो भविष्यसि । न हि कश्चिन् मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर्ज्ञाता प्रशासिता वा ऽस्ति ॥१८,५८॥

* यद्यहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे ।
* मिथ्या+एष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८,५९॥

यदि अहंकारम् आत्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानम् आश्रित्य मन्नियोगम् अनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति; यतः प्रकृतिस्त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वाम् अज्ञं प्रकृतिर्नियोक्षति ॥१८,५९॥

तदुपपादयति

* स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
* कर्तुं न+इच्छसि यन् मोहात्करिष्यस्यवशो ऽपि तत् ॥१८,६०॥

स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, ततेवावशः, परैर्धर्षणम् असहमानस्त्वमेव तद्युद्धं करिष्यसि, यदिदानीं मोहातज्ञानात्कर्तुं न+इच्छसि ॥१८,६०॥

सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्; तच्छृणु ।

* ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति ।
* भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥१८,६१॥

ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस्तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रम् आरूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस्तिष्ठति+इत्यर्थः । पूर्वम् अप्येतदुक्तम्, “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानम् अपोहनं च” इति; “मत्तस्सर्वं प्रवर्तते” इति च । “य आत्मनि तिष्ठन” इत्यादिका श्रुतिश्च ॥१८,६१॥

एतन् मायानिवृत्तिहेतुं आह

* तमेव शरणं गच्छ सर्वभावेन भारत ।
* तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८,६२॥

यस्मादेवम्, तस्मात्तमेव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्ये ऽवस्थितम्, “इत्थं कुरु “ इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मना ऽनुवर्तस्व । अन्यथा ऽपि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणम् अवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस्तदुक्तप्रकारेण युद्धादिकं कुर्वित्यर्थः । एवं कुर्वाणस्तत्प्रसादात्परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानं प्राप्स्यसि । यदभिधीयते श्रुतिशतैः, “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, “ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः”, “यत्र ऋषयः प्रथमजा ये पुराणाः”, “परेण नाकं निहितं गुहायाम”, “यो ऽस्याध्यक्षः परमे व्योमन”, “अथ यदतः परो दिवो ज्योतिर्दीप्यते”, “सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम” इत्यादिभिः ॥

* इति ते ज्ञानम् आख्यातं गुह्याद्गुह्यतरं मया ।
* विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८,६३॥

इति एवं ते मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वम् आख्यातम् । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टम् आतिष्ठ+इत्यर्थः ॥१८,६३॥

* सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
* इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥१८,६४॥

सर्वेष्वेतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्यात्गुह्यतमम् इति पूर्वमेव+उक्तम् “इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे” इत्यादौ । भूयो ऽपि तद्विषयं परमं मे वचः शृणु । इष्टो ऽसि मे दृढम् इति ततस्ते हितं वक्ष्यामि ॥१८,६४॥

* मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
* मामेवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥१८,६५॥

वेदान्तेषु, “वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वान् अमृत इह भवति नान्यः पन्था विद्यते ऽयनाय” इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानम् अत्यर्थप्रियं इह मन्मना भव+इति विधीयते । मद्भक्तः अत्यर्थमत्प्रियः । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्व+इत्यर्थः । मद्याजी । तत्रापि मद्भक्त इत्यनुषज्यते । यजनं पूजनम् । अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्तिः । मां नमस्कुरु । नमः नमनम् । मय्यतिमात्रप्रह्वीभावम् अत्यर्थप्रियं कुर्वित्यर्थः । एवं वर्तमानो मामेवैष्यसि । एतत्सत्यं ते प्रतिजाने तव प्रतिज्ञां करोमि; न+उपच्छन्दनमात्रम्; यतस्त्वं प्रियो ऽसि मे । “प्रियो हि ज्ञानिनो ऽत्यर्थं अहं स च मम प्रियः” इति पूर्वमेव+उक्तम् । यस्य मय्यतिमात्रता प्रीतिर्वर्तते, ममापि तस्मिन् अतिमात्रा प्रीतिर्भवति+इति तद्वियोगम् असहमानो ऽहं तं मां प्रापयामि । अतः सत्यमेव प्रतिज्ञातम्, मामेवैष्यसि+इति ॥१८,६५॥

* सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
* अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८,६६॥

कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, मामेकमेव कर्तारम् आराध्यं प्राप्यम् उपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, “निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥” इत्यारभ्य, “सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्तिविको मतः ॥ ॥। न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागी+इत्यभिधीयते ॥” इति अध्यायादौ सुदृढम् उपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्यो ऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः शोकं मा कृथाः । अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वात्भक्तियोगस्य, तदारम्भविरोधिपापानाम् आनन्त्यात्तत्प्रायश्चित्तरूपैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हताम् आलोच्य शोचतो ऽर्जुनस्य शोकम् अपनुदन् श्रीभगवान् उवाच सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज+इति । भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान्नानाविधान् अनन्तांस्त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भसिद्धये मामेकं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि; मा शुचः ॥१८,६६॥

* इदं ते नातपस्काय नाभक्ताय कदाचन ।
* न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥१८,६७॥

इदं ते परमं गुह्यं शास्त्रं मया $ऽख्यातम् अतपस्काय अतप्ततपसे त्वया न वाच्यम्; त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् । तप्ततपसे चाभक्ताय न वाच्यम् इत्यर्थः । न चाशुश्रूषवे । भक्तायाप्यशुश्रूषवे न वाच्यम् । न च मां यो ऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषम् आविष्करोति, न तस्मै वाच्यम् । असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥१८,६७॥

* य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
* भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८,६८॥

इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा मामेवैष्यति; न तत्र संशयः ॥१८,६८॥

* न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः ।
* भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८,६९॥

सर्वेषु मनुष्येष्वितः पूर्वं तस्मादन्यो मनुष्यो मे न कश्चित्प्रियकृत्तमो ऽभूत्; इत उत्तरं च न भविता । अयोग्यानां प्रथमम् उपादानं योग्यानाम् अकथनादपि तत्कथनस्यानिष्टतमत्वात् ॥

* अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः ।
* ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥१८,७०॥

य इमम् आवयोर्धर्म्यं संवादम् अध्येष्यते, तेन ज्ञानयज्ञेनाहम् इष्टस्स्याम् इति मे मतिः अस्मिन् यो ज्ञानयज्ञो ऽभिधीयते, तेनाहमेतदध्ययनमात्रेण+इष्टः स्याम् इत्यर्थः ॥१८,७०।

* श्रद्धावान् अनसूयुश्च शृणुयादपि यो नरः ।
* सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥१८,७१॥

श्रद्धावान् अनसूयुश्च यो नरः शृणुयादपि, तेन श्रवणमात्रेण सो ऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् ॥१८,७१।

* कश्चिदेतच्छ्रुतं पार्थ त्वया+एकाग्रेण चेतसा ।
* कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥१८,७२॥

मया कथितमेतत्पार्थ त्वया अवहितेन चेतसा कच्चित्श्रुतम्, तवाज्ञानसंमोहः कच्चित्प्रनष्टः, येनाज्ञानेन मूढो न योत्स्यामि+इत्युक्तवान् ॥१८,७२॥

* अर्जुन उवाच
* नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान् मया ऽच्युत ।
* स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव ॥१८,७३॥

मोहः विपरीतज्ञानम् । त्वत्प्रसादान् मम तत्विनष्टम् । स्मृतिः यथावस्थिततत्त्वज्ञानम् । त्वत्प्रसादादेव तच्च लब्धम् । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश्च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश्च सर्वो विनष्टः । आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस्त्वम् इति ज्ञानं च लब्धम् । ततश्च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात्सर्वस्मातवसादात्विमुक्तो गतसंदेहः स्वस्थः स्थितो ऽस्मि । इदानीमेव युद्धादिकर्तव्यताविषयं तव वचनं करिष्यति यथोक्तं युद्धादिकं करिष्यति इत्यर्थः ॥१८,७३॥

धृतराष्ट्राय स्वपुत्राः पाण्डवाश्च युद्धे किं करिष्यन्ति+इति पृच्छते

* सञ्जय उवाच
* इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
* संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥१८,७४॥

इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस्तत्पदद्वन्द्वम् आश्रितस्य+इमं रोमहर्षणम् अद्भुतं संवादं अहं यथोक्तम् अश्रौषं श्रुतवान् अहम् ॥१८,७४॥

* व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यं अहं परम् ।
* योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८,७५॥

व्यासप्रसादात्व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभातेतत्परं योगाख्यं गुह्यं योगेश्वरात्ज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधेर्भगवतः कृष्णात्स्वयमेव कथयतः साक्षात्श्रुतवान् अहम् ॥१८,७५॥

* राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
* केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८,७६॥

केशवार्जुनयोरिमं पुण्यम् अद्भुतं संवादं साक्षाच्छ्रुतं स्मृत्वा मुहुर्मुहुर्हृष्यामि ॥

* तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः ।
* विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥१८,७७॥

तच्चार्जुनाय प्रकाशितम् ऐश्वरं हरेरत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते; पुनः पुनश्च हृष्यामि ॥१८,७७॥

किम् अत्र बहुना+उक्तेन ?

* यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
* तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८,७८॥

यत्र योगेश्वरः कृत्स्नस्य+उच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानाम् ईश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्मम+इति ॥७८॥