Gitabhashya of Bhagavad Ramanuja, part 1

DRAFT — NOT PROOFREAD, FOR EVALUATION PURPOSES ONLY

  1. social {

margin-bottom: 8px; opacity:0.65; filter:alpha(opacity=65); /* For IE8 and earlier */ }

  1. social:hover

{ opacity:1.0; filter:alpha(opacity=100); /* For IE8 and earlier */ } div .plusone, .twitter, .fb-like { font-size: 1px; display: inline-block; } div .fb_reset { display: inline; }

  1. wikitext {

word-wrap: break-word; /* Internet Explorer 5.5+ */ overflow: auto }

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥

श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावम् अजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनाम् अपि समाश्रयणीयत्वायावतीर्य+उर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वम् आप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगम् अवतारयाम् आस । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनम् आत्मानं च सारथिं सर्वलोकसाक्षिकं चकार ।

एवं ज्ञात्वा ऽपि सर्वात्मना ऽन्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ ।

* धृतराष्ट्र उवाच
* धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
* मामकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जय ॥१,१॥

* सञ्जय उवाच
* दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
* आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् ॥१,२॥
* पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
* व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१,३॥
* अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
* युयुधानो विराटश्च द्रुपदश्च महारथः ॥१,४॥
* धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् ।
* पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१,५॥
* युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
* सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१,६॥
* अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
* नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥१,७॥
* भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
* अश्वत्थामा विकर्णश्च सौमदत्तिस्तथा+एव च ॥१,८॥
* अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
* नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदाः ॥१,९॥
* अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
* पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१,१०॥
* अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
* भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१,११॥

दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य, आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तर्विषण्णो ऽभवत् ॥

* तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः ।
* सिंहनादं विनद्य+उच्चैः शङ्खं दध्मौ प्रतापवान् ॥१,१२॥
* ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
* सहसा+एवाभ्यहन्यन्त स शब्दस्तुमुलो ऽभवत् ॥१,१३॥
* ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
* माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१,१४॥
* पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
* पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१,१५॥
* अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
* नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१,१६॥
* काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
* धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१,१७॥
* द्रुपदो द्रौपदेयाश्च सर्वतः पृथिवीपते ।
* सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१,१८॥

तस्य विषादम् आलक्ष्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकारयत् ॥ ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ

* स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
* नभश्च पृथिवीं चैव तुमुलो ऽप्यनुनादयन् ॥१,१९॥
* अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
* प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१,२०॥
* हृषीकेशं तदा वाक्यम् इदं आह महीपते ।
* अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मे ऽच्युत ॥

त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥

ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । “अद्यैव नष्टं कुरूणां बलम” इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयो ऽकथयत् ॥

अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो

* यावदेतान्निरीक्षे ऽहं योद्धुकामान् अवस्थितान् ।
* कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥
* योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः ।
* धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१,२३॥
* सञ्जय उवाच
* एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
* सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१,२४॥
* भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
* उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥१,२५॥
* तत्रापश्यत्स्थितान् पार्थः पित्ह्न् अथ पितामहान् ।

ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमने ऽवस्थितम् आश्रितवात्सल्यविवशतया स्वसारथ्ये ऽवस्थितम्, “युयुत्सून् यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय” इत्यचोदयत् ॥

* आचार्यान् मातुलान् भ्रात्ह्न् पुत्रान् पौत्रान् सखींस्तथा ॥१,२६॥
* श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
* तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥१,२७॥
* कृपया परया $ऽविष्टो विषीदन्निदम् अब्रवीत् ।
* अर्जुन उवाच
* दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१,२८॥
* सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
* वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१,२९॥
* गाण्डीवं स्रंसते हस्तात्त्वक् चैव परिदह्यते ।
* न च शक्नोम्यवस्थातुं भ्रमति+इव च मे मनः ॥१,३०॥
* निमित्तानि च पश्यामि विपरीतानि केशव ।
* न च श्रेयो ऽनुपश्यामि हत्वा स्वजनं आहवे ॥१,३१॥
* न काङ्क्षे विजयं Kऋष्ण न च राज्यं सुखानि च ।
* किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१,३२॥
* येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
* त इमे ऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१,३३॥
* आचार्याः पितरः पुत्रास्तथा+एव च पितामहाः ।
* मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥१,३४॥

स च तेन चोदितस्तत्क्षणादेव भीष्मड्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथाचोदितम् अकरोत् । ईदृशी भवदीयानां विजयस्थितिरिति चावोचत् ॥

स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको

* एतान्न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूधन ।
* अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१,३५॥
* निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज् जनार्दन ।
* पापमेवाश्रयेदस्मान् हत्वा+एतान् आततायिनः ॥१,३६॥
* तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् ।
* स्वजनं हि कथम् हत्वा सुखिनः स्याम माधव ॥१,३७॥
* यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
* कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१,३८॥
* कथं न ज्ञेयम् अस्माभिः पापादस्मान्निवर्तितुम् ।
* कुलक्षयकृतं दोषं प्रपश्यद्भिर्ञनार्दन ॥१,३९॥
* कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
* धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्युत ॥१,४०॥
* अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
* स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥१,४१॥
* सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
* पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१,४२॥
* दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
* उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१,४३॥
* उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन ।
* नरके नियतं वासो भवति+इत्यनुशुश्रुम ॥१,४४॥
* अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
* यत्राज्यसुखलाभेन हन्तुं स्वजनम् उद्यताः ॥१,४५॥
* यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः ।
* धार्तराष्ट्रा रणे हन्युस्तन् मे क्षेमतरं भवेत् ॥१,४६॥

* सञ्जय उवाच
* एवम् उक्त्वा ऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
* विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१,४७॥

भवद्भिरतिघोरैर्मारणैः जतुगृहदाहादिभिरसकृद्वञ्चितो ऽपि परमपुरुषसहायेनात्मना हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथा ऽहं न योत्स्यामि+इत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥

* सञ्जय उवाच
* तं तथा कृपया $ऽविष्टम् अश्रुपूर्णाकुलेक्षणम् ।
* विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥२,१॥
* श्रीभगवान् उवाच
* कुतस्त्वा कश्मलम् इदं विषमे समुपस्थितम् ।
* अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥२,२॥
* मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते ।
* क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा+उत्तिष्ठ परन्तप ॥२,३॥

एवम् उपविष्टे पार्थे कुतो ऽयम् अस्थाने समुपस्थितः शोक इत्याक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धाय+उत्तिष्ठ+इति श्रीभगवान् उवाच ॥

* अर्जुन उवाच
* कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन ।
* इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥२,४॥
* गुरून् अहत्वा हि महानुभावान् श्रेयश्चर्तुं भैक्षम् अपि+इह लोके ।
* हत्वा ऽर्थकामांस्तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२,५॥

पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततमम् अजानन्निदम् उवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथं अहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैर्भुज्यमानांस्तान् एव भोगान् तद्रुधिरेण+उपसिच्य तेष्वासनेषु+उपविश्य भुञ्जीय? ॥२,४,५॥

* न चैतत्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
* यान् एव हत्वा न जिजीविषामस्ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२,६॥
* कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः ।
* यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन् मे शिष्यस्ते ऽहं शाधि मां त्वां प्रपन्नम् ॥२,७॥
* न हि प्रपश्यामि ममापनुद्यात्यच्छोकम् उच्छोषणम् इन्द्रियाणाम् ।
* अवाप्य भूमावसपत्नम् ऋद्धं राज्यं सुराणाम् अपि चाधिपत्यम् ॥२,८॥

एवं युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयादधर्म्यातस्माकं धर्माधर्मावजानद्भिः तैर्हननमेव गरीय इति मे प्रतिभाति+इत्युक्त्वा, यन् मह्यं श्रेय इति निश्चितम्, तत्शरणागताय तव शिष्याय मे ब्रूहि+इत्यतिमात्रकृपणो भगवत्पादावुपससाद ॥२,६८॥

* सञ्जय उवाच
* एवम् उक्त्वा हृशीकेशं गुडाकेशः परन्तपः ।
* न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥२,९॥

“एवम् अस्थाने समुपस्थितस्नेहकारुण्याभ्याम् अप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्मम् अप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थम् उद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति” इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् “अस्थानस्नेहकारुण्यधर्माधर्मधिया+आकुलम् । पार्थं प्रपन्नम् उद्दिश्य शास्त्रावतरणं कृतम” ॥ इति ॥२,९॥

* तम् उवाच हृशीकेशः प्रहसन्निव भारत ।
* सेनयोरुभयोर्मध्ये सीदमानम् इदं वचः ॥२,१०॥

एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस्सेनयोर्युद्धाय+उद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थम् आलोक्य परमपुरुषः प्रहसन्निव+इदम् उवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं “न त्वेवाहं जातु नासम” इत्यारभ्य “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः” इत्येतदन्तं वचनम् उवाच+इत्यर्थः ॥२,१०॥

* श्रीभगवान् उवाच
* अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
* गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः ॥२,११॥

अशोच्यान् प्रति अनुशोचसि । “पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः” इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किंचिच्छोकनिमित्तम् अस्ति । गतासून् देहान् अगतासून्; आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस्त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते, यतेतान् हनिष्यामि+इत्यनुशोचनम्, यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम् । अतो देहस्वभावं च न जानासि, तदतिरिक्तम् आत्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितम् आत्मयाथात्म्यावाप्त्युपायभूतम् । आत्मा हि न जन्माधीनसद्भावः; न मरणाधीनविनाशश्च, तस्य जन्ममरणयोरभावात् । अतः स न शोकस्थानम् । देहस्त्वचेतनः परिणामस्वभावः; तस्य+उत्पत्तिविनाशयोगः स्वाभाविक इति सो ऽपि न शोकस्थानम् इत्यभिप्रायः ॥२,११॥

प्रथमं तावदात्मनां स्वभावं शृणु

* न त्वेवाहं जातु नासं न त्वं न+इमे जनाधिपाः ।
* न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥२,१२॥

अहं सर्वेश्वरस्तावत्, अतः वर्तमानात्पूर्वस्मिन् अनादौ काले, न नासम् अपि त्वासम् । त्वन्मुखाश्चैते ईशितव्याः क्षेत्रज्ञाः न नासम्; अपि त्वासन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिन् अनन्ते काले, न चैव न भविष्यामः; अपि तु भविष्याम एव । यथा+अहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथा+एव भवन्तः क्षेत्रज्ञा आत्मानो ऽपि नित्या एव+इति मन्तव्याः ॥२,१२॥

एवं भगवतः सर्वेश्वरातात्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवता+एव+उक्तम् इति प्रतीयते; अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयम् इति व्यपदेशात् । औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिरप्याह, “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान” इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनस्सन् कामान् विदधाति+इत्यर्थः । अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर्निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न संगच्छन्ते । अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपम् इदं भेदज्ञानं दग्धपटादिवन्न बन्धकम् इत्युच्यते नैतदुपपद्यते; मरीचिकाजलज्ञानादिकं हि बाधितम् अनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः । एवम् अत्राप्यद्वैतज्ञानेन बाधितं भेदज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थविषयत्वनिश्चयान्न+उपदेशादिप्रवृत्तिहेतुर्भवति । न च+ईश्वरस्य पूर्वम् अज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्; “यः सर्वज्ञः सर्ववित”, “परा+अस्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च”, “वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन” इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश्च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमाने ऽपि भेदज्ञाने, स्वनिश्चयानुरूपम् अद्वितीयात्मज्ञानं कस्मा उपदिशति+इति वक्तव्यम् ॥ प्रतिबिम्बवत्प्रतीयमानेभ्यो ऽर्जुनादिभ्य इति चेत् नैतदुपपद्यते; न ह्यनुन्मत्तः को ऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनो ऽनन्यत्वं जानन्, तेभ्यः किम् अप्युपदिशति । बाधितानुवृत्तिरपि तैर्न शक्यते वक्तुम्; बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर्विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोरविनष्टत्वात्बाधितानुवृत्तिर्युक्ता; अनुवर्तमानम् अपि प्रबलप्रमाणबाधितत्वेनाकिंचित्करम् । इह तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान्न कथञ्चिदपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्य+इदानींतनगुरुपरम्परायाश्च तत्त्वज्ञानम् अस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः । नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वादेव सुतराम् उपदेशो न संभवति ॥ किं च गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वात्शिष्यं प्रत्युपदेशो निष्प्रयोजनः । गुरुस्तज्ज्ञानं च कल्पितम् इति चेत्, शिष्यतज्ज्ञानयोरपि कल्पितत्वात्तदप्यनिवर्तकम् । कल्पितत्वे ऽपि पूर्वविरोधित्वेन निवर्तकम् इति चेत्, तताचार्यज्ञाने ऽपि समानम् इति तदेव निवर्तकं भवति+इत्युपदेशानर्थक्यमेव इति कृतम् असमीचीनवादैः ॥२,१२॥

* देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
* तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२,१३॥

एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद्देहान्तरप्राप्तावपि तथा+एव स्थिर आत्मेति बुद्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मनो न शोकस्थानम् ॥२,१३॥

एतावदत्र कर्तव्यम् आत्मनां नित्यानामेवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहैर्बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इमम् अर्थम् अनन्तरमेवाह

* मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
* आगमापायिनो ऽनित्यास्तांस्तितिक्षस्व भारत ॥२,१४॥

शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान् मात्रा इत्युच्यन्ते । श्रोत्रादिभिस्तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । तान् धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वात्धैर्यवतां क्षन्तुं योग्याः । अनित्याश्च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः ॥२,१४॥

तत्क्षमा किमर्थेत्यत्राह

* यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
* समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते ॥२,१५॥

यं पुरुषं धैर्ययुक्तम् अवर्जनीयदुःखं सुखवन् मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति; स एवामृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुरित्यर्थः । आत्मनां नित्यत्वादेतावदत्र कर्तव्यम् इत्यर्थः ॥२,१५॥

यत्तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तम् उक्तम्, “गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः” इति, तदुपपादयितुम् आरभते

* नासतो विद्यते भावो नाभावो विद्यते सतः ।
* उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२,१६॥

असतः देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावः । उभयोः देहात्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देन+उच्यते । देहस्याचिद्वस्तुनो ऽसत्त्वमेव स्वरूपम्; आत्मनश्चेतनस्य सत्त्वमेव स्वरूपम् इति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथा उक्तं भगवता पराशरेण, “तस्मान्न विज्ञानम् ऋते ऽस्ति किंचित्क्वचित्कदाचित्द्विज वस्तुजातम”, “सद्भाव एवं भवतो मया+उक्तो ज्ञानं यथा सत्यम् असत्यम् अन्यत”, “अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम”, “यत्तु कालान्तरेणापि नान्यसंज्ञाम् उपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम” इति । अत्रापि “अन्तवन्त इमे देहाः”, “अविनाशि तु तद्विद्धि” इति ह्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुरिति गम्यते ॥

अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान्न तत्परो ऽयं श्लोकः; देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः । स एव “गतासून् अगतासून” इति च प्रस्तुतः । स एव च, “अविनाशि तु तद्विद्धि”, “अन्तवन्त इमे देहाः” इति अनन्तरम् उपपाद्यते । अतो यथा उक्त एवार्थः ॥२,१६॥

आत्मनस्त्वविनाशित्वं कथम् अवगम्यत इत्यत्राह

* अविनाशि तु तद्विद्धि येन सर्वम् इदं ततम् ।
* विनाशम् अव्ययस्यास्य न कश्चित्कर्तुम् अर्हति ॥२,१७॥

ततात्मतत्त्वम् अविनाशि+इति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित्पदार्थो विनाशं कर्तुम् अर्हति, तद्व्याप्यतया तस्मात्स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयो ऽपि हि वेगवत्संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वम् अविनाशि ॥२,१७॥

देहानां तु विनाशित्वमेव स्वभाव इत्याह

* अन्तवन्त इमे देहा नित्यस्य+उक्ताः शरीरिणः ।
* अनाशिनो ऽप्रमेयस्य तस्मात्युध्यस्व भारत ॥२,१८॥

“दिह उपचये” इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः । उपचयात्मका हि घटादयो ऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, “पुण्यः पुण्येन” इत्यादिशास्त्रैरुक्ताः कर्मावसानविनाशिनः । आत्मा त्वविनाशी; कुतः ? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतया+उपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, “एतत्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः” इति । न चानेकोपचयात्मक आत्म+उपलभयते, सर्वत्र देहे “अहम् इदं जानामि” इति देहस्य चान्यस्य च प्रमातृतया+एकरूपेण+उपलब्धेः । न च देहादेरिव प्रदेशभेदे प्रमातुराकारभेद उपलभ्यते । अत एकरूपत्वेन अनुपचयात्मकत्वात्प्रमातृत्वात्व्यापकत्वाच्च आत्मा नित्यः । देहस्तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच्च विनाशी । तस्मात्देहस्य विनाशस्वभावत्वातात्मनो नित्यत्वाच्च उभयावपि न शोकस्थानम् इति, शस्त्रपातादिपुरुषस्पर्शान् अवर्जनीयान् स्वगतान् अन्यगतांश्च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व ॥२,१८॥

* य एनं वेत्ति हन्तारं यश्चैनन् मन्यते हतम् ।
* उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२,१९॥

एनम् उक्तस्वभावम् आत्मानं प्रति, हन्तारं हननहेतुं कम् अपि यो मन्यते; यश्चैनं केनापि हेतुना हतं मन्यते; तावुभौ न विजानीतः, उक्तैर्हेतुभिरस्य नित्यत्वादेव एनम् अयं न हन्ति अस्यायं हननहेतुर्न भवति । अत एव चायम् आत्मा न हन्यते । हन्तिधातुरप्यात्मकर्मकः शरीरवियोगकरणवाची । “न हिंस्यात्सर्वा भूतानि”, “ब्राह्मणो न हन्तव्यः” इत्यादीन्यपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि ॥२,१९॥

* न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।
* अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२,२०॥

उक्तैरेव हेतुभिर्नित्यत्वेनापरिणामित्वादात्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्ति+इत्युच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननमरणे कदाचिदप्यात्मानं न स्पृशतः । नायं भूत्वा भविता वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न न भविता; केषुचित्प्रजापतिप्रभृतिदेहेष्वागमेन+उपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणम् आत्मानं न स्पृशति+इत्यर्थः । अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः । शाश्वतः प्रकृतिवदविशदसततपरिणामैरपि नान्वीयते, पुराणः पुरा ऽपि नवः; सर्वदा अपूर्ववदनुभाव्य इत्यर्थः । अतः शरीरे हन्यमाने न हन्यते ऽयम् आत्मा ॥२,२०॥

* वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।
* कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२,२१॥

एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यमेनम् आत्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्वात्मसु कम् अप्यात्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति; कथं वा तत्प्रयोजको भवति+इत्यर्थः । एतान् आत्मनो घातयामि हन्मि+इत्यनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलमेव+इत्यभिप्रायः ॥२,२१॥

यद्यपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते तथा ऽपि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तम् अस्त्येव+इत्यत्राह

* वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि ।
* तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२,२२॥

धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरग्रहणं शास्त्रादवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णताम् इव हर्षनिमित्तमेवात्र+उपलभ्यते ॥२,२२॥

पुनरपि “अविनाशि तु तद्विद्धि येन सर्वम् इदं ततम” इति पूर्वोक्तम् अविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति

* नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
* न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२,२३॥
* अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च ।
* नित्यस्सर्वगतः स्थाणुरचलो ऽयं सनातनः ॥२,२४॥

शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तत्त्वेभ्यस्सूक्ष्मत्वादस्य तैर्व्याप्त्यनर्हत्वात्; व्याप्यकर्तव्यत्वाच्च छेदनदहनक्लेदनशोषणानां । अत आत्मा नित्यः स्थाणुरचलो ऽयं सनातनः स्थिरस्वभावो ऽप्रकम्प्यः पुरातनश्च ॥२,२३,२४॥

* अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते ।
* तस्मादेवं विदित्वा+एनं नानुशोचितुम् अर्हसि ॥२,२५॥

छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते; तैरयम् आत्मा न व्यज्यत इत्यव्यक्तः; अतः छेद्यादिविसजातीयः । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुम् अपि नार्हः; अतश्चाविकार्यः विकारानर्हः । तस्मादुक्तलक्षणमेनम् आत्मानं विदित्वा तत्कृते नानुशोचितुम् अर्हसि ॥२,२५॥

* अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
* तथा ऽपि त्वं महाबाहो! नैवं शोचितुम् अर्हसि ॥२,२६॥

अथ नित्यजातं नित्यमृतं देहमेवैनम् आत्मानं मनुषे, न देहातिरिक्तम् उक्तलक्षणम्; तथा ऽपि एवम् अतिमात्रं न शोचितुम् अर्हसि; परिणामस्वभावस्य देहस्य+उत्पत्तिविनाशयोरवर्जनीयत्वात् ॥२,२६॥

* जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
* तस्मादपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥२,२७॥

उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते; तथा विनष्टस्यापि जन्म अवर्जनीयम् । कथम् इदम् उपपद्यते विनष्टस्य+उत्पत्तिरिति; सत एव+उत्पत्त्युपलब्धेः, असतश्चानुपलब्धेः । उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येव रचनाविशेषयुक्तानि पटादीन्युच्यन्ते । असत्कार्यवादिना ऽप्येतावदेव+उपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणामेतावता+एव+उपपत्तेः न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । उत्पत्त्याख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विनाश इत्युच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्य+उत्तरावस्थाप्राप्तिर्विनाशः । सा+एव तदवस्थस्य च+उत्पत्तिः । एवम् उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि ॥२,२७॥

सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यो ऽल्पीयान् शोकः, सो ऽपि मनुष्यादिभूतेषु न संभवति+इत्याह

* अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
* अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२,२८॥

मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तम् अस्ति ॥२,२८॥

एवं शरीरात्मवादे ऽपि नास्ति शोकनिमित्तम् इत्युक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह

* आश्चर्यवत्पश्यति कश्चिदेनम् आश्चर्यवत्वदति तथा+एव चान्यः ।
* आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वा ऽप्येनं वेद न चैव कश्चित् ॥२,२९॥

एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित्पश्यति । तथाविधः कश्चित्परस्मै वदति । एवं कश्चिदेव शृणोति । श्रुत्वा ऽप्येनं यथावदवस्थितं तत्त्वतो न कश्चित्वेद । चकारात्द्रष्टृवक्तृश्रोतृष्वपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश्श्रवणं दुर्लभम् इत्युक्तं भवति ॥२,२९॥

* देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत ।
* तस्मात्सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥२,३०॥

सर्वस्य देवादिदेहिनो देहे वध्यमाने ऽप्ययं देही नित्यम् अवध्यो मन्तव्यः । तस्मात्सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतस्समानानि नित्यानि च । देहगतं तु वैषम्यम् अनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्युद्दिश्य न शोचितुम् अर्हसि; न केवलं भीष्मादीन् प्रति ॥२,३०॥

* स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
* धर्म्याद्धि युद्धाच्छ्रेयो ऽन्यत्क्षत्रियस्य न विद्यते ॥२,३१॥

अपि च+इदं प्रारब्धं युद्धं प्राणिमारणम् अपि अग्नीषोमीयादिवत्स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यात्न्यायतः प्रवृत्तात्युद्धादन्यन्न हि क्षत्रियस्य श्रेयो विद्यते । “शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानम् ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥” इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वककल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । “न वा उ एतन् म्रियसे न रिष्यसि देवां इदेषि पथिभिस्सुरेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता दधातु” इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिरुक्ता, “वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति” इत्यादिना । अतः, चिकित्सकशल्यादिकर्म आतुरस्य+इव, अस्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥२,३१॥

* यदृच्छया च+उपपन्नं स्वर्गद्वारम् अपावृतम् ।
* सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥२,३२॥

अयत्नोपनतम् इदं निरतिशयसुखोपायभूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥२,३२॥

* अथ चेत्त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ।
* ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥२,३३॥

अथ क्षत्रियस्य स्वधर्मभूतम् इमम् आरब्धं संग्रामं मोहान्न करिष्यसि चेत् ततः प्रारब्धस्य धर्मस्याकरणात्स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयम् अवाप्स्यसि ॥२,३३॥

* अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् ।
* संभावितस्य चाकीर्तिः मरणादतिरिच्यते ॥२,३४॥

न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् । “पार्थो युद्धे प्रारब्धे पलायितः” इति अव्ययां सर्वदेशकालव्यापिनीम् अकीर्तिं च समर्थानि असमर्थान्यपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किम् इति चेत् शैर्यवीर्यपराक्रमादिभिस्सर्वसंभावितस्य तद्विपर्ययजा ह्यकीर्तिः मरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणमेव तव श्रेय इत्यर्थः ॥२,३४॥

बन्धुस्नेहात्कारुण्याच्च युद्धान्निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगमिष्यति+इत्यत्राह

* भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
* येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥२,३५॥

येषां कर्णदुर्योधनादीनां महारथानाम् इतः पूर्वं त्वं शूरो वैरी+इति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि, ते महारथास्त्वां भयात्युद्धादुपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयातृते बन्धुस्नेहादिना युद्धादुपरतिर्न+उपपद्यते ॥२,३५॥

किं च,

* अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
* निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२,३६॥

शूराणां अस्माकं सन्निधौ कथम् अयं पार्थः क्षणम् अपि स्थातुं शक्नुयात्, अस्मत्सन्निधानादन्यत्र ह्यस्य सामर्थ्यम् इति तव सामर्थ्यं निन्दन्तः शूराणाम् अवाच्यवादांश्च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः; ततो ऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान् मरणमेव श्रेय इति त्वमेव मंस्यसे ॥२,३६॥

अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर्हननम् उभयम् अपि श्रेयसे भवति+इत्याह

* हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
* तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२,३७॥

धर्मयुद्धे परैर्हतश्चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि; परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे; अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात्तच्च परमनिःश्रेयसं प्राप्स्यसि; तस्मात्युद्धाय+उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तम् इत्यभिप्रायः ॥२,३७॥

मुमुक्षोर्युद्धानुष्ठानप्रकारं आह

* सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
* ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥२,३८॥

एवं देहातिरिक्तम् अस्पृष्टसमस्तदेहस्वभावं नित्यम् आत्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्वविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धम् आरभस्व । एवं कुर्वाणो न पापम् अवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि; संसारबन्धान् मोक्ष्यसे इत्यर्थः ॥२,३८॥

एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते

* एषा ते ऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
* बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२,३९॥

सङ्ख्या बुद्धिः; बुद्ध्या ऽवधारणीयम् आत्मतत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया “न त्वेवाहम” इत्यारभ्य “तस्मात्सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि” इत्यन्तेन सा+एषा ते ऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देन+उच्यते । “दूरेण ह्यवरं कर्म बुद्धियोगात” इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, ताम् इमाम् अभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः; संसारबन्ध इत्यर्थः ॥२,३९॥

वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यं आह

* न+इहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते ।
* स्वल्पम् अप्यस्य धर्मस्य त्रायते महतो भयात् ॥२,४०॥

इह कर्मयोगे नाभिक्रमनाशो ऽस्ति । अभिक्रमः आरम्भः । नाशः फलसाधनभावनाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् ।आरब्धस्य विच्छेदे प्रत्यवायो ऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशो ऽपि महतो भयात् संसारभयात्त्रायते । अयम् अर्थः; “पार्थ नैव+इह नामुत्र विनाशस्तस्य विद्यते” इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति; प्रत्यवायाय च भवन्ति ॥२,४०॥

काम्यकर्मविषयाया बुद्धेर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि

* व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
* बहुशाखा ह्यनन्ताश्च बुद्धयो ऽव्यवसायिनाम् ॥२,४१॥

इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिरेका । मुमुक्षुणा ऽनुष्ठेये कर्मणि बुद्धिर्व्यवसायात्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिरात्मयाथात्म्यनिश्चयपूर्विका । काम्यकर्मविषया तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रम् अपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः । स्वरूपयाथात्म्यानिश्चये ऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच्च । सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतया+एका; एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्यैकत्वात्सर्वकर्मविषया बुद्धिरेका+एव; यथा+एकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानामेकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थः । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्यादनन्ताः । तत्रापि बहुशाखाः; एकस्मै फलाय चोदिते ऽपि दर्शपूर्णमासादौ कर्मणि, “आयुराशास्ते” इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयो ऽनन्ता बहुशाखाश्च । एतदुक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्येकशास्त्रार्थतया ऽनुष्ठेयानि; काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथाबलम् अनुष्ठेयानि इति ॥२,४१॥

अथ काम्यकर्माधिकृतान्निन्दति

* याम् इमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
* वेदवादरताः पार्थ नान्यदस्ति+इति वादिनः ॥२,४२॥
* कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् ।
* क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२,४३॥
* भोगैश्वर्यप्रसक्तानां तया ऽपहृतचेतसाम् ।
* व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥२,४४॥

याम् इमां पुष्पितां पुष्पमात्रफलाम्, आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञाः भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यदस्ति+इति वादिनः तत्सङ्गातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्ति+इति वदन्तः, काम् आत्मानः काम् अप्रवणमनसः, स्वर्गपराः स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् । भोगैश्वर्यगतिं प्रति वर्तमानां याम् इमां पुष्पितां वाचं ये प्रवदन्ति+इति संबन्धः । तेषां भोगैश्वर्यप्रसक्तानां तया वाचा भोगैश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, न+उत्पद्यते, समाधीयते ऽस्मिन्नात्मज्ञानम् इति समाधिर्मनः । तेषां मनस्यात्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिदपि न+उत्पद्यते इत्यर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥२,४२,४३,४४॥

एवम् अत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्यो ऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किम् अर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतया+उच्यते इत्यत आह

* त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
* निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२,४५॥

त्रयो गुणास्त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तमःप्रचुराः पुरुषास्त्रैगुण्यशब्देन+उच्यन्ते; तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतया+एव हितम् अवबोधयन्ति वेदाः । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावबोधयन्ति, तदा+एते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनम् अजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस्त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस्त्वं तदेव वर्धय; नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव; न तत्प्राचुर्यं वर्धय+इत्यर्थः । निर्द्वन्द्वः निर्गतसकलसांसारिकस्वभावः; नित्यसत्त्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथम् इति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानाम् अर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव आत्मस्वरूपान् वेषणपरो भव । अप्राप्तस्य प्राप्तिर्योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते ॥२,४५॥

* यावान् अर्थ उदपाने सर्वतः संप्लुतोदके ।
* तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२,४६॥

न च वेदोदितं सर्वं सर्वस्य+उपादेयम्; यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर्यावान् अर्थः यावदेव प्रयोजनम्, तावदेव तेन+उपादीयते, न सर्वम्; एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तदेव+उ=
पादेयम्; नान्यत् ॥२,४६॥

अतः सत्त्वस्थस्य मुमुक्षोरेतावदेव+उपादेयम् इत्याह

* कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
* मा कर्मफलहेतुर्भूः मा ते सङ्गो ऽस्त्वकर्मणि ॥२,४७॥

नित्ये नैमित्तिके काम्ये च केनचित्फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्ते कर्ममात्रे ऽधिकारः । तत्संबन्धितया ऽवगतेषु फलेषु न कदाचिदप्यधिकारः । सफलस्य बन्धरूपत्वात्फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च । मा च कर्मफलयोर्हेतुभूः । त्वया ऽनुष्ठीयमाने ऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्तव अकर्तृत्वम् अप्यनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वा ऽनुसन्धेयम् इत्युत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामि+इति यत्त्वया ऽभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्येव सङ्गो ऽस्त्वित्यर्थः ॥२,४७॥

एतदेव स्फुटीकरोति

* योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
* सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२,४८॥

राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस्समो भूत्वा कुरु । तदिदं सिद्ध्यसिद्ध्योस्समत्वं योगस्थ इत्यत्र योगशब्देन+उच्यते । योगः सिद्ध्यसिद्धियोस्समत्वरूपं चित्तसमाधानम् ॥२,४८॥

किम् अर्थम् इदम् असकृदुच्यत इत्यत आह

* दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
* बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः ॥२,४९॥

यो ऽयं प्रधानफलत्यागविषयो ऽवान्तरफलसिद्ध्यसिद्ध्योस्समत्वविषयश्च बुद्धियोगः; तद्युक्तात्कर्मण इतरत्कर्म दूरेणावरम् । महदिदं द्वयोरुत्कर्षापकर्षरूपं वैरूप्यम् । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरदपरिमितदुःखरूपं संसारम् इति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणम् अन्विच्छ । शरणं वासस्थानम् । तस्यामेव बुद्धौ वर्तस्व+इत्यर्थः । कृपणाः फलहेतवः फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥२,४९॥

* बुद्धियुक्तो जहाति+इह उभे सुकृतदुष्कृते ।
* तस्मात्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२,५०॥

बुद्धियोगयुक्तस्तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्ताय बुद्धियोगाय युज्यस्व । योगः कर्मसु कौशलं कर्मसु क्रियमाणेष्वयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् । अतिसामर्थ्यसाध्य इत्यर्थः ॥२,५०॥

* कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
* जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२,५१॥

बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्मात्जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्येतत्सर्वासु+उपनिषत्स्वित्यर्थः ॥२,५१॥

* यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
* तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२,५२॥

उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर्यदा मोहकलिलम् अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच्छ्रोतव्यस्य च कृते स्वयमेव निर्वेदं गन्तासि गमिष्यसि ॥२,५२॥

“योगे त्विमां शृणु” इत्यादिना+उक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलं आह

* श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
* समाधावचला बुद्धिस्तदा योगम् अवाप्स्यसि ॥२,५३॥

श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयम् अचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगम् आत्मावलोकनम् अवाप्स्यसि । एतदुक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठाम् आपादयति; ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यम् आत्मावलोकनं साधयति इति ॥२,५३॥

एतदुक्तः पार्थो ऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति

* अर्जुन उवाच
* स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
* स्थितधीः किं प्रभाषते किम् आसीत व्रजेत किम् ॥२,५४॥

समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश्शब्दः ? तस्य स्वरूपं कीदृशम् इत्यर्थः । स्थितप्रज्ञः किं च भाषादिकं करोति ? ॥२,५४॥

वृत्तिविशेषकथनेन स्वरूपम् अप्युक्तं भवति+इति वृत्तिविशेष उच्यते

* श्रीभगवान् उवाच
* प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
* आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदा+उच्यते ॥२,५५॥

आत्मन्येवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान् सर्वान् मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदा+अयं स्थितप्रज्ञ इत्युच्यते । ज्ञाननिष्ठाकाष्ठेयम् ॥२,५५॥

अनन्तरं ज्ञाननिष्ठस्य ततो ऽर्वाचीनादूरविप्रकृष्टावस्था+उच्यते

* दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
* वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२,५६॥

प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति; सुखेषु विगतस्पृहः प्रियेषु सन्निहितेष्वपि विगतस्पृहः, वीतरागभयक्रोधः अनागतेषु स्पृहा रागः, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः; प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः; एवंभूतः मुनिः आत्ममननशीलः स्थितधीरित्युच्यते ॥२,५६॥

ततो ऽर्वाचीनदशा प्रोच्यते

* यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
* नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२,५७॥

यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः; प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सो ऽपि स्थितप्रज्ञः ॥२,५७॥

ततो ऽर्वाचीनदशां आह

* यदा संहरते चायं कूर्मो ऽङ्गानि+इव सर्वशः ।
* इन्द्रियाणि+इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२,५८॥

यदेन्द्रियाणि+इन्द्रियार्थान् स्पृष्टुम् उद्युक्तानि, तदा+एव कूर्मो ऽङ्गानि+इव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्यवस्थापयति, सो ऽपि स्थितप्रज्ञः । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या ॥२,५८॥

इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह

* विषया विनिवर्तन्ते निराहारस्य देहिनः ।
* रसवर्जं रसो ऽप्यस्य परं दृष्ट्वा निवर्तते ॥२,५९॥

इन्द्रियाणां आहारा विषयाः; निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते; रसः रागः । विषयरागो न निवर्तत इत्यर्थः । रागो ऽप्यात्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥२,५९॥

* यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
* इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२,६०॥

आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्य+इन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवम् इन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्रापा ॥२,६०॥

* तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
* वशे हि यस्य+इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२,६१॥

अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानि+इन्द्रियाणि संयम्य, चेतसश्शुभाश्रयभूते मयि मनो ऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथा+उक्तम्, “यथा+अग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥” इति । तदा+आह “वशे हि यस्य+इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता”+इति ॥२,६१॥

एवं मय्यनिवेश्य मनः स्वयत्नगौरवेण+इन्द्रियजये प्रवृत्तो विनष्टो भवति+इत्याह

* ध्यायतो विषयान् पुंसः सङ्गस्तेषु+उपजायते ।
* सङ्गात्संजायते कामः कामात्क्रोधो ऽभिजायते ॥२,६२॥
* क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
* स्मृतिभ्रंशात्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२,६३॥

अनिरस्तविषयानुरागस्य हि मय्यनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानम् अवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनरपि सङ्गो ऽतिप्रवृद्धो जायते । सङ्गात्संजाते कामः । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात्क्रोधो ऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिरस्मदिष्टं विहितम् इति क्रोधो भवति । क्रोधाद्भवति संमोहः । संमोहः कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद्बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धिनाशात्पुनरपि संसारे निमग्नो विनष्टो भवति ॥२,६२॥२,६३॥

* रागद्वेषवियुक्तैस्तु विषयान् इन्द्रियैश्चरन् ।
* आत्मवश्यैर्विधेयात्मा प्रसादम् अधिगच्छति ॥२,६४॥

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश्शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैरात्मवश्यैरिन्द्रियैः विषयांश्चरन् विषयांस्तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादम् अधिगच्छति निर्मलान्तःकरणो भवति+इत्यर्थः ॥२,६४॥

* प्रसादे सर्वदुःखानां हानिरस्य+उपजायते ।
* प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२,६५॥

अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिरुपजायते । प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीमेव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते । अतो मनःप्रसादे सर्वदुःखानां हानिर्भवत्येव ॥२,६५॥

* नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
* न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२,६६॥

मयि सन्न्यस्तमनोरहितस्य स्वयत्नेन+इन्द्रियनियमने प्रवृत्तस्य कदाचिदपि विविक्तात्मविषया बुद्धिर्न सेत्स्यति । अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानम् अभावयतो विषयस्पृहाशान्तिर्न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः ॥२,६६॥

पुनरप्युक्तेन प्रकारेण+इन्द्रियनियमनम् अकुर्वतो ऽनर्थं आह

* इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते ।
* तदस्य हरति प्रज्ञां वायुर्नावम् इवाम्भसि ॥२,६७॥

इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनम् अनु यन् मनो विधीयते पुरुषेणानुवर्त्यते, तन् मनो ऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोति+इत्यर्थः; यथा+अम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥२,६७॥

* तस्मात्यस्य महाबाहो निगृहीतानि सर्वशः ।
* इन्द्रियाणि+इन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२,६८॥

तस्मादुक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्य+इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥२,६८॥

एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिं आह

* या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
* यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥२,६९॥

या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्याम् आत्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानम् अवलोकयन् आस्त इत्यर्थः । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,; सा शब्दादिविषया बुद्धिरात्मानं पश्यतो मुनेर्निशेवाप्रकाशा भवति ॥२,६९॥

* आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत् ।
* तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी ॥२,७०॥

यथा स्वेनैवापूर्यमाणमेकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसाम् अपां प्रवेशे ऽप्यप्रवेशे च समुद्रो न कञ्चन विशेषम् आपद्यते एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिम् आप्नोति । शब्दादिष्विन्द्रियगोचरताम् आपन्नेष्वनापन्नेषु च स्वात्मावलोकनतृप्त्या+एव यो न विकारम् आप्नोति, स एव शान्तिम् आप्नोति+इत्यर्थः । न कामकामी । यः शब्दादिभिर्विक्रियते, स कदाचिदपि न शान्तिम् आप्नोति ॥२,७०॥

* विहाय कामान् यः सर्वान् पुमांश्चरति निस्स्पृहः ।
* निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥२,७१॥

काम्यन्त इति कामाः शब्दादयः । यः पुमान् शब्दादीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममतारहितश्च, अनात्मनि देहे आत्माभिमानरहितश्चरति; स आत्मानं दृष्ट्वा शान्तिम् अधिगच्छति ॥२,७१॥

* एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
* स्थित्वा+अस्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति ॥२,७२॥

एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्याम् अन्तिमे ऽपि वयसि स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति निर्वाणमयं ब्रह्म गच्छति; सुखैकतानम् आत्मानम् अवाप्नोति+इत्यर्थः ॥

एवम् आत्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनताम् अजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान्निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता; तदुक्तम्, “नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये” इति ॥२,७२॥

तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं “य आत्मा+अपहतपाप्मा” इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यम् उक्तम् । प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, “यस्तम् आत्मानम् अनुविद्य विजानाति” इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपम् अशरीरं प्रतिपाद्य, “एवमेवैष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इति दहरविद्याफलेन+उपसंहृतम् । अन्यत्रापि, “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इत्येवम् आदिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेन+इति प्रत्यगात्मज्ञानम् अपि विधाय, “न जायते म्रियते वा विपश्चित” इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, “अणोरणीयान”, इत्यारभ्य, “महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति”, “नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥” इत्यादिभिः परस्वरूपं तदुपासनम् उपासनस्य च भक्तिरूपतां प्रतिपाद्य, “विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सो ऽध्वनः पारम् आप्नोति तद्विष्णोः परमं पदम् ॥” इति परविद्याफलेन+उपसंहृतम् । अतः परम् अध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति

* अर्जुन उवाच
* ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
* तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३,१॥
* व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसि+इव मे ।
* तदेकं वद, निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥३,२॥

यदि कर्मणो बुद्धिरेव ज्यायसी+इति ते मता, किम् अर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतदुक्तं भवति ज्ञाननिष्ठा+एवात्मावलोकनसाधनम्; कर्मनिष्ठा तु तस्याः निष्पादिका; आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्येत्यभिहिता । इन्द्रियव्यापारोपरतिनिष्पाद्यम् आत्मावलोकनं चेत्सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायामेवाहं नियोजयितव्यः । किम् अर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसि+इति ॥ अतो मिश्रवाक्येन मां मोहयसि+इव प्रतिभाति । तथा ह्यात्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनम्, तदेव कुर्विति वाक्यं विरुद्धं व्यामिश्रमेव । तस्मादेकम् अमिश्ररूपं वाक्यं वद, येन वाक्येनाहम् अनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयाम् ॥३,१,२॥

* श्रीभगवान् उवाच
* लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया ऽनघ ।
* ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥३,३॥

पूर्वोक्तं न सम्यगवधृतं त्वया । पुरा ह्यस्मिन् लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारम् असङ्कीर्णा+एव मया+उक्ता । न हि सर्वो लौकिकः पुरुषः संजातमोक्षाभिलाषस्तदानीमेव ज्ञानयोगाधिकारे प्रभवति, अपि त्वनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमलः, अव्याकुलेन्द्रियो ज्ञाननिष्ठायाम् अधिकरोति । “यतः प्रवृत्तिर्भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः” इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते । इहापि, “कर्मण्येवाधिकारस्ते” इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहादुत्तीर्णबुद्धेः “प्रजहाति यदा कामान” इत्यादिना ज्ञानयोग उदितः । अतः साङ्ख्यानामेव ज्ञानयोगेन स्थितिरुक्ता । योगिनां तु कर्मयोगेन । सङ्ख्या बुद्धिः तद्युक्ताः साङ्ख्याः आत्मैकविषयया बुद्ध्या संबन्धिनः साङ्ख्याः; अतदर्हाः कर्मयोगाधिकारिणो योगिनः । विषयव्याकुलबुद्धियुक्तानां कर्मयोगे ऽधिकारः; अव्याकुलबुद्धीनां तु ज्ञानयोगे ऽधिकार उक्त इति न किंचिदिह विरुद्धं व्यामिश्रम् अभिहितम् ॥३,३॥

सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसा+एव ज्ञानयोगो दुष्कर इत्याह

* न कर्मणाम् अनारम्भान्नैष्कर्म्यं पुरुषो ऽश्नुते ।
* न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३,४॥

न शास्त्रीयाणां कर्मणाम् अनारम्भादेव, पुरुषो नैष्कर्म्यं ज्ञाननिष्ठां प्राप्नोति । न चारब्धस्य शास्त्रीयस्य त्यागात्; यतो ऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मणः सिद्धिः सा । अतस्तेन विना तां न प्राप्नोति । अनभिसंहितफलैः कर्मभिरनाराधितगोविन्दैरविनष्टानादिकालप्रवृत्तानन्तपापसञ्चयैरव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा ॥३,४॥

एतदेव+उपपादयति

* न हि कश्चित्क्षणम् अपि जातु तिष्ठत्यकर्मकृत् ।
* कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३,५॥

न ह्यस्मिन् लोके वर्तमानः पुरुषः कश्चित्कदाचिदपि कर्माकुर्वाणस्तिष्ठति; न किंचित्करोमि+इति व्यवसितो ऽपि सर्वः पुरुषः प्रकृतिसंभवैः सत्त्वरजस्तमोभिः प्राचीनकर्मानुगुणं प्रवृद्धैर्गुणैः स्वोचितं कर्म प्रति अवशः कार्यते प्रवर्त्यते । अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश्च सत्त्वादीन् वशे कृत्वा निर्मलान्तःकरणेन संपाद्यो ज्ञानयोगः ॥३,५॥

अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवति+इत्याह

* कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
* इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥३,६॥

अविनष्टपापतया अजितान्तःकरणः आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयान् एव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरति+इति स मिथ्याचार उच्यते । आत्मज्ञानाय+उद्युक्तो विपरीतो विनष्टो भवति+इत्यर्थः ॥३,६॥

* यस्त्विन्द्रियाणि मनसा नियम्यारभते ऽर्जुन ।
* कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते ॥३,७॥

अतः पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्यात्मावलोकनप्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्मप्रवणैरिन्द्रियैरसङ्गपूर्वकं यः कर्मयोगम् आरभते, सो ऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्यते ॥३,७॥

* नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्यकर्मणः ।
* शरीरयात्रा+अपि च ते न प्रसिद्ध्येदकर्मणः ॥३,८॥

नियतं व्याप्तम्; प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस्त्वं नियतत्वेन सुशकत्वादसंभावितप्रमादत्वाच्च कर्मणः, कर्मैव कुरु; अकर्मणः ज्ञाननिष्ठाया अपि कर्मैव ज्यायः । “नैष्कर्म्यं पुरुषो ऽशुनुते” इति प्रक्रमादकर्मशब्देन ज्ञाननिष्ठा+एव+उच्यते । ज्ञाननिष्ठाधिकारिणो ऽप्यनभ्यस्तपूर्वतया ह्यनियतत्वेन दुःशकत्वात्सप्रमादत्वाच्च ज्ञाननिष्ठायाः, कर्मनिष्ठा+एव ज्यायसी; कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वानुसन्धानम् अनन्तरमेव वक्ष्यते । अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात्स एव ज्यायान् इत्यर्थः । कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायाम् अधिकारे सत्येव+उपपद्यते । यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायाम् अधिकारो ऽपि, तर्हि अकर्मणः ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रा+अपि न सेत्स्यति । यावत्साधनसमाप्ति शरीरधारणं चावश्यं कार्यम् । न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, “आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुत्वा स्मृतिः” इत्यादिश्रुतेः । “ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात” इति वक्ष्यते । अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रा+अपि न सेत्स्यति । यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश्च कर्मयोगे ऽप्यात्मनो ऽकर्तृत्वभावनया+आत्मयाथात्म्यानुसन्धानम् अन्तर्भूतम्, यतश्च प्रकृतिसंसृष्टस्य कर्मयोगः सुशको ऽप्रमादश्च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात्कर्मयोगो ज्यायान् । तस्मात्त्वं कर्मयोगमेव कुर्वित्यभिप्रायः ॥३,८॥

एवं तर्हि द्रव्यार्जनादेः कर्मणो ऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यति+इत्यत्राह

* यज्ञार्थात्कर्मणो ऽन्यत्र लोको ऽयं कर्मबन्धनः ।
* तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर ॥३,९॥

यज्ञादिशास्त्रीयकर्मशेषभूताद्द्रव्यार्जनादेः कर्मणो ऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोकः कर्मबन्धनो भवति । अतस्त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्मप्रयोजनसाधनतया यः सङ्गः तस्मात्सङ्गान् मुक्तस्तं समाचर । एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिराराधितः परमपुरुषो ऽस्यानादिकालप्रवृत्तकर्मवासनाम् उच्छिद्य अव्याकुलात्मावलोकनं ददाति+इत्यर्थः ॥३,९॥

यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह

* सह यज्ञैः प्रजाः सृष्ट्वा पुरा+उवाच प्रजापतिः ।
* अनेन प्रसविष्यध्वमेष वो ऽस्त्विष्टकामधुक् ॥३,१०॥

“पतिं विश्वस्य” इत्यादिश्रुतेर्निरुपाधिकः प्रजापतिशब्दः सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणं आह । पुरा सर्गकाले स भगवान् प्रजापतिरनादिकालप्रवृत्ताचित्संसर्गविवशाः उपसंहृतनामरूपविभागाः स्वस्मिन् प्रलीनाः सकलपुरुषार्थानर्हाः चेतनेतरकल्पाः प्रजाः समीक्ष्य परमकारुणिकस्तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञैः सह ताः सृष्ट्वा+एवम् उवाच अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्; एष वो यज्ञः परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥३,१०॥

कथम?

* देवान् भावयतानेन ते देवा भावयन्तु वः ।
* परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥३,११॥

अनेन देवताराधनभूतेन देवान् मच्छरीरभूतान् मदात्मकान् आराधयत । “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति हि वक्ष्यते । यज्ञेनाराधितास्ते देवा मदात्मकाः स्वाराधनापेक्षितान्नपानादिकैर्युष्मान् पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यम् अवाप्स्यथ ॥३,११॥

* इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
* तैर्दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३,१२॥

यज्ञभाविताः यज्ञेनाराधिताः मदात्मका देवाः इष्टान् वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास्तान् पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्यर्थः । स्वाराधनार्थतया तैर्दत्तान् भोगान् तेभ्यो ऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिक्L्प्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणम् । अतो ऽस्य न परमपुरुषार्थानर्हतामात्रम्; अपि तु निरयगामित्वं च भविष्यति+इत्यभिप्रायः ॥३,१२॥

तदेव विवृणोति

* यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्विषैः ।
* ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥३,१३॥

इन्द्राद्यात्मना+अवस्थितपरमपुरुषाराधनार्थतया+एव द्रव्याण्युपादाय विपच्य तैर्यथावस्थितं परमपुरुषम् आराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्वनादिकालोपार्जितैः किल्बिषैः आत्मयाथात्म्यावलोकनविरोधिभिः सर्वैर्मुच्यन्ते । ये तु परमपुरुषेण+इन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्या+उपादाय विपच्याश्नन्ति, ते पापात्मनो ऽघमेव भुञ्जते । अघपरिणामित्वादघम् इत्युच्यते । आत्मावलोकनविमुखाः नरकायैव पचन्ते ॥३,१३॥

पुनरपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यताम् अननुवर्तने दोषं चाह

* अन्नात्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
* यज्ञात्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३,१४॥
* कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
* तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३,१५॥
* एवं प्रवर्तितं चक्रं नानुवर्तयति+इह यः ।
* अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३,१६॥

“अन्नात्सर्वाणि भूतानि भवन्ति पर्जन्याच्चान्नसंभवः” इति सर्वलोकसाक्षिकम् । यज्ञात्पर्जन्यो भवति+इति च शास्त्रेणावगम्यते, “अग्नौ प्रास्ताहुतिः सम्यगादित्यम् उपतिष्ठते । आदित्याज् जायते वृष्टिः” इत्यादिना । यज्ञश्च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भवः, कर्म च ब्रह्मोद्भवम् । अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरम् । “तस्मादेतद्ब्रह्म नाम रूपम् अन्नं च जायते” इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा । इहापि “मम योनिर्महद्ब्रह्म” इति वक्ष्यते । अतः कर्म ब्रह्मोद्भवम् इति प्रकृतिपरिणामरूपशरीरोद्भवं कर्म+इत्युक्तं भवति । ब्रह्माक्षरसमुद्भवम् इत्यत्राक्षरशब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवति+इति कर्मसाधनभूतं शरीरम् अक्षरसमुद्भवम्; तस्मात्सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलम् इत्यर्थः । एवं परमपुरुषेण प्रवर्तितम् इदं चक्रम् अन्नात्भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्यादन्नम्, यज्ञात्पर्जन्यः, यज्ञश्च कर्तृव्यापाररूपात्कर्मणः, कर्म च सजीवाच्छरीरात्, सजीवं शरीरं पुनरप्यन्नातित्यन्योन्यकार्यकारणभावेन चक्रवत्परिवर्तमानं इह साधने वर्तमानो यः कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणम् अकुर्वन् सो ऽघायुर्भवति । अघारम्भायैव यस्यायुः, अघपरिणतं वा, उभयरूपं वा सो ऽघायुः । अत एव+इन्द्रियारामो भवति, नात्मारामः; इन्द्रियाण्येवास्य+उद्यानानि भवन्ति; अयज्ञशिष्टवर्धितदेहमनस्त्वेन+उद्रिक्तरजस्तमस्कः आत्मावलोकनविमुखतया विषयभोगैकरतिर्भवति । अतो ज्ञानयोगादौ यतमानो ऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति ॥३,१४,१५,१६॥

असाधनायत्तात्मदर्शनस्य मुक्तस्य+इव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्याह

* यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
* आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥३,१७॥
* नैव तस्य कृतेनार्थो नाकृतेन+इह कश्चन ।
* न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३,१८॥

यस्तु ज्ञानयोगकर्मयोगसाधननिरपेक्षः स्वत एवात्मरतिः आत्माभिमुखः, आत्मना+एव तृप्तः नान्नपानादिभिरात्मव्यतिरिक्तैः, आत्मन्येव च सन्तुष्टः, न+उद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषणभोग्यादिकं सर्वम् अत्मा+एव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात् । अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थः न किंचित्प्रयोजनम्; अकृतेनात्मदर्शनसाधनेन न कश्चिदनर्थः; असाधनायत्तात्मदर्शनत्वात् । स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणामविशेषेष्वाकाशादिषु सकार्येषु न कश्चित्प्रयोजनतया साधनतया वा व्यपाश्रयः; यतस्तद्विमुखीकरणाय साधनारम्भः; स हि मुक्त एव ॥३,१७,१८॥

* तस्मादसक्तस्सततं कार्यं कर्म समाचर ।
* असक्तो ह्याचरन् कर्म परम् आप्नोति पुरुषः ॥३,१९॥

यस्मादसाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्तिः, यस्माच्च साधने प्रवृत्तस्यापि सुशकत्वाच्च अप्रमादत्वादन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच्च ज्ञानयोगिनो ऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच्च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्मादसङ्गपूर्वकं कार्यम् इत्येव सततं यावदात्मप्राप्ति कर्मैव समाचर । असक्तः, कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन् पुरुषः कर्मयोगेनैव परम् आप्नोति आत्मानं प्राप्नोति+इत्यर्थः ॥३,१९॥

* कर्मणा+एव हि संसिद्धिम् आस्थिता जनकादयः ।

यतो ज्ञानयोगाधिकारिणो ऽपि कर्मयोग एवात्मदर्शने श्रेयान्; अत एव हि जनकादयो राजर्षयो ज्ञानिनाम् अग्रेसराः कर्मयोगेनैव संसिद्धिम् आस्थिताः आत्मानं प्राप्तवन्तः ॥ एवं प्रथमं मुमुक्षोर्ज्ञानयोगानर्हतया कर्मयोगाधिकारिणः कर्मयोग एव कार्य इत्युक्त्वा ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगात्कर्मयोग एव श्रेयान् इति सहेतुकम् उक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्युच्यते

* लोकसंग्रहमेवापि संपश्यन् कर्तुम् अर्हसि ॥३,२०॥
* यद्यदाचरति श्रेष्ठस्तत्तदेव+इतरो जनः ।
* स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३,२१॥

लोकसंग्रहं पश्यन्नपि कर्मैव कर्तुम् अर्हसि । श्रेष्ठः कृत्स्नशास्त्रज्ञातया ऽनुष्ठातृतया च प्रथितो यद्यदाचरति, तत्तदेवाकृत्स्नविज् जनो ऽप्याचरति; अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत्प्रमाणं यदङ्गयुक्तम् अनुतिष्ठति तदङ्गयुक्तमेवाकृत्स्नविल्लोको ऽप्यनुतिष्ठति । अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्; अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत् ॥३,२१॥

* न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
* नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥३,२२॥

न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिदपि कर्तव्यम् अस्ति, यतो ऽनवाप्तं कर्मणा+अवाप्तव्यं न किंचिदप्यस्ति । अथापि लोकरक्षायै कर्मण्येव वर्ते ॥३,२२॥

* यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
* मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३,२३॥
* उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
* संकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥३,२४॥

अहं सर्वेश्वरः सत्यसङ्कल्पः स्वसङ्कल्पकृतजगदुदयविभवलयलीलः छन्दतो जगदुपकृतिमर्त्यो जातो ऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहे ऽवतीर्णस्तत्कुलोचिते कर्मण्यतन्द्रितस्सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर्वर्त्म अकृत्स्नविदः शिष्टाः सर्वप्रकारेणायमेव धर्म इत्यनुवर्तन्ते; ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानम् अलब्ध्वा निरयगामिनो भवेयुः । अहं कुलोचितं कर्म न चेत्कुर्याम्, एवमेव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चयाः अकरणादेव+उत्सीदेयुः नष्टा भवेयुः । शास्त्रीयाचाराननुपालनात्सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्याम् । अत एव+इमाः प्रजाः उपहन्याम् । एवमेव त्वम् अपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजो ऽर्जुनस्सन् यदि ज्ञाननिष्ठायाम् अधिकरोषि; ततस्त्वदाचारानुवर्तिनो ऽकृत्स्नविदः शिष्टा मुमुक्षवः स्वाधिकारम् अजानन्तः कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम् ॥३,२३,२४॥

* सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
* कुर्याद्विद्वांस्तथा+असक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३,२५॥
* न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
* जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥३,२६॥

अविद्वांसः आत्मन्यकृत्स्नविदः, कर्मणि सक्ताः कर्मण्यवर्जनीयसंबन्धाः आत्मन्यकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगे ऽनधिकृताः कर्मयोगाधिकारिणः कर्मयोगमेव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्यसक्तः ज्ञानयोगाधिकारयोग्यो ऽपि व्यपदेश्यः शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षुः कर्मयोगमेव कुर्यात् । अज्ञानाम् आत्मन्यकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनाम् अनादिकर्मवासनया कर्मण्येव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगादन्यदात्मावलोकनसाधनम् अस्ति+इति न बुद्धिभेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तो ऽपि पूर्वोक्तरीत्या, “कर्मयोग एव ज्ञानयोगनिरपेक्षः आत्मावलोकनसाधनम” इति बुद्ध्या युक्तः कर्मैवाचरन्
सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् ॥३,२५,२६॥

कर्मयोगम् अनुतिष्ठतो विदुषो ऽविदुषश्च विशेषं प्रदर्शयन् कर्मयोगापेक्षितम् आत्मनो ऽकर्तृत्वानुसन्धानप्रकारम् उपदिशति

* प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः ।
* अहङ्कारविमूढात्मा कर्ता ऽहम् इति मन्यते ॥३,२७॥
* तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
* गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३,२८॥

प्रकृतेर्गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा, अहं कर्तेति मन्यते; अहङ्कारेण विमूढ आत्मा यस्यासावहङ्कारविमूढात्मा; अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमानः; तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थः । गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास्सत्त्वादयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते ॥३,२७,२८॥

* प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
* तान् अकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥३,२९॥

अकृत्स्नविदः स्वात्मदर्शनाय प्रवृत्ताः प्रकृतिसंसृष्टतया प्रकृतेर्गुणैर्यथावस्थितात्मनि संमूढाः गुणकर्मसु क्रियास्वेव सज्जन्ते, न तद्विविक्तात्मस्वरूपे । अतस्ते ज्ञानयोगाय न प्रभवन्ति+इति कर्मयोग एव तेषाम् अधिकारः । एवंभूतांस्तान् मन्दान् अकृत्स्नविदः कृत्स्नवित्स्वयं ज्ञानयोगावस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठजनाचारानुवर्तिनः कर्मयोगादुत्थितमेनं दृष्ट्वा कर्मयोगात्प्रचलितमनसो भवेयुः । अतः श्रेष्ठः स्वयम् अपि कर्मयोगे तिष्ठन् आत्मयाथात्म्यज्ञानेनात्मनो ऽकर्तृत्वम् अनुसन्धानः, कर्मयोग एवात्मावलोकने निरपेक्षसाधनम् इति दर्शयित्वा तान् अकृत्स्नविदो जोषयेदित्यर्थः । ज्ञानयोगाधिकारिणो ऽपि ज्ञानयोगादस्यैव ज्यायस्त्वं पूर्वमेव+उक्तम् । अतो व्यपदेश्यो लोकसंग्रहायैतमेव कुर्यात् ॥३,२९॥

प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठानप्रकार उक्तः गुणेषु कर्तृत्वानुसन्धानं च+इदमेव आत्मनो न स्वरूपप्रयुक्तम् इदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतम् इति प्राप्ताप्राप्तविवेकेन गुणकृतम् इत्यनुसन्धानम् इदानीम् आत्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वम् आरोप्य कर्मकर्तव्यता+उच्यते

* मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
* निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३,३०॥

मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्यध्यात्मचेतसा संन्यस्य, निराशीर्निर्ममश्च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच्चेतः ततध्यात्मचेतः । आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेन+इत्यर्थः । “अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ॥॥। अन्तः प्रविष्टं कर्तारमेतम” “आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति, स त आत्मा+अन्तर्याम्यमृतः” इत्येवम् आद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतमेनम् आत्मानम्, परमपुरुषं च प्रवर्तयितारम् आचक्षते । स्मृतयश्च “प्रशासितारं सर्वेषाम” इत्याद्याः । “सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानम् अपोहनं च”, “ईश्वरस्सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥” इति वक्ष्यते । अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मया+एव क्रियमाणानि+इति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानि+इति कृत्वा तत्फले निराशीः, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व स्वकीयेनात्मना कर्त्रा स्वकीयैश्च+उपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयमेव स्वकर्माणि कारयति+इत्यनुसन्धाय, कर्मस्ममतारहितः, प्राचीनेनानादिकालप्रवृत्तानन्तपापसञ्चयेन कथं अहं भविष्यामि+इत्येवंभूतान्तर्ज्वरविनिर्मुक्तः, परमपुरुष एव कर्मभिराराधितो बन्धान् मोचयिष्यति+इति सुखेन कर्मयोगमेव कुरुष्वित्यर्थः । “तम् ईश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम”, “पतिं विश्वस्य” , “पतिं पतीनाम” इत्यादिश्रुतिसिद्धिं हि सर्वेश्वरत्वं सर्वशेषित्वं च । ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम् ॥३,३०॥

अयमेव साक्षादुपनिषत्सारभूतो ऽर्थ इत्याह

* ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
* श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥३,३१॥

ये मानवाः शास्त्राधिकारिणः अयमेव शास्त्रार्थ इति एतत्मे मतं निश्चित्य तथा ऽनुतिष्ठन्ति, ये चाननुतिष्ठन्तो ऽप्यस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवति+इति नाभ्यसूयन्ति अस्मिन् महागुणे शास्त्रार्थे दोषम् अनाविष्कुर्वन्तो भवन्ति+इत्यर्थः ते सर्वे बन्धहेतुभिरनादिकालारब्धैस्सर्वैः कर्मभिर्मुच्यन्ते; ते ऽपि इत्यपिशब्दादेषां पृथक्करणम् । इदानीम् अननुतिष्ठन्तो ऽप्यस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश्च श्रद्धया चानसूयया च क्षीणपापाः अचिरेण+इममेव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्यर्थः ॥३,३१॥

भगवदभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयतां च दोषं आह

* ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
* सर्वज्ञानविमूढांस्तान् विद्धि नष्टान् अचेतसः ॥३,३२॥

ये त्वेतत्सर्वम् आत्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यम् इति मे मतं नानुतिष्ठन्ति नैवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि; चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः; तदभावादचेतसः; विपरीतज्ञानाः सर्वत्र विमूढाश्च ॥३,३२॥

एवं प्रकृतिसंसर्गिणस्तद्गुणोद्रेककृतं कर्तृत्वम्, तच्च परमपुरुषायत्तम् इत्यनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वादप्रमादत्वादन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात्सप्रमादत्वात्शरीरधारणाद्यर्थतया कर्मापेक्षत्वात्कर्मयोग एव कर्तव्यः; व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति च+उक्तम् । अतः परम् अध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादता+उच्यते

* सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवान् अपि ।
* प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३,३३॥

प्रकृतिविविक्तम् ईदृशम् आत्मस्वरूपम्, तदेव सर्वदा+अनुसन्धेयम् इति च शास्त्राणि प्रतिपादयन्ति+इति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीनवासनायास्सदृशं प्राकृतविषयेष्वेव चेष्टते; कुतः? प्रकृतिं यान्ति भूतानि अचित्संसृष्टा जन्तवो ऽनादिकालप्रवृत्तवासनामेवानुयान्ति; तानि वासनानुयायीनि भूतानि शास्त्रकृतो निग्रहः किं करिष्यति ॥३,३३॥

प्रकृत्यनुयायित्वप्रकारं आह

* इन्द्रियस्य+इन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
* तयोर्न वशम् आगच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३,३४॥

श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनिततदनुबुभूषारूपो यो रागो ऽवर्जनीयो व्यवस्थितः; तदनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थितः, तावेवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयतः । ततश्चायम् आत्मस्वरूपानुभवविमुखो विनष्टो भवति । ज्ञानयोगारम्भेण रागद्वेषवशम् आगम्य न विनश्येत् । तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू ज्ञानाभ्यासं वारयतः ॥३,३४॥

* श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
* स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३,३५॥

अतः सुशकतया स्वधर्मभूतः कर्मयोगो विगुणो ऽप्यप्रमादगर्भः प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूतात्ज्ञानयोगात्सगुणादपि किंचित्कालम् अनुष्ठितात्सप्रमादाच्छ्रेयान्; स्वेनैव+उपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन् जन्मन्यप्राप्तफलतया निधनम् अपि श्रेयः, अनन्तरायहततया+अनन्तरजन्मन्यपि अव्याकुलकर्मयोगारम्भसंभवात् । प्रकृतिसंसृष्टस्य स्वेनैव+उपादातुम् अशक्यतया परधर्मभूतो ज्ञानयोगः प्रमादगर्भतया भयावहः ॥३,३५॥

* अर्जुन उवाच
* अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।
* अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३,३६॥

अथायं ज्ञानयोगाय प्रवृत्तः पुरुषः स्वयं विषयान् अनुभवितुम् अनिच्छन्नपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान्नियोजित इव चरति ॥३,३६॥

* श्रीभगवान् उवाच
* काम एष क्रोध एष रजोगुणसमुद्भवः ।
* महाशनो महापाप्मा विद्ध्येनं इह वैरिणम् ॥३,३७॥

अस्य+उद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः कामो महाशनः शत्रुः विषयेष्वेनम् आकर्षति । एष एव प्रतिहतगतिः प्रतिहतिहेतुभूतचेतनान् प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति । एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि ॥३,३७॥

* धूमेनाव्रियते वह्निर्यथा+आदर्शो मलेन च ।
* यथा+उल्बेनावृतो गर्भस्तथा तेन+इदम् आवृतम् ॥३,३८॥

यथा धूमेन वह्निराव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भः, तथा तेन कामेन इदं जन्तुजातम् आवृतम् ॥३,३८॥

आवरणप्रकारं आह

* आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
* कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३,३९॥

अस्य जन्तोः ज्ञानिनः ज्ञानस्वभावस्यात्मविषयं ज्ञानमेतेन कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतम्; दुष्पूरेण प्राप्त्यनर्हविषयेण, अनलेन च पर्याप्तिरहितेन ॥३,३९॥

कैरुपकरणैरयं काम आत्मानम् अधिष्ठिति+इत्यत्राह

* इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानम् उच्यते ।
* एतैर्विमोहयत्येष ज्ञानम् आवृत्य देहिनम् ॥३,४०॥

अधितिष्ठत्येभिरयं काम आत्मानम् इति+इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानम्; एतैरिन्द्रियमनोबुद्धिभिः कामो ऽधिष्ठानभूतैर्विषयप्रवणैर्देहिनं प्रकृतिसंसृष्टं ज्ञानम् आवृत्य विमोहयति विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोति+इत्यर्थः ॥३,४०॥

* तस्मात्त्वम् इन्द्रियाण्यादौ नियम्य भरतर्षभ ।
* पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३,४१॥

यस्मात्सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूपः शत्रुः विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात्प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वम् आदौ मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि नाशय ॥३,४१॥

ज्ञानविरोधिषु प्रधानं आह

* इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
* मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३,४२॥

ज्ञानविरोधे प्रधानानि+इन्द्रियाण्याहुः, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः इन्द्रियेषु उपरतेष्वपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति । मनसस्तु परा बुद्धिः मनसि वृत्त्यन्तरविमुखे ऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्वपि+इच्छापर्यायः कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानि+इन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि । तदिदम् उच्यते, यो बुद्धेः परस्तु सः इति । बुद्धेरपि यः परस्स काम इत्यर्थः ॥३,४२॥

* एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
* जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३,४३॥

एवं बुद्धेरपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानं मनः आत्मना बुद्ध्या कर्मयोगे ऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि नाशय+इति ॥३,४३॥

तृतीये ऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगे ऽनधिकारात्कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणो ऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयान् इति सहेतुकम् उक्तम्; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति च+उक्तम् । चतुर्थेन+इदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेव+उपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतया ऽस्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं च+उच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यम् उच्यते ।

* श्रीभगवान् उवाच

* इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
* विवस्वान् मनवे प्राह मनुरीक्षवाकवे ऽब्रवीत् ॥४,१॥
* एवं परम्पराप्राप्तम् इमं राजर्षयो ऽविदुः ।
* स कालेन+इह महता योगो नष्टः परन्तप ॥४,२॥
* स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।
* भक्तो ऽस्ति मे सखा च+इति रहस्यं ह्येतदुत्तमम् ॥४,३॥

यो ऽयं तव+उदितो योगः स केवलं युद्धप्रोत्साहनाय+इदानीम् उदित इति न मन्तव्यम् । मन्वन्तरादावेव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगं अहमेव विवस्वते प्रोक्तवान्, विवस्वांश्च मनवे, मनुरिक्ष्वकवे । इत्येवं संप्रदायपरम्परया प्राप्तम् इमं योगं पूर्वे राजर्षयो ऽविदुः । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्यात्विनष्टप्रायो ऽभूत् । स एवायम् अस्खलितस्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च मामेव प्रपन्नाय ते मया प्रोक्तः सपरिकरस्सविस्तरम् उक्त इत्यर्थः । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितम् उत्तमं रहस्यं ज्ञानम् ॥४,१,२,३॥

अस्मिन् प्रसङ्गे भगवदवतारयाथात्म्यं यथावत्ज्ञातुम् अर्जुन उवाच

* अर्जुन उवाच
* अवरं भवतो जन्म परं जन्म विवस्वतः ।
* कथमेतद्विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥४,४॥

कालसङ्ख्यया अवरम् अस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश्च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् । त्वमेवादौ प्रोक्तवान् इति कथमेतदसंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश्च युज्यत इति नात्र कश्चिद्विरोधः । न चासौ वक्तारमेनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, “परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ आहुस्त्वाम् ऋषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे” इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश्चासकृच्छ्रुतम्, “कृष्ण एव हि लोकानाम् उत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम” इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतम् इदं कृत्स्नं जगदित्यर्थः ॥ अत्र+उच्यते जानात्येवायं भगवन्तं वसुदेवसूनं पार्थः । जानतो ऽप्यजानत इव पृच्छतो ऽयम् आशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किम् इन्द्रजालादिवन् मिथ्या, उत सत्यम? सत्यत्वे च कथं जन्मप्रकारः? किम् आत्मको ऽयं देहः? कश्च जन्महेतुः? कदा च जन्म? किम् अर्थं च जन्म+इति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥४,४॥

* श्रीभगवान् उवाच
* बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
* तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४,५॥

अनेन जन्मनस्सत्यत्वम् उक्तम्, बहूनि मे व्यतीतानि जन्मानि+इति वचनात्, तव च+इति दृष्टान्ततया+उपादानाच्च ॥४,५॥

अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह

* अजो ऽपि सन् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।
* प्रकृतिं स्वाम् अधिष्ठाय संभवाम्यात्ममायया ॥४,६॥

अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारम् अजहदेव स्वां प्रकृतिम् अधिष्ठाय आत्ममायया संभवामि । प्रकृतिः स्वभावः स्वमेव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामि+इत्यर्थः । स्वस्वरूपं हि, “आदित्यवर्णं तमसः परस्तात”, “क्षयन्तम् अस्य रजसः पराके”, “य एषो ऽन्तरादित्ये हिरण्यमयः पुरुषः”, “तस्मिन्नयं पुरुषो मनोमयः; अमृतो हिरण्मयः”, “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” , “भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस्सर्वगन्धस्सर्वरसः”, “माहारजनं वासः” इत्यादिश्रुतिसिद्धम् । आत्ममायया आत्मीयया मायया । “माया वयुनं ज्ञानम” इति ज्ञानपर्यायो ऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः, “मायया सततं वेत्ति प्राणिनां च शुभाशुभम” इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेन+इत्यर्थः । अतो ऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वम् ऐशं स्वभावम् अजहत्स्वमेव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वन् आत्मसङ्कल्पेन देवादिरूपः संभवामि । तदिदं आह, “अजायमानो बहुधा विजायते” इति श्रुतिः । इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेन+उक्तप्रक्रियया जायत इत्यर्थः । “बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि”, “तदा+आत्मानं सृजाम्यहम” “जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः” इति पूर्वापराविरोधाच्च ॥४,६॥

जन्मकालं आह

* यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
* अभ्युत्थानम् अधर्मस्य तदा+आत्मानं सृजाम्यहम् ॥४,७॥

न कालनियमो ऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थया ऽवस्थितस्य कर्तव्ययस्य ग्लानिर्भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानं तदा+अहमेव स्वसङ्कल्पेन+उक्तप्रकारेणात्मानं सृजामि ॥४,७॥

जन्मनः प्रयोजनं आह

* परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
* धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥४,८॥

साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्म् अलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि । कृतत्रेतादियुगविशेषनियमो ऽपि नास्ति+इत्यर्थः ॥४,८॥

* जन्म कर्मं च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
* त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो ऽर्जुन ॥४,९॥

एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादिसमस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, मामेव प्राप्नोति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापः अस्मिन्नेव जन्मनि यथोदितप्रकारेण माम् आश्रित्य मदेकप्रियो मदेकचित्तो मामेव प्राप्नोति ॥४,९॥

तदाह

* वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः ।
* बहवो ज्ञानतपसा पूता मद्भावन् आगताः ॥४,१०॥

मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, “तस्य धीराः परिजानन्ति योनिम” इति । धीराः धीमताम् अग्रेसरा एवं तस्य जन्मप्रकारं जानन्ति+इत्यर्थः ॥४,१०॥

* ये यथा मां प्रपद्यन्ते तांस्तथा+एव भजाम्यहम् ।
* मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४,११॥

न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते; तान् प्रति तथा+एव तन्मनीषितप्रकारेण भजामि मां दर्शयामि । किम् अत्र बहुना, सर्वे मनुष्याः मदनुवर्तनैकमनोरथा मम वर्त्म मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरम् अपि स्वकीयाइश्चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैरनुभूयानुवर्त्न्ते ॥४,११॥

इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वं आह

* काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
* क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४,१२॥

सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रादिदेवतामात्रं यजन्ते आराधयन्ति, न तु कश्चिदनभिसंहितफलः इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत? यतः क्षिप्रस्मिन्नेव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर्भवति । मनुष्यलोकशब्दः स्वर्गादीनाम् अपि प्रदर्शनार्थः । सर्वं एव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रपश्वन्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणि+इन्द्रादिदेवताराधनमात्राणि कुर्वते; न तु कश्चित्संसारोद्विग्नहृदयो मुमुक्षुः उक्तलक्षणं कर्मयोगं मदाराधनभूतम् आरभत इत्यर्थः ॥४,१२॥

यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुं आह

* चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
* तस्य कर्तारम् अपि मां विद्ध्यकर्तारम् अव्ययम् ॥४,१३॥

चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् । सृष्टिग्रहणं प्रदर्शनार्थम् । मया+एव रक्ष्यन्ते, मया+एव च+उपसंह्रियते । तस्य विचित्रसृष्त्यादेः कर्तारम् अप्यकर्तारं मां विद्धि ॥४,१३॥

कथम् इत्यत्राह

* न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
* इति मां यो ऽभिजानाति कर्मभिर्न स बध्यते ॥४,१४॥

यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानि+इत्यर्थः । अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर्नाहं कर्ता; यतश्च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते; सृष्ट्याद्कर्मफले च तेषामेव स्पृहेति ने मे स्पृहा । तथा+आह सूत्रकारः वैषम्यनैर्घृण्ये न सापेक्षत्वातिति । तथा च भगवान् पराशरः “निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ निमित्तमात्रं मुक्त्वेदं नान्यत्किंचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥” इति । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रमेवायं परमपुरुषः; देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव । अतो निमित्तमात्रं मुक्त्वा सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यदपेक्षते; स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः । एवम् उक्तेन प्रकारेण सृष्त्यादेः कर्तारम् अप्यकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो माम् अभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः प्राचीनकर्मभिर्न संबध्यते । मुच्यत इत्यर्थः ॥४,१४॥

* एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
* कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४,१५॥

एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैरपि मुमुक्षुभिरुक्तलक्षणं कर्म कृतम् । तस्मात्त्वम् उक्तप्रकारमद्विषयज्ञानविधूतपापः पूर्वैर्विवस्वन्मन्वादिभिः कृतं पूर्वतरं पुरातनं तदानीमेव मया+उक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥४,१५॥

वक्ष्यमाणस्य कर्मणो दुर्ज्ञानतां आह

* किं कर्म किम् अकर्म+इति कवयो ऽप्यत्र मोहिताः ।
* तत्ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥४,१६॥

मुमुक्षुणा+अनुष्ठेयं कर्म किंरूपम्, अकर्म च किम् । अकर्म+इति कर्तुरात्मनो याथात्म्यज्ञानम् उच्यते; अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपम् इत्युभयत्र कवयः विद्वांसो ऽपि मोहिताः यथावन्न जानन्ति । एवम् अन्तर्गतज्ञानं यत्कर्म, तत्ते प्रवक्ष्यामि, यत्ज्ञात्वा+अनुष्ठाय अशुभात् संसारबन्धात्मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्यनुष्ठानफलम् ॥४,१६॥

कुतो ऽस्य दुर्ज्ञानतेत्याह

* कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
* अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४,१७॥

यस्मात्मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यम् अस्ति; विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति । गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥४,१७॥

विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतया+एकशास्त्रार्थत्वानुसन्धानम् । तदेतत”व्यवसायात्मिका बुद्धिरेका” इत्यत्रैव+उक्तम् इति न+इह प्रपञ्च्यते । कर्माकर्मणोर्बोद्धव्यं आह

* कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
* स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४,१८॥

अकर्मशब्देनात्र कर्मेतरात्प्रस्तुतम् आत्मज्ञानम् उच्यते । कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् । किम् उक्तं भवति? क्रियमाणमेव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच्च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येदित्युक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति । एवम् आत्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः मोक्षायार्हः, स एव कृत्स्नकर्मकृत्कृत्स्नशास्त्रार्थकृत् ॥४,१८॥

प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथम् उपपद्यत इत्यत्राह

* यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
* ज्ञानाग्निदग्धकर्माणं तं आहुः पण्डितं बुधाः ॥४,१९॥

यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः । सङ्कल्पवर्जिताश्च । प्रकृत्या तद्गुणैश्चात्मानमेकीकृत्यानुसन्धानं सङ्कल्पः; प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः । तमेवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणं आहुस्तत्त्वज्ञाः । अतः कर्मणो ज्ञानाकारत्वम् उपपद्यते ॥४,१९॥

एतदेव विवृणोति

* त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
* कर्मण्यभिप्रवृत्तो ऽपि नैव किंचित्करोति सः ॥४,२०॥

कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः नित्ये स्वात्म्न्येव तृप्तः, निराश्रयः अस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्याभिमुख्येन प्रवृत्तो ऽपि नैव किंचित्कर्म करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोति+इत्यर्थः ॥४,२०॥

पुनरपि कर्मणो ज्ञानाकारता+एव विशोध्यते

* निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
* शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४,२१॥

निराशीः निर्गतफलाभिसन्धिः यतचित्तात्मा यतचित्तमनाः त्यक्तसर्वपरिग्रहः आत्मैकप्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरमेव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यति+इत्यर्थः ॥४,२१॥

* यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
* समः सिद्धावसिद्धौ च कृत्वा+अपि न निबध्यते ॥४,२२॥

यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः यावत्साधनसमाप्त्यवर्जनीयशीतऊष्णादिसहः, विमत्सरः अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस्सिद्धावसिद्दौ च युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वा+अपि ज्ञाननिष्ठां विना+अपि न निबध्यते न संसारं प्रतिपद्यते ॥४,२२॥

* गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
* यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥४,२३॥

आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रहविनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते निश्शेषं क्षीयते ॥४,२३॥

प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्; इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वं आह

* ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
* ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥४,२४॥

ब्रह्मार्पणम् इति हविर्विशेष्यते । अर्प्यते ऽनेन+इत्यर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद्ब्रह्म । ब्रह्म यस्य हविषो ऽर्पणं तद्ब्रह्मार्पणम्, ब्रह्म हविः ब्रह्मार्पणं हविः । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतम् इति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयम् इति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यं ब्रह्मात्मकतया ब्रह्मभूतम् आत्मस्वरूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेव+इत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम्; न ज्ञाननिष्ठाव्यधानेन+इत्यर्थः ॥४,२४॥

एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदान् आह

* दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
* ब्रह्माग्नावपरे यज्ञं यज्ञेनैव+उपजुह्वति ॥४,२५॥

दैवं देवार्चनरूपं यज्ञम् अपरे कर्मयोगिनः पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्ति+इत्यर्थः । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैव+उपजुह्वति; अत्र यज्ञशब्दो हविस्स्रुगादियज्ञसाधने वर्तते; “ब्रह्मार्पणं ब्रह्म हविः” इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥४,२५॥

* श्रोत्रादीनि+इन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
* शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥४,२६॥

अन्ये श्रोत्रादीनाम् इन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥४,२६॥

* सर्वाणि+इन्द्रियकर्माणि प्राणकर्माणि चापरे ।
* आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥४,२७॥

अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणि+इन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः ॥४,२७॥

* द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा+अपरे ।
* स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥४,२८॥

केचित्कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्युपादाय देवतार्चने प्रयतन्ते, केचिच्च दानेषु, केचिच्च यागेषु, केचिच्च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित्तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश्चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात्तद्विषयः । केचित्स्वाध्यायाभ्यासपराः । केचित्तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः ॥४,२८॥

* अपाने जुह्वति प्राणं प्राणे ऽपानं तथा+अपरे ।
* प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥४,२९॥
* अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।

अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधाः पूरकरेचककुम्भकभेदेन; अपाने जुह्वति प्राणम् इति पूरकः, प्राणे ऽपानम् इति रेचकः, प्राणापानगती रुद्ध्वा ॥॥। प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणायामपरेषु त्रिष्वप्यनुषज्यते नियताहारा इति ॥

* सर्वे ऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥४,३०॥
* यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे “सह यज्ञैः प्रजाः सृष्ट्वा” इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदः तन्निष्ठाः तत एव क्षपितकल्मषाः यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति ॥

* नायं लोको ऽस्त्ययज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥४,३१॥

अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति । कुत इतो ऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात्तदितरपुरुषार्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥४,३१॥

* एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
* कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥४,३२॥

एवं हि बहुप्रकाराः कर्मयोगाः ब्रह्मणो मुखे वितताः आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः; तान् उक्तलक्षणान् उक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥४,३२॥

अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्; तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यं आह

* श्रेयान् द्रव्यमयात्यज्ञात्ज्ञानयज्ञः परन्तप ।
* सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥४,३३॥

उभयाकारे कर्मणि द्रव्यमयादंशात्ज्ञानमयांशः श्रेयान्; सर्वस्य कर्मणः तदितरस्य चाखिलस्य+उपादेयस्य ज्ञाने परिसमाप्तेः तदेव सर्वैस्साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तदेव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥४,३३॥

* तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
* उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥४,३४॥

ततात्मविषयं ज्ञानं “अविनाशि तु तद्विद्धि” इत्यारभ्य “एषा ते ऽभिहिता” इत्यन्तेन मया+उपदिष्टम्, “तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर्विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास्तु ज्ञानिनः प्रणिपातादिभ्यस्सेविताः ज्ञानबुभुत्सया परितः पृच्छतस्तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति ॥४,३४॥

आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणं आह

* यज् ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
* येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥४,३५॥

यत्ज्ञानं ज्ञात्वा पुनरेवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्येव द्रक्ष्यसि, यतस्तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् । प्रकृतिसंसर्गदोषविनिर्मुक्तम् आत्मरूपं सर्वं समम् इति च वक्ष्यते, “निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः” इति । अथो मयि सर्वभूतान्यशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात्परिशुद्धस्य सर्वस्यात्मवस्तुनः । “इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः” इति हि वक्ष्यते । तथा, “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति” इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यम् अवगम्यते । अतः प्रकृतिविनिर्मुक्तं सर्वम् आत्मवस्तु परस्परं समं सर्वेश्वरेण च समम् ॥४,३५॥

* अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
* सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥४,३६॥

यद्यपि सर्वेभ्यः पापेभ्यः पापकृत्तमो ऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रम् आत्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥४,३६॥

* यथा+एधांसि समिद्धो ऽग्निर्भस्मसात्कुरुते ऽर्जुन ।
* ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥४,३७॥

सम्यक्प्रवृद्धो ऽग्निरिन्धनसञ्चयम् इव, आत्मयाथात्म्यज्ञानरूपो ऽग्निर्जीवात्मगतम् अनादिकालप्रवृत्तानन्तकर्मसञ्चयं भस्मीकरोति ॥४,३७॥

* न हि ज्ञानेन सदृशं पवित्रं इह विद्यते ।
* तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥४,३८॥

यस्मादात्मज्ञानेन सदृशं पवित्रं शुद्धिकरं इह जगति वस्त्वन्तरं न विद्यते, तस्मादात्मज्ञानं सर्वपापं नाशयति+इत्यर्थः । तत्तथाविधं ज्ञानं यथोपदेशं अहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयमेव लभते ॥४,३८॥

तदेव विस्पष्टं आह

* श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
* ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥४,३९॥

एवम् उपदेशात्ज्ञानं लब्ध्वा च+उपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्परः तत्रैव नियतमनाः तदितरविषयात्संयतेन्द्रियो ऽचिरेण कालेन+उक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति परं निर्वाणम् आप्नोति ॥४,३९॥

* अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
* नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥४,४०॥

अज्ञः एवम् उपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमनाः विनश्यति विनष्टो भवति । अस्मिन्नुपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनो ऽयम् अपि प्राकृतो लोको नास्ति, न च परः । धर्मार्थकामरूपपुरुषार्थाश्च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः; शास्त्रीयकर्मसिद्धिरूपत्वात्सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश्च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अतः सुखलवभागित्वम् आत्मनि संशयात्मनो न संभवति ॥४,४०॥

* योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
* आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४,४१॥

यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥४,४१॥

* तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिना+आत्मनः ।
* छित्त्वा+एनं संशयं योगम् आतिष्ठ+उत्तिष्ठ भारत ॥४,४२॥

तस्मादनाद्यज्ञानसंभूतं हृत्स्थम् आत्मविषयं संशयं मया+उपदिष्टेनात्मज्ञानासिना छित्त्वा मया+उपदिष्टं कर्मयोगम् आतिष्ठ; तदर्थम् उत्तिष्ठ भारत+इति ॥४,४२॥

चतुर्थे ऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यम् उक्तम्; ज्ञानयोगाधिकारिणो ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वातप्रमादत्वात्सुकरत्वात्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एव+उक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं कर्मयोगान्तर्गताकर्ट्र्त्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥

* अर्जुन उवाच

* संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
* यच्छ्रेय एतयोरेकं तन् मे ब्रूहि सुनिश्चितम् ॥५,१॥

कर्मणां संन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि । एतदुक्तं भवति द्वितीये ऽध्याये मुमुक्षोः प्रथमं कर्मयोग एव कार्यः, कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यम् इति प्रतिपाद्य पुनस्तृतीयचतुर्थयोः ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठा+एव ज्यायसी, सा+एव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनम् इति कर्मनिष्ठां प्रशंशसि इति । तत्रैतयोर्ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावे यदेकं सौकार्यच्छैघ्र्याच्च श्रेयः श्रेष्ठम् इति सुनिश्चितम्, तन् मे ब्रूहि ॥५,१॥

* श्रीभगवान् उवाच

* संन्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।
* तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५,२॥

संन्यासः ज्ञानयोगः, कर्मयोगश्च ज्ञानयोगशक्तस्याप्युभौ निरपेक्षौ निश्श्रेयसकरौ । तयोस्तु कर्मसंन्यासात्ज्ञानयोगात्कर्मयोग एव विशिष्यते ॥५,२॥

कुत इत्यत्राह

* ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
* निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५,३॥

यः कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस्तद्व्यतिरिक्तं किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्वसहश्च; स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः । स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात्प्रमुच्यते ॥५,३॥

ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावे ऽन्योन्यनैरपेक्ष्यं आह

* सांख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः ।
* एकम् अप्यास्थितस्सम्यग् उभयोर्विन्दन्ते फलम् ॥५,४॥

ज्ञानयोगकर्मयोगौ फलभेदात्पृथग् भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्नज्ञानाः न पण्डिताः अकृत्स्नविदः । कर्मयोगो ज्ञानयोगमेव साधयति; ज्ञानयोगस्त्वेक आत्मावलोकनं साधयति+इति तयोः फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थः । उभयोरात्मावलोकनैकफलयोरेकफलत्वेन एकम् अप्यास्थितस्तदेव फलं लभते ॥५,४॥

एतदेव विवृणोति

* यत्सांख्यैः प्राप्यते स्थानं तत्योगैरपि गम्यते ।
* एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५,५॥

सांख्यैः ज्ञाननिष्ठैः । यतात्मावलोकनरूपं फलं प्राप्यते, तदेव कर्मयोगनिष्ठैरपि प्राप्यते । एवमेकफलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्यर्थः ॥५,५॥

इयान् विशेष इत्याहा

* संन्यासस्तु महाबाहो दुःखम् आप्तुम् अयोगतः ।
* योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥५,६॥

संन्यासः ज्ञानयोगस्तु अयोगतः कर्मयोगातृते प्राप्तुम् अशक्यः; योगयुक्तः कर्मयोगयुक्तः स्वयमेव मुनिः आत्ममननशीलः सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति । ज्ञानयोगयुक्तस्तु महता दुःखेन ज्ञानयोगं साधयति; दुःखसाध्यत्वादात्मानं चिरेण प्राप्नोति+इत्यर्थः ॥५,६॥

* योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
* सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५,७॥

कर्मयोगयुक्तस्तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्धमनाः विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमनाः , तत एव जितेन्दियः कर्तुरात्मनो याथात्म्यानुसन्धाननिष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानाम् आत्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा । आत्मयाथात्म्यम् अनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा; देवादिभेदानां प्रकृतिपरिणामविशेषरूपतया+आत्माकारत्वासंभवात् । प्रकृतिवियुक्तः सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति “निर्दोषं हि समं ब्रह्म” इति अनन्तरमेव वक्ष्यते । स एवंभूतः कर्म कुर्वन्नपि अनात्मन्यात्माभिमानेन न लिप्यते न संबध्यते । अतो ऽचिरेणात्मानं प्राप्नोति+इत्यर्थः ॥५,७॥

यतः सौकर्याच्छैघ्र्याच्च कर्मयोग एव श्रेयान्, अतस्तदपेक्षितं शृणु

* नैष किञ्चित्करोमि+इति युक्तो मन्येत तत्त्ववित् ।
* पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥५,८॥
* प्रलपन् विसृजन् गृह्णन् उन्मिषन्निमिषन्नपि ।
* इन्द्रियाणि+इन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५,९॥

एवम् आत्मतत्त्ववित्श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश्च स्वविषयेषु वर्तन्त इति धारयन् अनुसन्धानः नाहं किंचित्करोमि+इति मन्येत ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतम् ईदृशं कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति मन्येत+इत्यर्थः ॥५,८,९॥

* ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
* लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा ॥५,१०॥

ब्रह्मशब्देन प्रकृतिरिह+उच्यते । “मम योनिर्महद्ब्रह्म” इति हि वक्ष्यते । इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ “पश्यञ् छृण्वन” इत्याद्युक्तप्रकारेण कर्माण्याधाय, फलसङ्गं त्यक्त्वा, नैव किंचित्करोमि+इति यः कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानो ऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते । पद्मपत्रम् इवाम्भसा यथा पद्मपत्रम् अम्भसा संसृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्यर्थः ॥५,१०॥

* कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
* योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वा+आत्मशुद्धये ॥५,११॥

कायमनोबुद्धिइन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति; आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्ति+इत्यर्थः ॥५,११॥

* युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
* अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५,१२॥

युक्तः आत्मव्यतिरिक्तफलेष्वचपलः आत्मैकप्रवणः, कर्मफलं त्यक्त्वा केवलम् आत्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिम् आप्नोति स्थिराम् आत्मानुभवरूपां निर्वृतिम् आप्नोति । अयुक्तः आत्मव्यतिरिक्तफलेषु चपलः आत्मावलोकनविमुखः कामकारेण फले सक्तः कर्माणि कुर्वन्नित्यं कर्मभिर्बध्यते नित्यसंसारी भवति । अतः फलसङ्गरहितः इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीत+इत्युक्तं भवति ॥५,१२॥

अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते

* सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
* नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५,१३॥

आत्मनः प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तम् इदं कर्मणां कर्तृत्वम्; न स्वरूपप्रयुक्तम् इति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नम् अकुर्वन् देहं च नैव कारयन् सुखम् आस्ते ॥५,१३॥

साक्षादात्मनः स्वाभाविकं रूपं आह

* न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
* न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५,१४॥

अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभुः अकर्मवश्यः स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति न+उत्पादयति । कस्तर्हि? स्वभावस्तु प्रवर्तते । स्वभावः प्रकृतिवासना । अनादिकालप्रवृत्तपूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृतिसंसर्गकृततत्तदात्माभिमानजनितवासनाकृतम् ईदृशं कर्तृत्वादिकं सर्वम्; न स्वरूपप्रयुक्तम् इत्यर्थः ॥५,१४॥

* नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
* अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५,१५॥

कस्यचित्स्वसंबन्धितया+अभिमतस्य पुत्रादेः पापं दुःखं नादत्ते नापनुदति । कस्यचित्प्रतिकूलतया+अभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतो ऽयं विभुः; न क्वाचित्कः, न देवादिदेहाद्यसाधारणदेशः, अत एव न कस्यचित्संबन्धी, न कस्यचित्प्रतिकूलश्च । सर्वम् इदं वासनाकृतम् । एवंस्वभावस्य कथम् इयं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानं ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानम् आवृतं संकुचितम् । तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस्तत्तदात्माभिमानरूपमोहश्च जायते । ततश्च तथाविधात्माभिमानवासना, तदुचितकर्मवासना च; वासनातो विपरीतात्माभिमानः, कर्मारम्भश्च+उपपद्यते ॥५,१५॥

“सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति ।”, “ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा”, “न हि ज्ञानेन सदृशं पवित्रम” इति पूर्वोक्तं स्वकाले संगमयति

* ज्ञानेन तु तदज्ञानं येषां नाशितम् आत्मनः ।
* तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥५,१६॥

एवं वर्तमानेषु सर्वेष्वात्मसु येषाम् आत्मनाम् उक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तत् ज्ञानावरणम् अनादिकालप्रवृत्तानन्तकर्मसंचयरूपम् अज्ञानं नाशितम्, तेषां तत्स्वाभाविकं परं ज्ञानम् अपरिमितम् असंकुचितम् आदित्यवत्सर्वं यथावस्थितं प्रकाशयति । तेषाम् इति विनष्टाज्ञानानां बहुत्वाभिमानादात्मस्वरूपबहुत्वम्, “न त्वेवाहं जातु नासम” इत्युपक्रमावगतम् अत्र स्पष्टतरम् उक्तम् । न च+इदं बहुत्वम् उपाधिकृतम्; विनष्टाज्ञानानाम् उपाधिगन्धाभावात् । “तेषाम् आदित्यवज् ज्ञानम” इति व्यतिरेकनिर्देशात्ज्ञानस्य स्वरूपानुबन्धिधर्मत्वम् उक्तम् । आदित्यदृष्टान्तेन च ज्ञातृज्ञानयोः प्रभाप्रभावतोरिवावस्थानं च । तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश्च+उपपन्नः ॥५,१६॥

* तद्बुद्धयस्तदात्मनस्तन्निष्ठास्तत्परायणाः ।
* गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५,१७॥

तद्बुद्धयः तथाविधात्मदर्शनाध्यवसायाः, तदात्मानः तद्विषयमनसः, तन्निष्ठाः तदभ्यासनिरताः, तत्परायणाः तदेव परमप्रयोजनम् इति मन्वानाः, एवम् अभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषाः तथाविधम् आत्मनम् अपुनरावृत्तिं गच्छन्ति । यदवस्थादात्मनः पुनरावृत्तिर्न विद्यते, स आत्मा अपुनरावृत्तिः । स्वेन रूपेणावस्थितम् आत्मानं गच्छन्ति+इत्यर्थः ॥५,१७॥

* विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
* शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५,१८॥

विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्मयाथात्म्यविदः, ज्ञानैकाकारतया सर्वत्र समदर्शिनः विषमाकारस्तु प्रकृतेः, नात्मनः; आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्ति+इत्यर्थः ॥५,१८॥

* इहैव तैर्जितस्स्वर्गो येषां साम्ये स्थितं मनः ।
* निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५,१९॥

इहैव साधनानुष्ठानदशायामेव तैः सर्गो जितः संसारो जितः; येषाम् उक्तरीत्या सर्वेष्वात्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृतिसंसर्गदोषवियुक्ततया समम् आत्मवस्तु हि ब्रम्ह । आत्मसाम्ये स्थिताश्चेत्ब्रह्मणि स्थिता एव ते; ब्रह्मणि स्थितिरेव हि संसारजयः । आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्धाना मुक्ता एव+इत्यर्थः ॥५,१९॥

येन प्रकारेणावथितस्य कर्मयोगिनः समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारम् उपदिशति

* न प्रहृष्येत्प्रियं प्राप्य न+उद्विजेत्प्राप्य चाप्रियम् ।
* स्थिरबुद्धिरसंमूढो ब्रह्मवित्ब्रह्मणि स्थितः ॥५,२०॥

यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत्प्रियं भवति, यच्चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम? स्थिरबुद्धिः स्थिरे आत्मनि बुद्धिर्यस्य सः स्थिरबुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरम् आत्मानमेकीकृत्य मोहः संमोहः; तद्रहितः । तच्च कथम? ब्रह्मवित्ब्रह्मणि स्थितः । उपदेशेन ब्रह्मवित्सन् तस्मिन् ब्रह्मण्यभ्यासयुक्तः । एतदुक्तं भवति तत्त्वविदाम् उपदेशेन आत्मयाथात्म्यविद्भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थितः अस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्यातिति ॥५,२०॥

* बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम् ।
* स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥५,२१॥

एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमनाः अन्तरात्मन्येव यः सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा ब्रह्माभ्यासयुक्तमनाः ब्रह्मानुभवरूपम् अक्षयं सुखं प्राप्नोति ॥५,२१॥

प्राकृतस्य भोगस्य सुत्यजतां आह

* ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
* आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५,२२॥

विषयेन्द्रियस्पर्शजाः ये भोगाः दुःखयोनयस्ते दुःखोदर्काः । आद्यन्तवन्तः अल्पकालवर्तिनो हि उपलभ्यन्ते । न तेषु तद्याथात्म्यवित्रमते ॥५,२२॥

* शक्नोति+इहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
* कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५,२३॥

शरीरविमोक्षणात्प्राक् इह+एव साधनानुष्ठानदशायमेव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मानुभवायार्हः । स एव शरीरविमोक्षोत्तरकालम् आत्मानुभवैकसुखस्संपत्स्यते ॥५,२३॥

* यो ऽन्तस्सुखो ऽन्तरारामस्तथा+अन्तर्ज्योतिरेव यः ।
* स योगी ब्रह्म निर्वाणं ब्रह्मभूतो ऽधिगच्छति ॥५,२४॥

यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुखः आत्मानुभवैकसुखः, अन्तरारामः आत्मैकोद्यानः स्वगुणैरात्मा+एव सुखवर्धको यस्य स तथोक्तः, तथा+अन्तर्ज्योतिः आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणम् आत्मानुभवसुखं प्राप्नोति ॥५,२४॥

* लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः ।
* छिन्नद्वैधा यतात्मानस्सर्वभूतहिते रताः ॥५,२५॥

च्छिन्नद्वैधाः शीतोष्णादिद्वन्द्वैर्विमुक्ताः, यतात्मानः आत्मन्येव नियमितमनसः, सर्वभूतहिते रताः आत्मवत्सर्वेषां भूतानां हितेष्वेव निरताः, ऋषयः द्रष्टारः आत्मावलोकनपराः, य एवम्भूतास्ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषाः ब्रह्मनिर्वाणं लभन्ते ॥५,२५॥

उक्तलक्षणानां ब्रह्म अत्यन्तसुलभम् इत्याह

* कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
* अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥५,२६॥

कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणम् अभितो वर्तते । एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणम् इत्यर्थः ॥५,२६॥

उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कम् उपसंहरति

* स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
* प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५,२७॥
* यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
* विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५,२८॥

बाह्यान् विषयस्पर्शान् बहिः कृत्वा बाह्येन्द्रियव्यापारं सर्वम् उपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोरन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनादन्यत्र प्रवृत्त्यनर्हेन्द्रियमनोबुद्धिः, तत एव विगतेच्छाभयक्रोधः, मोक्षपरायणः मोक्षैकप्रयोजनः, मुनिः आत्मावलोकनशीलः यः, सः सदा मुक्त एव साध्यदशायाम् इव साधनदशायाम् अपि मुक्त एव+इत्यर्थः ॥५,२७,२८॥

उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकतां आह

* भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
* सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥५,२९॥

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति, कर्मयोगकरण एव सुखम् ऋच्छति । सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणाम् अपि+ईश्वरम्; “तम् ईश्वराणां परमं महेश्वरम” इति हि श्रूयते । मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थः; सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥५,२९॥

* श्रीभगवान् उवाच

* अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
* स संन्यसी च योगी च न निरग्निर्न चाक्रियः ॥६,१॥

उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिरुच्यते । तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्को ऽनूद्यते । कर्मफलं स्वर्गादिकम् अनाश्रितः, कार्यं कर्मानुष्ठानमेव कार्यम्, सर्वात्मना+अस्मत्सुहृद्भूतपरमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचितिति यः कर्म करोति; स संन्यासी च ज्ञानयोगनिष्ठश्च; योगी च कर्मयोगनिष्ठश्च; आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः । न निरग्निर्न चाक्रियः न च+उदितयज्ञादिकर्मस्वप्रवृत्तः, न च केवलज्ञाननिष्ठः । तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तु+उभयम् अस्ति+इत्यभिप्रायः ॥६,१॥

उक्तलक्षणकर्मयोगे ज्ञानम् अप्यस्ति+इत्याह

* यं संन्यास इति प्राहुर्योगं तं विद्धि पाण्डव ।
* न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥६,२॥

यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानम् इति प्राहुः, तं कर्मयोगमेव विद्धि । तदुपपादयति न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पः; अनेवंभूतः असंन्यस्तसङ्कल्पः । न ह्युक्तेषु कर्मयोगिष्वनेवंभूतः कश्चन कर्मयोगी भवति; “यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः” इति ह्युक्तम् ॥६,२॥

कर्मयोग एवाप्रमादेन योगं साधयति+इत्याह

* आरुरुक्षोर्मुनेर्योगं कर्म कारणम् उच्यते ।
* योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥६,३॥

योगम् आत्मावलोकनं प्राप्तुम् इच्छोर्मुमुक्षोः कर्मयोग एव कारणम् उच्यते । तस्यैव योगारूढस्य प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणम् उच्यते । यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यम् इत्यर्थः ॥६,३॥

कदा प्रतिष्ठितयोगो भवति+इत्यत्राह

* यदा हि न+इन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
* सर्वसङ्कल्पसंन्यासी योगारूढस्तदा+उच्यते ॥६,४॥

यदा+अयं योगी त्वात्मैकानुभवस्वभावतया इन्द्रियार्थेषु आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गम् अर्हति, तदा हि सर्वसङ्कल्पसम्न्यासी योगारूढ इत्युच्यते । तस्मादारुरुक्षोर्विषयानुभवार्हतया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्तिकारणम् । अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगमेव आरुरुक्षुः कुर्यात् ॥६,४॥

तदेवाह

* उद्धरेदात्मना+आत्मानं नात्मानम् अवसादयेत् ।
* आत्मा+एव ह्यात्मनो बन्धुरात्मा+एव रिपुरात्मनः ॥६,५॥

आत्मना मनसा; विषयाननुषक्तेन आत्मानम् उद्धरेत् । तद्विपरीतेन मनसा आत्मानं नावसादयेत् । आत्मा+एव मन एव ह्यात्मनो बन्धुः; तदेवात्मनो रिपुः ॥६,५॥

* बन्धुरात्मा+आत्मनस्तस्य येनात्मा+एवात्मना जितः ।
* अनात्मनस्तु शत्रुत्वे वर्तेतात्मा+एव शत्रुवत् ॥६,६॥

येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस्तस्य बन्धुः । अनात्मनः अजितमनसः स्वकीयमेव मनः स्वस्य शत्रुवत्शत्रुत्वे वर्तेत स्वनिश्श्रेयसविपरीते वर्तेत+इत्यर्थः । यथा+उक्तं भगवता पराशरेणापि, “मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्या+एव निर्विषयं मनः ॥” इति ॥६,६॥

योगारम्भयोग्या अवस्था+उच्यते

* जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
* शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥६,७॥

शीतोष्णसुखदुःखेषु मानावमानयोश्च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः । स्वरूपेणावस्थितः प्रत्यगात्मा+अत्र परमात्मेत्युच्यते; तस्यैव प्रकृतत्वात् । तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् । आत्मा परं समाहित इति वा+अन्वयः ॥६,७॥

* ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
* युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६,८॥

ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्वनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, समलोष्टाश्मकाञ्चनः प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावात्लोष्टाश्मकाञ्चनेषु समप्रयोजनः यः कर्मयोगी, स युक्त इत्युच्यते आत्मावलोकनरूपयोगाभ्यासार्ह इत्युच्यते ॥६,८॥

तथा च

* सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
* साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६,९॥

वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः; सवयसो हितैषिणो मित्राणि, अरयो निमित्ततो ऽनर्थेच्छवः; उभयहेत्वभावातुभयरहिता उदासीनाः; जन्मत एव+उभयरहिता मध्यस्थाः; जन्मत एवानिच्छाइच्छवो द्वेष्याः; जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः; पापाः पापशीलाः; आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावात्विरोधाभावाच्च तेषु
समबुद्धिर्योगाभ्यासार्हत्वे विशिष्यते ॥६,९॥

* योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।
* एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६,१०॥

योगी उक्तप्रकारकर्मयोगनिष्ठः, सततं अहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्वदर्शननिष्ठं कुर्वीत+इत्यर्थः; रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिदपि ममतारहितः ॥६,१०॥

* शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
* नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥६,११॥
* तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
* उपविश्यासने युञ्ज्यात्योगम् आत्मविशुद्धये ॥६,१२॥

शुचौ देशे अशुचिभिः पुरुषैरनधिष्ठिते अपरिगृहीते च अशुचिभिर्वस्तुभिरस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं आसनं प्रतिष्ठाप्य तस्मिन् मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मना+उपसंहृतचित्तेन्द्रियक्रियः आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्यातात्मावलोकनं कुर्वीत ॥६,११,१२॥

* समं कायशिरोग्रीवं धारयन् अचलं स्थिरम् ।
* संप्रेक्ष्य नासिकाग्रं स्वं देशश्चानवलोकयन् ॥६,१३॥
* प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।
* मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६,१४॥

कायशिरोग्रीवं समम् अचलं सापाश्रयतया स्थिरं धारयन्, दिशश्चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर्ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत मामेव चिन्त्यन् आसीत ॥६,१३,१४॥

* युञ्जन्नेवं सदा+आत्मानं योगी नियतमानसः ।
* शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥६,१५॥

एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसश्शुभाश्रये सदा आत्मानं मनः युञ्जन्नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, मामेव चिन्तयन् मत्संस्थां निर्वाणपरमां शान्तिम् अधिगच्छति निर्वाणकाष्ठारूपां मत्संस्थां मयि संस्थितां शान्तिम् अधिगच्छति ॥६,१५॥

एवम् आत्मयोगम् आरभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिम् अभिधाय अन्यदपि योगोपकरणं आह

* नात्यश्नतस्तु योगो ऽस्ति न चैकान्तम् अनश्नतः ।
* न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६,१६॥
* युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
* युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६,१७॥

अत्यशनानशने योगविरोधिनी; अतिविहाराविहारौ च तथा+अतिमात्रस्वप्नजागर्ये; तथा चात्यायासानायासौ । मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति ॥६,१६,१७॥

* यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते ।
* निस्स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६,१८॥

यदा प्रयोजनविषयं चित्तम् आत्मन्येव विनियतं विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलम् अवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस्सन् युक्त इत्युच्यते योगार्ह इत्युच्यते ॥६,१८॥

* यथा दीपो निवातस्थो न+इङ्गते सा+उपमा स्मृता ।
* योगिनो यतचित्तस्य युञ्जतो योगम् आत्मनः ॥६,१९॥

निवातस्थो दीपो यथा न+इङ्गते न चलति; अचलस्सप्रभस्तिष्ठति; यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सोपमा; निवातस्थतया निश्चलसप्रभदीपवत्निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठै+इत्यर्थः ॥६,१९॥

* यत्र+उपरमते चित्तं निरुद्धं योगसेवया ।
* यत्र चैवात्मना+आत्मानं पश्यन् आत्मनि तुष्यति ॥६,२०॥
* सुखम् आत्यन्तिकं यत्तत्बुद्धिग्राह्यम् अतीन्द्रियम् ।
* वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६,२१॥
* यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
* यस्मिन् स्थितो न दुःखेन गुरुणा+अपि विचाल्यते ॥६,२२॥
* तं विद्यात्दुःखसंयोगवियोगं योगसंज्ञितम् ।
* स निश्चयेन योक्तव्यो योगो ऽनिर्विण्णचेतसा ॥६,२३॥

योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखम् इदम् इति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्यनिरपेक्षम् आत्मन्येव तुष्यति, यत्तदतीन्द्रियम् आत्मबुद्ध्येकग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतः तद्भावात्न चलति, यं योगं लब्ध्वा योगाद्विरतस्तमेव काङ्क्षमाणो नापरं लाभं ततो ऽधिकं मन्यते, यस्मिंश्च योगे स्थितो विरतो ऽपि गुणवत्पुत्रवियोगादिना गुरुणा+अपि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् । स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः ॥६,२०,२१,२२,२३॥

* सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वान् अशेषतः ।
* मनसा+एव+इन्द्रियग्रामं विनियम्य समन्ततः ॥६,२४॥
* शनैश्शनैरुपरमेत्बुद्ध्या धृतिगृहीतया ।
* आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६,२५॥

स्पर्शजाः सङ्कल्पजाश्च+इति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः । तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः । तान् सर्वान् मनसा+एव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्ववर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद्विषयात्सर्वम् इन्द्रियग्रामं विनियम्य शनैश्शनैर्धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्मादात्मव्यतिरिक्तादुपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥६,२४,२५॥

* यतो यतो निश्चरति मनश्चञ्चलम् अस्थिरम् ।
* ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६,२६॥

चलस्वभावतया+आत्मन्यस्थिरं मनः यतो यतो विषयप्रावण्यहेतोः बहिः निश्चरति, ततस्ततो यत्नेन मनो नियम्य आत्मन्येव अतिशयितसुखभावनया वशं नयेत् ॥६,२६॥

* प्रशान्तमनसं ह्येनं योगिनं सुखम् उत्तमम् ।
* उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥६,२७॥

प्रशान्तमनसम् आत्मनि निश्चलमनसम्, आत्मन्यस्तमनसं ततेव हेतोर्दग्धाशेषकल्मषम्, तत एव शान्तरजसं विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितमेनं योगिनम् आत्मस्वरूपानुभवरूपम् उत्तमं सुखम् उपैति । हि+इति हेतौ; उत्तमसुखरूपत्वादात्मस्वरूपस्य+इत्यर्थः ॥६,२७॥

* एवं युञ्जन् सदा+आत्मानं योगी विगतकल्मषः ।
* सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥६,२८॥

एवम् उक्तप्रकारेणात्मानं युञ्जन् तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखम् अत्यन्तम् अपरिमितं सुखेन अनायासेन सदा+अशुनुते ॥६,२८॥

अथ योगविपाकदशा चतुष्प्रकारा+उच्यते

* सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।
* ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६,२९॥

स्वात्मनः परेषां च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्यात्वैषम्यस्य च प्रकृतिगतत्वात्योगयुक्तात्मा प्रकृतिवियुक्तेष्वात्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनि+ईक्षते सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यति+इत्यर्थः । एकस्मिन् आत्मनि दृष्टे सर्वस्यात्मवस्तुनस्तत्साम्यात्सर्वम् आत्मवस्तु दृष्टं भवति+इत्यर्थः । “सर्वत्र समदर्शनः” इति वचनात् । “यो ऽयं योगस्त्वया प्रोक्तः साम्येन” इत्यनुभाषणाच्च । “निर्दोषं हि समं ब्रह्म” इति वचनाच्च ॥६,२९॥

* यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
* तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६,३०॥

ततो ऽपि विपाकदशापन्नो मम साधर्म्यम् उपागतः, “निरञ्जनः परमं साम्यम् उपैति” इत्युच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन् यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वम् आत्मवस्तु च मयि पश्यति अन्योन्यसाम्यादन्यतरदर्शनेन अन्यतरदपि+ईदृशम् इति पश्यति, तस्य स्वात्मस्वरूपं पश्यतो ऽहं तत्साम्यान्न प्रणश्यामि नादर्शनम् उपयामि; ममापि मां पश्यतः, मत्साम्यात्स्वात्मानं मत्समम् अवलोकयन् स नादर्शनम् उपयाति ॥६,३०॥

ततो ऽपि विपाकदशां आह

* सर्वभूतस्थितं यो मां भजत्येकत्वम् आस्थितः ।
* सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥६,३१॥

योगदशायां सर्वभूतस्थितं माम् असंकुचितज्ञानैकाकारतया एकत्वम् आस्थितः प्राकृतभेदपरित्यागेन सुदृढं यो भजते, स योगी व्युत्थानकाले ऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन् मयि वर्तते मामेव पश्यति । स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यमेव पश्यति+इत्यर्थः ॥६,३१॥

ततो ऽपि काष्ठां आह

* आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
* सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६,३२॥

स्वात्मनश्चान्येषां चात्मनाम् असंकुचितज्ञानैकाकारतया+उपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखम् असंबन्धसाम्यात्समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यति+इत्यर्थः । स योगी परमो मतः योगकाष्ठां गतो मतः ॥६,३२॥

* अर्जुन उवाच
* यो ऽयं योगस्त्वया प्रोक्तः साम्येन ंअधुसूदन ।
* एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६,३३॥
* चञ्चलं हि मनः कृष्ण प्रमाथि बलवत्दृढम् ।
* तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥६,३४॥

यो ऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतया+एतावन्तं कालम् अनुभूतेषु सर्वेष्वात्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया च+ईश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस्त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश्चञ्चलत्वात् । तथा अनवरताभ्यस्तविषयेष्वपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुम् अशक्यं मनः पुरुषं बलात्प्रमथ्य दृढम् अन्यत्र चरति; तस्य स्वाभ्यस्तविषयेष्वपि चञ्चलस्वभावस्य मनसस्तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर्महावातस्य व्यजनादिना+एव सुदुष्करं अहं मन्ये । मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः ॥६,३३,३४॥

* श्रीभगवान् उवाच
* असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
* अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६,३५॥
* असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
* वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥६,३६॥

चलस्वभावतया मनो दुर्निग्रहमेव+इत्यत्र न संशयः; तथा +अप्यात्मनो गुणाकरत्वाभ्यासजनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद्गृह्यते; असंयतात्मना अजितमनसा महता+अपि बलेन योगो दुष्प्राप एअ । उपायतस्तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायमेव समदर्शनरूपो योगो ऽवाप्तुं शक्यः ॥६,३५,३६॥

अथ “न+इहाभिक्रमनाशो ऽस्ति” इति आदावेव श्रुतं योगमाहात्म्यं यथा+अवच्छ्रोतुम् अर्जुनः पृच्छति । अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्र+उदितम्; तच्च योगमाहात्म्यमेव ।

* अर्जुन उवाच
* अयतिः श्रद्धया+उपेतो योगाच्चलितमानसः ।
* अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥६,३७॥
* कच्चिन्न+उभयविभ्रष्टश्छिन्नाभ्रम् इव नश्यति ।
* अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥६,३८॥
* एतं मे संशयं कृष्ण च्छेतुम् अर्हस्यशेषतः ।
* त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥६,३९॥

श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिम् अप्राप्य योगाच्चलितमानसः कां गतिं गच्छति; उभयविभ्रष्टो ऽयं च्छिन्नाभ्रम् इव कच्चिन्न नश्यति? यथा मेघशकलः पूर्वस्माद्बृहतो मेघाच्छिन्नः परं बृहन्तं मेघम् अप्राप्य मध्ये विनष्टो भवति, तथा+एव कच्चिन्न नश्यति । कथम् उभयविभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथि+इति । यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवति+इत्यप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात्पथः प्रच्युतः । अतः उभयविभ्रष्टतया किम् अयं नश्यत्येव, उत न नश्यति? तमेनं संशयम् अशेषतश्छेत्तुम् अर्हसि । स्वतः प्रत्यक्षेण युगपत्सर्वं सदा पश्यतस्त्वत्तो ऽन्यः संशयस्यास्य
छेत्ता न ह्युपपद्यते ॥६,३७,३८,३९॥

* श्रीभगवान् उवाच
* पार्थ नैव+इह नामुत्र विनाशस्तस्य विद्यते ।
* न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥६,४०॥

श्रद्धया योगे प्रक्रान्तस्य तस्मात्प्रच्युतस्य+इह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितान् अवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश्च विनाशो न विद्यत इत्यर्थः । न हि निरतिशयकल्याणरूपयोगकृत्कश्चित्कालत्रये ऽपि दुर्गतिं गच्छति ॥६,४०॥

कथम् अयं भविष्यति+इत्यत्राह

* प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः ।
* शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते ॥६,४१॥

यज्जातीयभोगाभिकाङ्क्षया योगात्प्रच्युतो ऽयम्, अतिपुण्यकृतां प्राप्यान् लोकान् प्राप्य तज्जातीयान् अतिकल्याणान् भोगान् योगमाहात्म्यादेव भुञ्जानो यावत्तद्भोगतृष्णावसानं शश्वतीः समास्तत्र+उषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमतां योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज् जायते ॥६,४१॥

* अथ वा योगिनामेव कुले भवति धीमताम् ।
* एतद्धि दुर्लभतरं लोके जन्म यदि+ईदृशम् ॥६,४२॥

परिपक्वयोगश्चलितश्चेत्, योगिनां धीमतां योगं कुर्वतां स्वयमेव योगोपदेशक्षमाणां महतां कुले भवति; तदेतदुभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत्तु योगमाहात्म्यकृतम् ॥६,४२॥

* तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् ।
* यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥६,४३॥
* पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशो ऽपि सः ।

तत्र जन्मनि पौर्वदैहिकं तमेव योगविषयं बुद्धिसंयोगं लभते । ततः सुप्तप्रबुद्धवत्भूयः संसिद्धौ यतते यथा नान्तरायहतो भवति, तथा यतते । तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्यवशो ऽपि योग एव ह्रियते । प्रसिद्धं ह्येतत्योगमाहात्म्यम् इत्यर्थः ॥६,४३॥

* जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥६,४४॥

अप्रवृत्तयोगो योगे जिज्ञासुरपि ततश्चलितमानसः पुनरपि तामेव जिज्ञासां प्राप्य कर्मयोगादिकं योगम् अनुष्ठाय शब्दब्रह्मातिवर्तते । शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः । प्रकृतिबन्धाद्विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानम् आत्मानं प्राप्नोति+इत्यर्थः ॥६,४४॥

* प्रयत्नात्यतमानस्तु योगी संशुद्धकिल्बिषः ।
* अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥६,४५॥

यत एवं योगमाहात्म्यम्, ततः अनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस्संसिद्धिः संजातः प्रयत्नात्यतमानस्तु योगी चलितो ऽपि पुनः परां गतिं यात्येव ॥६,४५॥

अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्मादाधिक्यं आह

* तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः ।
* कर्मिभ्यश्चाधिको योगी तस्मात्योगी भवार्जुन ॥६,४६॥

केवलतपोभिर्यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर्ज्ञानैश्च यः, यश्च केवलैरश्वमेधादिभिः कर्मभिः, तेभ्यस्सर्वेभ्यो ऽधिकपुरुषार्थसाधनत्वात्योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश्चाधिको योगी तस्मात्योगी भवार्जुन ॥६,४६॥

तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनम् उक्तम्; अथ परविद्यां प्रस्तौति

* योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
* श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥६,४७॥

योगिनाम् इति पञ्चम्यर्थे षष्ठी । “सर्वभूतस्थम् आत्मानम” इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः । तेष्वनन्तर्गतत्वात्वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषाम् इति सर्वशब्दनिर्दिष्टास्तपस्विप्रभृतयः । तत्राप्युक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः; मेर्वपेक्षया सर्षपाणाम् इव । यद्यपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते तथा+अपि मेर्वपेक्षया अवरत्वनिर्देशः समानः । मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावान् अत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान् यो मां भजते मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, अस्पृष्टाशेषदोषानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, अपारकारुण्यसौशील्यवात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोकशरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलम् अनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहे ऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगत्भासयन्तम्, आत्मकान्त्या विश्वम् आप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः स मे युक्ततमो मतः स सर्वेभ्यश्श्रेष्टतमः इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वन् अहं मन्ये ॥६,४७॥

प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनम् उक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यम् उच्यते । तदेतदुत्तरत्र, “यतः प्रवृत्तिर्भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥” इत्यारभ्य, “विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥” इति संक्षिप्य वक्ष्यते ।

उपानसं तु भक्तिरूपापन्नमेव परप्राप्त्युपायभूतम् इति वेदान्तवाक्यसिद्धम् । “तमेव विदित्वा+अतिमृत्युमेति”, “तमेवं विद्वान् अमृत इह भवति” इत्यादिना अभिहितं वेदनम्, “आत्मा वा अरे द्रष्टव्यः ॥॥। निदिध्यासितव्यः”, “आत्मानमेव लोकम् उपासीत”, “सत्त्वशुद्धौ ध्रुवा स्मृतिः; स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः”, “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” इत्यादिभिरैकार्थ्यात्स्मृतिसन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यम् इत्यवगम्यते । पुनश्च, “नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम” इति विशेषणात्परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयम् अप्यत्यर्थप्रियरूपं स्मृतिसन्तानमेव+उपासनशब्दवाच्यम् इति हि निश्चीयते । तदेव हि भक्तिरित्युच्यते, “स्नेहपूर्वम् अनुध्यानं भक्तिरित्यभिधीयते” इत्यादिवचनात् । अतः “तमेवं विद्वान् अमृत इह भवति, नान्यः पन्था अयनाय विद्यते”, “नाहं वेदैर्न तपसा न दानेन न च+इज्यया । शक्य एवंविधो द्रष्टुं दृष्टवान् असि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप” इत्यनयोरेकार्थत्वं सिद्धं भवति ।

तत्र सप्तमे तावतुपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश्श्रैष्ठ्यं च+उच्यते ॥

* श्रीभगवान् उवाच
* मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।
* असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥७,१॥

मय्याभिमुख्येन असक्तमनाः मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश्च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणादेव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमनाः तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन् योक्तुं प्रवृत्तः योगविषयभूतं माम् असंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेन+उक्तेन ज्ञास्यसि, तत्ज्ञानम् अवहितमनाः त्वं शृणु ॥७,१॥

* ज्ञानं ते ऽहं सविज्ञानम् इदं वक्ष्याम्यशेषतः ।
* यत्ज्ञात्वा न+इह भूयो ऽन्यत्ज्ञातव्यम् अवशिष्यते ॥७,२॥

अहं ते मद्विषयम् इदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि । विज्ञानन् विविक्ताकारविषयं ज्ञानम् । यथा+अहं मद्व्यतिरिक्तात्समस्तचिदचिद्वस्तुजातान्निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना; यद्ज्ञानं ज्ञात्वा
मयि पुनरन्यत्ज्ञातव्यं नावशिष्यते ॥७,२॥

वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापतां आह

* मनुष्याणां सहस्रेषु कश्चित्यतति सिद्धये ।
* यतताम् अपि सिद्धानां कश्चिन् मां वेत्ति तत्त्वतः ॥७,३॥

मनुष्याः शास्त्राधिकारयोग्याः । तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तस्सिद्धये यतते । मद्विदां सहस्रेषु कश्चिदेव तत्त्वतः यथावस्थितं मां वेत्ति । न कश्चिदित्यभिप्रायः; “स महात्मा सुदुर्लभः”, “मां तु वेद न कश्चन” इति हि वक्ष्यते ॥७,३॥

* भूमिरापो ऽनलो वायुः खं मनो बुद्धिरेव च ।
* अहङ्कार इति+इयं मे भिन्ना प्रकृतिरष्टधा ॥७,४॥

अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिरियं गन्धादिगुणकपृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतिइन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि ॥७,४॥

* अपरेयम् इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
* जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥७,५॥

इयं ममापरा प्रकृतिः; इतस्त्वन्याम् इतो ऽचेतनायाश्चेतनभोग्यभूतायाः प्रकृतेर्विसजातीयाकारां जीवभूतां परां तस्याः भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि; ययेदम् अचेतनं कृत्स्नं जगत्धार्यते ॥७,५॥

* एतद्योनीनि भूतानि सर्वाणि+इत्युपधारय ।
* अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥७,६॥

एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावचभावेनावस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानि+इत्युपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्येव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर्द्वयोरपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहमेव प्रभवो ऽहमेव च प्रलयो ऽहमेव च शेषी+इत्युपधारय । तयोः चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोरपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् । “महान् अव्यक्ते लीयते । अव्यक्तम् अक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति”, “विष्णोस्स्वरूपात्परतोदिते द्वे रूपे प्र्धानं पुरुषश्च विप्र”, “प्रकृतिर्या मया+आख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषाम् आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥” इत्यादिका हि श्रुतिस्मृतयः ॥७,६॥

* मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश्चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः तथा ज्ञानशक्तिबलादिगुणयोगेन चाहमेव परतरः । मत्तो ऽन्यत्मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिदपि परतरं नास्ति ॥

* मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥७,७॥

सर्वम् इदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवतात्मतया ऽवस्थिते मयि प्रोतम् आश्रितम् । “यस्य पृथिवी शरीरम”, “यस्यात्मा शरीरम”, “एष सर्वभूतान्तरात्मा+अपहतपाप्मा दिव्यो देव एको नारायणः” इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोरन्तर्यामिब्राह्मणादिषु सिद्धम् ॥७,७॥

अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात्सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश्शब्दैस्तस्यैवाभिधानम् इति तत्तत्सामानाधिकरण्येन आह

* रसो ऽहम् अप्सु कौन्तेय प्रभा+अस्मि शशिसूर्ययोः ।
* प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७,८॥
* पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
* जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥७,९॥
* बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
* बुद्धिर्बुद्धिमताम् अस्मि तेजस्तेजस्विनां अहम् ॥७,१०॥
* बलं बलवन्ताञ् चाहं कामरागविवर्जितम् ।
* धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥७,११॥

एते सर्वे विलक्षणा भावा मत्त एव+उत्पन्नाः, मच्छेषभूताः मच्छरीरतया मय्येवावस्थिताः; अतस्तत्तत्प्रकारो ऽहमेवावथितः ॥७,८,९,१०,११॥

* ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
* मत्त एव+इति तान् विद्धि न त्वहं तेषु ते मयि ॥७,१२॥

किं विशिष्य अभिधीयते? सात्त्विका राजसास्तामसाश्च जगति देहत्वेन+इन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान् सर्वान् मत्त एव+उत्पन्नान् विद्धि; ते मच्छरीरतया मय्येवावस्थिता इति च । न त्वहं तेषु नाहं कदाचिदपि तदायत्तस्थितिः; अन्यत्रात्मायत्तस्थितित्वे ऽपि शरीरस्य, शरीरेणात्मनः स्थितावप्युपकारो विद्यते; मम तु तैर्न कश्चित्तथाविध उपकारः, केवललीला+एव प्रयोजनम् इत्यर्थः ॥७,१२॥

* त्रिभिर्गुणमयैर्भावैरेभिः सर्वम् इदं जगत् ।
* मोहितं नाभिजानाति मामेभ्यः परम् अव्ययम् ॥७,१३॥

तदेवं चेतनाचेतनात्मकं कृत्स्नं जगत्मदीयं काले काले मत्त एव+उत्पद्यते, मयि च प्रलीयते, मय्येवावस्थितम्, मच्छरीरभूतम्, मदात्मकं च+इत्यहमेव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारो ऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश्चाहमेव सर्वैः प्रकारैः परतरः, मत्तो ऽन्यत्केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस्तत्तद्भोग्यताप्रकारैश्च परम् उत्कृष्टतमम्, अव्ययं सदा+एकरूपम् अपि तैरेव त्रिभिर्गुणमयैर्निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर्मोहितं देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितं सर्वम् इदं जगन्नाभिजानाति ॥७,१३॥

कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदा+एकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश्च+उत्कृष्टतमे त्वयि स्थिते ऽप्यत्यन्तनिहीनेषु गुणमयेष्वस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिरुपजायत इत्यत्राह

* दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्मात्दैवी देवेन क्रीढाप्रवृत्तेन मया+एव निर्मिता, तस्मात्सर्वैर्दुरत्यया दुरतिक्रमा । अस्याः मायाशब्दवाच्यत्वम् आसुरराक्षसास्त्रादीनाम् इव विचित्रकार्यकरत्वेन, यथा च “ततो भगवता तस्य रक्षार्थं चक्रम् उत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहम् ऐकैकश्येन सूदितम” इत्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्वपि केनचिन् मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावी+इति प्रयोगः । तथा मन्त्रौषधादिरेव तत्र माया; सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्ति+इतिवत् । एषा गुणमयी पारमार्थिकी भगवन्माया+एव, “मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम” इत्यादिष्वभिधीयते । अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश्च । अतो भगवन्मायया मोहितं सर्वं जगत्भगवन्तम् अनवधिकातिशयानन्दस्वरूपं नाभिजानाति ॥

मायाविमोचनोपायं आह

* मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥७,१४च्द् ॥

मामेव सत्यसङ्कल्पं परमकारुणिकम् अनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायाम् उत्सृज्य मामेव+उपासत इत्यर्थः ॥७,१४॥

किम् इति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्यत्राह

* न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
* मायया+अपहृतज्ञाना आसुरं भावम् आश्रिताः ॥७,१५॥

दुष्कृतिनः पापकर्माणः मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढाः, नराधमाः, मायया+अपहृतज्ञानाः, आसुरं भावम् आश्रिताः इति । मूढाः विपरीतज्ञानाः; पूर्वोक्तप्रकारेण भगवच्छेषतैकरसम् आत्मानं भोग्यजातं च स्वशेषतया मन्यमानाः । नराधमाः सामान्येन ज्ञाते ऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः । मायया+अपहृतज्ञानाः मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिरपहृतम्, ते तथा उक्ताः । आसुरं भावम् आश्रिताः मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढम् उपपन्नं येषां द्वैषायैव भवति; ते आसुरं भावम् आश्रिताः । उत्तरोत्तराः पापिष्ठतमाः ॥७,१५॥

* चतुर्विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन ।
* आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥७,१६॥

सुकृतिनः पुण्यकर्माणो मां शरणम् उपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनः भ्रष्टैश्वर्यः पुनर्तत्प्राप्तिकामः । अर्थार्थी अप्राप्तैश्वर्यतया ऐश्वर्यकामः । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतया+ऐक्यादेक एवाधिकारः । जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तिइच्छुः । ज्ञानमेवास्य स्वरूपम् इति जिज्ञासुरित्युक्तम् । ज्ञानी च, “इतस्त्वन्यां प्रकृतिं विद्धि मे पराम” इत्यादिना+अभिहितभगवच्छेषतैकरसात्मस्वरूपवित्; प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तमेव परमप्राप्यं मन्वानः ॥७,१६॥

* तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।
* प्रियो हि ज्ञानिनो ऽत्यर्थं अहं स च मम प्रियः ॥७,१७॥

तेषां ज्ञानी विशिष्यते । कुतः? नित्ययुक्त एकभक्तिरिति च । ज्ञानिनो हि
मदेकप्राप्यस्य मया योगो नित्यः; इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योगः । तथा ज्ञानिनो मय्येकस्मिन्नेव भक्तिः; इतरयोस्तु स्वाभिलषिते तत्साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ् च, प्रियो हि ज्ञानिनो ऽत्यर्थं अहम् । अर्थशब्दो ऽभिधेयवचनः; ज्ञानिनो ऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिना+अप्यभिधातुं न शक्यत इत्यर्थः; प्रियत्वस्य+इयत्तारहितत्वात् । यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य, “स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः” इति । तथा+एव सो ऽपि मम प्रियः ॥७,१७॥

* उदाराः सर्व एवैते ज्ञानी त्वात्मा+एव मे मतम् ।
* आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥७,१८॥

सर्व एवैते मामेव+उपासत इति उदाराः वदान्याः । ये मत्तो यत्किंचिदपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः । ज्ञानी त्वात्मा+एव मे मतं तदायत्तधारणो ऽहम् इति मन्ये । कस्मादेवम? यस्मादयं मया विना+आत्मधारणासंभावनया मामेवानुत्तमं प्राप्यम् आस्थितः, अतस्तेन विना ममाप्यात्मधारणं न संभवति । ततो ममात्मा हि सः ॥७,१८॥

* बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
* वासुदेवस्सर्वम् इति स महात्मा सुदुर्लभः ॥७,१९॥

नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलम् इदम्, यत्मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनम्; अपि तु बहूनां जन्मनां पुण्यजन्मनाम् अन्ते अवसाने, वासुदेवशेषतैकरसो ऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश्च; स चासङ्ख्येयैः कल्याणगुणगणैः परतरः इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यदपि यन् मनोरथवर्तिं स एव मम तत्सर्वम् इति मां प्रपद्यते माम् उपास्ते; स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके । वासुदेवस्सर्वम् इत्यस्यायमेवार्थः, “प्रियो हि ज्ञानिनो ऽत्यर्थं अहम”, “आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम” इति प्रक्रमात् । ज्ञानवांश्चायम् उक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिरापः” इत्यारभ्य, “अहङ्कार इति+इयं मे भिन्ना प्रकृतिरष्टधा । अपरेयम् इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम” इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसता+उक्ता; “अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय” इत्यारभ्य, “ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एव+इति तान् विद्धि न त्वहं तेषु ते मयि ॥” इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात्परतरत्वम् उक्तम्; अतः स एवात्र ज्ञानी+इत्युच्यते ॥७,१९॥

तस्य ज्ञानिनो दुर्लभत्वमेव+उपपादयति

* कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्ते ऽन्यदेवताः ।
* तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥७,२०॥

सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियताः नित्यान्विताः तैस्तैः स्ववासनानुरूपैर्गुणमयैरेव कामैः इच्छाविषयभूतैः हृतमत्स्वरूपविषयज्ञानाः तत्तत्कामसिद्ध्यर्थम् अन्यदेवताः मद्व्यतिरिक्ताः केवलेन्द्रादिदेवताः तं तं नियमं आस्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियमम् आस्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥७,२०॥

* यो यो यां यां तनुं भक्तः श्रद्धया+अर्चितुम् इच्छति ।
* तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥७,२१॥

ता अपि देवता मदीयास्तनवः, “य आदित्ये तिष्ठन् ॥। यम् आदित्यो न वेद यस्यादित्यश्शरीरम” इत्यादिश्रुतिभिः प्रतिपादिताः । मदीयास्तनव इत्यजानन्नपि यो यो यां यां मदीयाम् आदित्यादिकां तनुं भक्तः श्रद्धया+अर्चितुम् इच्छति; तस्य तस्याजानतो ऽपि मत्तनुविषया+एषा श्रद्धेत्यनुसन्धाय तामेवाचलां निर्विघ्नां विदधाम्यहम् ॥७,२१॥

* स तया श्रद्धया युक्तस्तस्याराधनं ईहते ।
* लभते च ततः कामान् मया+एव विहितान् हि तान् ॥७,२२॥

स तया निर्विघ्नया श्रद्धया युक्तस्तस्य इन्द्रादेराराधनं प्रतीहते । ततः मत्तनुभूतेन्द्रादिदेवताराधनात्तान् एव हि स्वाभिलषितान् कामान् मया+एव विहितान् लभते । यद्यप्याराधनकाले, “आराध्येन्द्रादयो मदीयास्तनवः, तत एव तदर्चनं च मदाराधनम” इति न जानाति तथा+अपि तस्य वस्तुनो मदाराधनत्वादाराधकाभिलषितं अहमेव विदधामि ॥७,२२॥

* अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
* देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति माम् अपि ॥७,२३॥

तेषाम् अल्पमेधसाम् अल्पबुद्धीनाम् इन्द्रादिमात्रयाजिनां तदाराधनफलम् अल्पम्, अन्तवच्च भवति । कुतः? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयो ऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश्च । ततस्तत्सायुज्यं प्राप्ताः तैस्सह प्रच्यवन्ते । मद्भक्ता अपि तेषामेव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति; न च पुनर्निवर्तन्ते । “माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते” इति हि वक्ष्यते ॥७,२३॥

इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्ववतारम् अप्यकिञ्चित्करं कुर्वन्ति+इत्याह

* अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
* परं भावम् अजानन्तो मम अव्ययम् अनुत्तमम् ॥७,२४॥

सर्वैः कर्मभिराराध्यो ऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्याताश्रित्यवात्सल्याच्च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुरवरीर्ण इति ममैवं परं भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृतराजसूनुसमानम् इतः पूर्वम् अनभिव्यक्तम् इदानीं कर्मवशाज् जन्मविशेषं प्राप्य व्यक्तिम् आपन्नं प्राप्तं मां बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते; न कर्मभिराराधयन्ति च ॥७,२४॥

कुत एवं न प्रकाश्यत इत्यत्राह

* नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
* मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥७,२५॥

क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतो ऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढो ऽयं लोको माम् अतिवाय्विन्द्रकर्माणम् अतिसूर्याग्नितेजसम् उपलभ्यमानम् अपि अजम् अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानम् आस्थितं नाभिजानाति ॥७,२५॥

* वेदाहं समतीतानि वर्तमानानि चार्जुन ।
* भविष्याणि च भूतानि मां तु वेद न कश्चन ॥७,२६॥

अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्यहं वेद जानामि । मां तु वेद न कश्चन मया+अनुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु मामेवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा मामेव समाश्रयन्न कश्चिदुपलभ्यत इत्यर्थः । अतो ज्ञानी सुदुर्लभ एव ॥७,२६॥

तथा हि

* इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
* सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥७,२७॥

इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतदुक्तं भवति गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनरपि जन्मकाल एव तदेव द्वन्द्वाख्यम् इच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति; तेन मोहेन सर्वभूतानि संमोहं यान्ति; तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः; न तत्स्वभावं किम् अपि भूतं जायते इति ॥७,२७॥

* येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
* ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ॥७,२८॥

येषां त्वनेकजन्मार्जितेन+उत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि च अनादिकालप्रवृत्तं पापम् अन्तगतं क्षीणम्; ते पूर्वोक्तेन सुकृततारतम्येन मां शरणम् अनुप्रपद्य गुणमयात्मोहात्विनिर्मुक्ताः जरामरणमोक्षाय, महते चाइश्वर्याय, मत्प्राप्तये च दृढव्रताः दृढसङ्कल्पाः मामेव भजन्ते ॥७,२८॥

अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषान् उपादेयांश्च प्रस्तौति

* जरामरणमोक्षाय माम् आश्रित्य यतन्ति ये ।
* ते ब्रह्म तत्विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥७,२९॥

जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय माम् आश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः ॥२९॥

* साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
* प्रयाणकाले ऽपि च मां ते विदुर्युक्तचेतसः ॥७,३०॥

अत्र य इति पुनर्निर्देशात्पूर्वनिर्दिष्टव्यो ऽन्ये अधिकारिणो ज्ञायन्ते; साधिभूतं साधिदैवं माम् ऐश्वर्यार्थिनो ये विदुः इत्येततनुवादसरूपम् अप्यप्राप्तार्थत्वात्विधायकमेव; तथा साधियज्ञम् इत्यपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते; अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूपमहायज्ञाद्यनुष्ठानम् अवर्जनीयम् । ते च प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुः । ते च+इति चकारात्पूर्वे जरामरणमोक्षाय यतमानाश्च प्रयाणकाले विदुरिति समुच्चीयन्ते; अनेन ज्ञानिनो ऽप्यर्थस्वाभाव्यात्साधियज्ञं मां विदुः, प्रयाणकाले ऽपि स्वप्राप्यानुगुणं मां विदुरित्युक्तं भवति ॥७,३०॥

सप्तमे परस्य ब्रह्मणो वासुदेवस्य+उपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यातैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षया+उपासकभेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततया+एकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥

* अर्जुन उवाच
* किं तद्ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम ।
* अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥८,१॥
* अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदनम् ।
* प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥८,२॥

जरामरणमोक्षाय भगवन्तम् आश्रित्य यतमानानां ज्ञातव्यतया+उक्तं तत्ब्रह्म अध्यात्मं च किम् इति वक्तव्यम् । ऐश्वर्यार्थीनां ज्ञातव्यम् अधिभूतम् अधिदैवं च किम? त्रयाणां ज्ञातव्यो ऽधियज्ञशब्दनिर्दिष्टश्च कः? तस्य चाधियज्ञभावः कथम? प्रयाणकाले च एभिस्त्रिभिर्नियतात्मभिः कथं ज्ञेयो ऽसि? ॥८,१,२॥

* श्रीभगवान् उवाच
* अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते ।
* भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥८,३॥

तद्ब्रह्म+इति निर्दिष्टं परमम् अक्षरं न क्षरति+इत्यक्षरम्, क्षेत्रज्ञसमष्टिरूपम् । तथा च श्रुतिः, “अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते” इत्यादिका । परमम् अक्षरं प्रकृतिविनिर्मुक्तम् आत्मस्वरूपम् । स्वभावो ऽध्यात्मम् उच्यते । स्वभावः प्रकृतिः । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतया+उदितम् । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्ज्ञातव्यम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । भूतभावः मनुष्यादिभावः; तदुद्भवकरो यो विसर्गः, “पञ्चम्यां आहुतावापः पुरुषवचसो भवन्ति” इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः । तच्चाखिलं सानुबन्धम् उद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर्ज्ञातव्यम् । परिहरणीयतया चानन्तरमेव वक्ष्यते, “यदिच्छन्तो ब्रह्मचर्यं चरन्ति” इति ॥८,३॥

* अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
* अधियज्ञो ऽहमेवात्र देहे देहभृतां वर ॥८,४॥

ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टम् अधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस्सास्रयः । विलक्षणाः साश्रयाश्शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्यास्तैरनुसन्धेयाः । पुरुषश्चाधिदैवतम् अधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतं देवता+उपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवता+उपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद्विलक्षणशब्दादेर्भोक्ता पुरुषः । सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया+अनुसन्धेया । अधियज्ञो ऽहमेव । अधियज्ञः यज्ञैराराध्यतया वर्तमानः । अत्र इन्द्रादौ मम देहभूते आत्मतया+अवस्थितो ऽहमेव यज्ञैराराध्य इति महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणाम् अधिकारिणाम् अनुसन्धेयमेतत् ॥८,४॥

* अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम् ।
* यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥८,५॥

इदम् अपि त्रयाणां साधारणम् । अन्तकाले च मामेव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावः तं याति; तदानीं यथा माम् अनुसन्धत्ते, तथाविधाकारो भवति+इत्यर्थः; यथा आदिभरतादयस्तदानीं स्मर्यमाणमृगसजातीयाकारात्संभूताः ॥८,५॥

स्मर्तुस्स्वविषयसजातीयाकारतापादनम् अन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टं आह

* यं यं वा+अपि स्मरन् भावं त्यजत्यन्ते कलेबरम् ।
* तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥८,६॥

अन्ते अन्तकाले यं यं वा+अपि भावं स्मरन् कलेबरं त्यजति, तं तं भावमेव मरणानन्तरमेति । अन्तिमप्रत्ययश्च पूर्वभावितविषय एव जायते ॥८,६॥

* तस्मात्सर्वेषु कालेषु माम् अनुस्मर युध्य च ।
* मय्यर्पितमनोबुद्धिः मामेवैष्यस्यसंशयः ॥८,७॥

यस्मात्पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात्सर्वेषु कालेष्वाप्रयाणादहरहर्माम् अनुस्मर । अहरहरनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवम् उपायेन मय्यर्पितमनोबुद्धिः अन्तकले च मामेव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि; नात्र संशयः ॥८,७॥

एवं सामान्येन स्वप्राप्यावाप्तिरन्त्यप्रत्ययाधीनेत्युक्त्वा तदर्थं त्रयाणाम् उपासनप्रकारभेदं वक्तुम् उपक्रमते; तत्राइश्वर्यार्थिनाम् उपासनप्रकारं यथोपासनम् अन्त्यप्रत्ययप्रकारं चाह

* अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
* परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८,८॥

अहरहरभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन् मामेव याति आदिभरतमृगत्वप्राप्तिवदैश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसा+उपास्यसंशीलनम् । योगस्तु अहरहर्योगकाले ऽनुष्ठीयमानं यथोक्तलक्षणम् उपासनम् ॥८,८॥

* कविं पुराणम् अनुशासितारम् अणोरणीयांसम् अनुस्मरेत्यः ।
* सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् ॥८,९॥
* प्रयाणकाले मनसा+अचलेन भक्त्या युक्तो योगबलेन चैव ।
* भ्रुवोर्मध्ये प्राणम् आवेश्य सम्यक् स तं परं पुरुषम् उपैति दिव्यम् ॥८,१०॥

कविं सर्वज्ञन् पुराणं पुरातनम् अनुशासितारं विश्वस्य प्रशासितारम् अणोरणीयांसं जीवादपि सूक्ष्मतरम्, सर्वस्य धातारं सर्वस्य स्रष्टारम्, अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्तातप्राकृतस्वासाधारणदिव्यरूपम्, तमेवंभूतं अहरहरभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर्मध्ये प्राणम् आवेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं यो ऽनुस्मरेत्; स तमेव+उपैति तद्भावं याति, तत्समानैश्वर्यो भवति+इत्यर्थः ॥८,९,१०॥

अथ कैवल्यार्थिनां स्मरण् अप्रकारं आह

* यदक्षरं वेदविदो वदन्ति विशन्ति यत्यतयो वीतरागाः ।
* यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥८,११॥

यतक्षरम् अस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश्च यतयो यदक्षरं विशन्ति, यतक्षरं प्राप्तुम् इच्छन्तो ब्रह्मचर्यं चरन्ति, तत्पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदम्; तत्निखिलवेदान्तवेद्यं मत्स्वरूपम् अक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामि+इत्यर्थः ॥८,११॥

* सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
* मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणाम् ॥८,१२॥
* ओम् इत्येकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
* यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥८,१३॥

सर्वाणि श्रोत्रादीनि+इन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्यक्षरे मनो निरुध्य, योगाख्यां धारणाम् आस्थितः मय्येव निश्चलां स्थितिम् आस्थितः, ओम् इत्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं माम् अनुस्मरन्, आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारम् अपुनरावृत्तिम् आत्मानं प्राप्नोति+इत्यर्थः । “यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तो ऽक्षर इत्युक्तस्तं आहुः परमां गतिम् ॥” इत्यनन्तरमेव वक्ष्यते ॥८,१२, १३॥

एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तः; अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह

* अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
* तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८,१४॥

नित्यशः माम् उद्योगप्रभृति सततं सर्वकालम् अनन्यचेताः यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणम् अलभमानो निरतिशयप्रियां स्मृतिं यः करोति; तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहमेव प्राप्यः; न मद्भाव ऐश्वर्यादिकः सुप्रापश्च । तद्वियोगम् असहमानो ऽहमेव तं वृणे । “यमेवैष वृणुते तेन लभ्यः” इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनम् अत्यर्थमत्प्रियत्वादिकं चाहमेव ददामि+इत्यर्थः । वक्ष्यते च “तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन माम् उपायान्ति ते ॥ तेषामेवानुकम्पार्थं अहम् अज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥” इति ॥८,१४॥

अतः परम् अध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिम् ऐश्वर्यार्थिनः पुनरावृत्तिं चाह

* माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् ।
* नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥८,१५॥

मां प्राप्य पुनर्निखिलदुःखालयम् अशाश्वतम् अस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपज्ञानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणम् अलभमाना मय्यास्क्तमनसो मदाश्रया माम् उपास्य परमसंसिद्धिरूपं मां प्राप्ताः ॥८,१५॥

ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुम् अनन्तरं आह

* आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन ।
* माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥८,१६॥

ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनस्सर्वे लोका भोगैश्वर्यालयाः पुनरावर्तिनः विनाशिनः । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वम् अवर्जनीयम् । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदा+एकरूपं प्राप्तानां विनाशप्रसङ्गाभावात्तेषां पुनर्जन्म न विद्यते ॥८,१६॥

ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृताम् उत्पत्तिविनाशकालव्यवस्थां आह

* सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः ।
* रात्रिं युगसहस्रान्तां ते ऽहोरात्रविदो जनाः ॥८,१७॥
* अव्यक्तात्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
* रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥८,१८॥
* भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
* रात्र्यागमे ऽवशः पार्थ प्रभवत्यहरागमे ॥८,१९॥

ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश्चतुर्मुखस्य यदहः तत्चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपाम् । तत्र ब्रह्मणो ऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश्चतुर्मुखदेहावस्थादव्यक्तात्प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामो ऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनरप्यहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोकाः ब्रह्मा च, “पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते” इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्येव प्रलीयन्ते । एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच्च+उत्पत्तिविनाशयोगित्वम् अवर्जनीयम् इत्यैश्वर्यगतिं प्राप्तानां पुनरावृत्तिरपरिहार्या । माम् उपेतानां तु न पुनरावृत्तिप्रसङ्गः ॥८,१९॥

अथ कैवल्यं प्रप्तानाम् अपि पुनरावृत्तिर्न विद्यत इत्यह

* परस्तस्मात्तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात्सनातनः ।
* यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥८,२०॥
* अव्यक्तो ऽक्षर इत्युक्तस्तं आहुः परमां गतिम् ।
* यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥८,२१॥

तस्मादव्यक्तातचेतनप्रकृतिरूपात्पुरुषार्थतया परः उत्कृष्टो भावो ऽन्यः ज्ञानैकाकारतया तस्माद्विसजातीयः, अव्यक्तः केनचित्प्रमाणेन न व्यज्यत इत्यव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः; सनातनः उत्पत्तिविनाशानर्हतया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितो ऽपि न विनश्यति; सः अव्यक्तो ऽक्षर इत्युक्तः, “ये त्वक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते”, “कूटस्थो ऽक्षर उच्यते” इत्यादिषु तं वेदविदः परमां गतिं आहुः । अयमेव, “यः प्रयाति त्यजन् देहं स याति परमां गतिम” इत्यत्र परमगतिशब्दनिर्दिष्टो ऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः । यमेवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते; तन् मम परमं धाम परं नियमनस्थानम् । अचेतनप्रकृतिरेकं नियमनस्थानम्; तत्संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम् । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानम् इत्यर्थः । तच्चापुनरावृत्तिरूपम् । अथ वा प्रकाशवाची धामशब्दः; प्रकाशः च+इह ज्ञानम् अभिप्रेतम्; प्रकृतिसंसृष्टात्परिछिन्नज्ञानरूपादात्मनो ऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥२०॥२१॥

ज्ञानिनः प्राप्यं तु तस्मादत्यन्तविभक्तम् इत्याह

* पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
* यस्यान्तस्स्थानि भूतानि येन सर्वम् इदं ततम् ॥८,२२॥

“मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय । मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥”, “मामेभ्यः परम् अव्ययम” इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदं ततम्, स परः पुरुषः “अनन्यचेतास्सततम” इत्यनन्यया भक्त्या लभ्यः ॥८,२२॥

अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीम् अर्चिरादिकां गतिं आह द्वयोरप्यर्चिरादिका गतिः श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, “तद्य इत्थं विदुर्ये च+इमे ऽरण्ये श्रद्धा तप इत्युपासते, ते ऽर्चिषम् अभिसंभवन्त्यर्चिषो ऽहः” इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता, “स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते” इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, “तद्य इत्थं विदुः” इति गतिश्र्तुइः, “ये च+इमे ऽरण्ये श्रद्धा तप इत्युपासते” इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, “इति तु पञ्चम्यां आहुतावापः पुरुषवचसो भवन्ति” इति, “रमणीयचरणाः ॥। कपूयचरणाः” इति पुण्यपापहेतुको मनुष्यादिभावो ऽपामेव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रम् इति चिदचितोर्विवेकम् अभिधाय, “तद्य इत्थं विदुः ,,, ते ऽर्चिषम् असंभवन्ति ॥। इमं मानवम् आवर्तं नावर्तन्ते” इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः ते ऽर्चिरादिना गच्छन्ति, न च पुनरावर्तन्त इत्युक्तम् इति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च “स एनान् ब्रह्म गमयति” इति ब्रह्मप्राप्तिवचनातचिद्वियुक्तम् आत्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसम् इत्यनुसन्धेयम्; तत्क्रतुन्यायाच्च । परशेषतैकरसत्वं च “य आत्मनि तिष्ठन् ॥। यस्यात्मा शरीरम” इत्यादिश्रुतिसिद्धम् ।

* यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः ।
* प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥८,२३॥
* अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् ।
* तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥८,२४॥

अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः । यस्मिन् मार्गे प्रयाता योगिनो ऽनावृत्तिं पुण्यकर्माणश्चावृत्तिं यान्ति तं मार्गं वक्ष्यामि+इत्यर्थः । “अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम” इति संवत्सरादीनां प्रदर्शनम् ॥८,२३,२४॥

* धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायणम् ।
* तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥८,२५॥

एतच्च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम् । अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः ॥८,२५॥

* शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
* एकया यात्यनावृत्तिम् अन्यया+आवर्तते पुनः ॥८,२६॥

शुक्ला गतिः अर्चिरादिका, कृष्णा च धूमादिका । शुक्लया+अनावृत्तिं याति; कृष्णया तु पुनरावर्तते । एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । “तद्य इत्थं विदुर्ये च+इमे ऽरण्ये श्रद्धा तप इत्युपासते ते ऽर्चिषम् अभिसंभवन्ति”, “अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्युपासते ते धूमम् अभिसंभवन्ति” इति ॥८,२६॥

* नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
* तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥८,२७॥

एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति; अपि तु स्वेनैव देवयानेन पथा याति । तस्मादहरहर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव ॥८,२७॥

अथाध्यायद्वयोदितशास्त्रार्थवेदनफलं आह

* वेदेषु यज्ञेषु तपस्सु चैव दाने च यत्पुण्यफलं प्रदिष्टम् ।
* अत्येति तत्सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम् ॥८,२८॥

ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत्फलं निर्दिष्टम्, इदम् अध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत्सर्वम् अत्येति एतद्वेदनसुखातिरेकेण तत्सर्वं तृणवन् मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परम् आद्यं स्थानम् उपैति ॥८,२८॥

उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः । इदानीम् उपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्य+उपासनस्य स्वरूपम् उच्यते ।

* श्रीभगवान् उवाच
* इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
* ज्ञानं विज्ञानसहितं यत्ज्ञात्वा मोक्षसे ऽशुभात् ॥९,१॥

इदं तु गुह्यतमं भक्तिरूपम् उपासनाख्यं ज्ञानं विज्ञानसहितम् उपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयम् अपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवमेव संभवति+इति मन्वानाय ते प्रवक्ष्यामि+इत्यर्थः । यत्ज्ञानम् अनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्मादशुभान् मोक्ष्यसे ॥९,१॥

* राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् ।
* प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥९,२॥

राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनसः । महामनसाम् इयं विद्येत्यर्थः । महामनस एव हि गोपनीयगोपनकुशला इति तेषामेव गुह्यम् । इदम् उत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् । प्रत्यक्षावगमम् । अवगम्यत इत्यवगमः विषयः; प्रत्यक्षभूतो ऽवगमः विषयो यस्य ज्ञानस्य तत्प्रत्यक्षावगमम् । भक्तिरूपेण+उपासनेन+उपास्यमानो ऽहं तादानीमेव+उपासितुः प्रत्यक्षताम् उपगतो भवामि+इत्यर्थः । अथापि धर्म्यं धर्मादनपेतम् । धर्मत्वं हि निश्श्रेयससाधनत्वम् । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीमेव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपम् अपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनम् इत्यर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानम् । अत्यर्थप्रियत्वेन+उपादेयम् । अव्ययम् अक्षयम्; मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवंरूपम् उपासनं कुर्वतो मत्प्रदाने कृते ऽपि किंचित्कृतं मया+अस्य+इति मे प्रतिभाति+इत्यर्थः ॥९,२॥

* अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
* अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥९,३॥

अस्य+उपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्य+उपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः माम् अप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महदिदम् आश्चर्यम् इत्यर्थः ॥९,३॥

शृणु तावत्प्राप्यभूतस्य ममाचिन्त्यमहिमानम्

* मया ततम् इदं सर्वं जगदव्यक्तमूर्तिना ।
* मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥९,४॥
* न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
* भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥९,५॥

इदं चेतनाचेतनात्मकं कृत्स्नं जगदव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततम् अस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तम् इत्यर्थः । यथा ऽन्तर्यामिब्राह्मणे, “यः पृथिव्यां तिष्ठन् ॥। यं पृथिवी न वेद”, “य आत्मनि तिष्ठन् ॥। यम् आत्मा न वेद” इति चेतनाचेतनवस्तुजातैरदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिरुक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्यन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, “यस्य पृथिवी शरीरं ॥। यः पृथिवीम् अन्तरो यमयति, यस्यात्मा शरीरं ॥। य आत्मानम् अन्तरो यमयति” इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्तदायत्ते स्थितिनियमने प्रतिपादिते; शेषित्वं च । न चाहं तेष्ववस्थितः अहं तु न तदायत्तस्थितिः; मत्स्थितौ तैर्न कश्चिदुपकार इत्यथः । न च मत्स्थानि भूतानि न घटादीनां जलादेरिव मम धारकत्वम् । कथम? मत्सङ्कल्पेन । पश्य ममाइश्वरं योगम् अन्यत्र कुत्रचिदसंभावनीयं मदसाधारणम् आश्चर्यं योगं पश्य । को ऽसौ योग? भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । सर्वेषां भूतानां भर्ता ऽहम्; न च तैः कश्चिदपि मम+उपकारः । ममात्मा+एव भूतभावनः मम मनोमयस्सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥९,४,५॥

सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनं आह

* यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
* तथा सर्वाणि भूतानि मत्स्थानि+इत्युपधारय ॥९,६॥

यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति; स तु वायुर्निरालम्बनो मदायत्तस्थितिरित्यवश्याभ्युपगमनीयः एवमेव सर्वाणि भूतानि तैरदृष्टे मयि स्थितानि मया+एव धृतानि+इत्युपधारय । यथा+आहुर्वेदविदः, “मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्विचित्राः प्रभवन्ति मायाः” इति विष्णोरनन्यसाधारणानि महाश्चर्याणि+इत्यर्थः । श्रुतिरपि, “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः”, “भीषा+अस्माद्वातः पवते,भीषा+उदेति सूर्यः, भीषा+अस्मादग्निश्च+इन्द्रश्च” इत्यादिका ॥९,६॥
सकलेतरनिरपेक्षस्य भगवतस्सङ्कल्पात्सर्वेषां स्थितिः प्रवृत्तिश्च+उक्ता तथा तत्सङ्कल्पादेव सर्वेषाम् उत्पत्तिप्रलयावपि+इत्याह

* सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
* कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥९,७॥

स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकां मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पात्यान्ति; तान्येव भूतानि कल्पादौ पुनर्विसृज्याम्यहम्; यथा+आह मनुः “आसीदिदं तमोभूतं ॥। सो ऽभिध्याय शरीरात्स्वात” इति । श्रुतिरपि “यस्याव्यक्तं शरीरम”, “अव्यक्तम् अक्षरे लीयते, अक्षरं तमसि लीयते” इत्यादिका, “तम् आसीत्तमसा गूढम् अग्रे प्रकेतम” इति च ॥९,७॥

* प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
* भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर्वशात् ॥९,८॥

स्वकीयां विचित्रपरिणामिनीं प्रकृतिम् अवष्टभ्य अष्टधा परिणाम्य्यिमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर्वशादवशं पुनः पुनः काले काले विसृजामि ॥९,८॥

एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्ति+इत्यत्राह

* न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
* उदासीनवदासीनम् असक्तं तेषु कर्मसु ॥९,९॥

न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्येव कर्माणि देवादिविषमभावहेतवः; अहं तु तत्र वैषम्ये असक्तः तत्र+उदासीनवदासीनः; यथा +आह सूत्रकारः “वैषम्यनैर्घृण्ये न सापेक्षत्वात”, न कर्माविभागादिति चेन्नानादित्वात” इति ॥९,९॥

* मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
* हेतुना+अनेन कौन्तेय जगद्धि परिवर्तते ॥९,१०॥

तस्मात्क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेण+ईक्षिता सचराचरं जगत्सूयते । अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत्परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वम् इत्येवम् आदिकं मम वसुदेवसूनोरैश्वरं योगं पश्य । यथा+आह श्रुतिः, “अस्मान् मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान् मायिनं तु म्हेश्वरम् ॥” इति ॥९,१०॥

* अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
* परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥९,११॥

एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुम् आश्रितं स्वकृतैः पापकर्मभिर्मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणम् इमं परं भावम् अजानन्तो मनुष्यत्वसमाश्रयणमात्रेण माम् इतरसजातीयं मत्वा तिरस्कुर्वन्ति+इत्यर्थः ॥९,११॥

* मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
* राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥९,१२॥

मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः, मोघाशाः मोघ्वाञ् छिताः निष्फलवाञ् छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्वर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरम् इतरसमं मत्वा मयि च यत्कर्तुम् इच्छन्ति, यदुद्दिश्यारम्भान् कुर्वते, तत्सर्वं मोघं भवति+इत्यर्थः ॥९,१२॥

* महात्मानस्तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
* भजन्त्यनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥९,१३॥

ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणम् उपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिम् आश्रिता महात्मानः, ते, भूतादिम् अव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते; मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश्चात्मनश्च बाह्यकरणानां च धारणम् अलभमाना मद्भजनैकप्रयोजना भजन्ते ॥९,१३॥

* सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
* नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥९,१४॥

अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर्विना क्षणाणुमात्रे ऽप्यात्मधारणम् अलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गाः हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेव+इत्येवम् आदीनि सततं कीर्तयन्तः, तथा+एव यतन्तः मत्कर्मस्वर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिरष्टाङ्गैरचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत्प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते ॥९,१४॥

* ज्ञानयज्ञेन चाप्यन्ये यजन्तो माम् उपासते ।
* एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥९,१५॥

अन्ये ऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिः ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते । कथम? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखं विश्वप्रकारम् अवस्थितं मामेकत्वेन+उपासते । एतदुक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस्सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्याम् इति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरो ऽवतिष्ठत इत्यनुसंदधानाश्च माम् उपासते इति ॥९,१५॥

तथा हि विश्वशरीरो ऽहमेवावस्थित इत्याह

* अहं क्रतुरहं यज्ञः स्वधा+अहं अहम् औषधम् ।
* मन्त्रो ऽहं अहमेवाज्यं अहम् अग्निरहं हुतम् ॥९,१६॥

अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः; अहमेव महायज्ञः; अहमेव पितृगणपुष्टिदा स्वधा; औषधं हविश्चाहमेव; अहमेव च मन्त्रः; अहमेव च आज्यम् । प्रदर्शनार्थम् इदं सोमादिकं च हविरहमेव+इत्यर्थः; अहं आहवनीयादिको ऽग्निः; होमश्चाहमेव ॥९,१६॥

* पिता+अहम् अस्य जगतो माता धाता पितामहः ।
* वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुरेव च ॥९,१७॥

अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानो ऽहमेव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत्किञ्चित्वेदवेद्यं पवित्रं पावनम्,तदहमेव । वेदकश्च वेदबीजभूतः प्रणवो ऽहमेव । ऋक्सामयजुरात्मको वेदश्चाहमेव ॥९,१७॥

* गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् ।
* प्रभवप्रलयस्थानं निधानं बीजम् अव्ययम् ॥९,१८॥

गम्यत इति गतिः; तत्र तत्र प्राप्यस्थानम् इत्यर्थः; भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश्चेतनः शरणम् । स चाहमेव; सुकृथितैषी, प्रभवप्रलयस्थानं यस्य कस्यचित्यत्र कुत्रचिदुत्पत्तिप्रलययोर्यत्स्थानम्, तदहमेव । निधानं निधीयत इति निधानम्, उत्पाद्यम् उपसंहार्यं चाहमेव+इत्यर्थः; अव्ययं बीजं तत्र तत्र व्ययरहितं यत्कारणम्, तदहमेव ॥९,१८॥

* तपाम्यहं अहं वर्षं निगृह्णाम्यित्युत्सृज्यामि च ।
* अमृतं चैव मृत्युश्च सदसच्चाहम् अर्जुन ॥९,१९॥

अग्न्यादित्यादिरूपेणाहमेव तपामि; ग्रीष्मादावहमेव वर्षं निगृह्णामि । तथा वर्षासु चाहमेव+उत्सृजामि । अमृतं चैव मृत्युश्च । येन जीवति लोको येन च म्रियते, तदुभयं अहमेव । किम् अत्र बहुना+उक्तेन; सदसच्चाहमेव । सत्यद्वर्तते, असत्यततीतम् अनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्तत्प्रकारो ऽहमेवावस्थित इत्यर्थः । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारो ऽहमेवावस्थित इत्येकत्वज्ञानेनाननुसंदधानाश्च माम् उपासते ॥९,१९॥

एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तम् उक्त्वा तेषामेव विशेषं दर्शयितुम् अज्ञानां कामकामानां वृत्तं आह

* त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
* ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् ॥९,२०॥
* ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
* एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥९,२१॥

ऋग्यजुस्सामरूपास्तिस्रो विद्याः त्रिविद्यम्; केवलं त्रिविद्यनिष्ठास्त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः । त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं मामेव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर्ज्ञानयज्ञेन च मदेकप्राप्या मामेव+उपासते । त्रैविद्यास्तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात्पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर्यज्ञैर्वस्तुतस्तद्रूपं माम् इष्ट्वा, तथावस्थितं माम् अजानन्तः स्वर्गगतिं प्रार्थयन्ते । ते पुण्यं दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगान् अश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्मम् अनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीन् अनुभूय पुनः पुनर्निवर्तन्त इत्यर्थः ॥९,२०,२१॥

महात्मनस्तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा माम् अनवधिकातिशयानन्दं प्राप्यन पुनरावर्तन्त इति तेषां विशेषं दर्शयति

* अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
* तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥९,२२॥

अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभात्मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनम् उपासते, तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम्, अहं मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमं च वहामि ॥९,२२॥

* ये त्वन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः ।
* ते ऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥९,२३॥

ये त्विन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन् यजन्ते, ते ऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वात्वस्तुतो मामेव यजन्ते; अपि त्वविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, “चतुर्होतारो यत्र संपदं गच्छन्ति देऐः” इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानाम् इन्द्रादीनाम् आराध्यत्वं विदधतात्मभूतस्य परमपुरुषस्यैव साक्षादाराध्यत्वं विदधाति । चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्यात्मतया+अवस्थिते सत्येव तच्छरीरभूतेन्द्रादिदेवैः; संपदं गच्छन्ति इन्द्रादिदेवानाम् आराधनान्येतानि कर्माणि+इति+इमां संपदं गच्छन्ति+इत्यर्थः ॥९,२३॥

अतस्त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्येतानि कर्माणि; आराध्यश्च स एव+इति न जानन्ति, ते च परिमितफलभागिनश्च्यवनस्वभावाश्च भवन्ति; तदाह

* अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
* न तु माम् अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥९,२४॥

प्रभुरेव च तत्र तत्र फलप्रदाता चाहमेव इत्यर्थः ॥९,२४॥

अहो महदिदं वैचित्र्यम्, यदेकस्मिन्नेव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवनस्वभावाश्च भवन्ति; केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनो ऽपुनरावर्तिनश्च भवन्ति+इत्याह

* यान्ति देवव्रता देवान् पित्ह्न् यान्ति पितृव्रताः ।
* भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनो ऽपि माम् ॥९,२५॥

व्रतशब्दः सङ्क्ल्पवाची; देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति । ये च पितृयज्ञादिभिः पित्ह्न् यजामहे इति पितृयजनसङ्कल्पाः, ते पित्ह्न् यान्ति । ये च “यक्षरकषःपिशाचादीनि भूतानि यजामहे” इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति । ये ते तैरेव यज्ञैः “देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे” इति मां यजन्ते, ते मद्याजिनो मामेव यान्ति । देवादिव्रताः देवादीन् प्राप्य तैस्सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस्सह विनष्टा भवन्ति । मद्याजिनस्तु माम् अनादिनिधनं सर्वज्ञं सत्यसङ्कल्पम् अनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिम् अनवधिकातिशयानन्दं प्राप्य न पुनर्निवर्तन्त इत्यर्थः ॥९,२५॥

मद्याजिनाम् अयम् अपि विशेषो ऽस्ति+इत्याह

* पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
* तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥९,२६॥

सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणम् अलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति; तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत्तथाविधभक्त्युपहृतम्, अहं सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पो ऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानो ऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, “याः क्रियाः संप्रयुक्तास्स्युरेकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम” इति ॥९,२६॥

यस्मात्ज्ञानिनां महात्मनां वाङ्मनसागोचरो ऽयं विशेषः, तस्मात्त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म च+इत्थं कुर्वित्याहा

* यत्करोषि यदश्नासि यज् जहोषि ददासि यत् ।
* यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥९,२७॥

यत्देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच्च देहधारणायाश्नासि, यच्च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत्सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्यर्पणं सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वम् आराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतदुक्तं भवति यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर्भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्येव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारम् आराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय; तव मन्नियाम्यतापूर्वकमच्छेषतैकरसताम् आराध्यादेस्चैतत्स्वभावगर्भताम् अत्यर्थप्रीतियुक्तो ऽनुसंधत्स्व इति ॥९,२७॥

* शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
* संन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि ॥९,२८॥

एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनम् अनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैरनन्तैः प्राचीनकर्माख्यैर्बन्धनैर्मत्प्राप्तिविरोधिभिस्सर्वैर्मोक्ष्यसे; तैर्विमुक्तो मामेव+उपैष्यसि ॥९,२८॥

मम+इमं परमम् अतिलोकं स्वभावं शृणु

* समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ।
* ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥९,२९॥

देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश्चाकारतः स्वभावतो ज्ञानतश्चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समो ऽहम्; अयं जात्याकारस्वभावज्ञानादिभिर्निर्कृष्ट इति समाश्रयणे न मे द्वेष्यो ऽस्ति उद्वेजनीयतया न त्याज्यो ऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिरत्यन्तोत्कृष्टो ऽयम् इति तद्व्युक्ततया समाश्रयणे न कश्चित्प्रियो ऽस्ति न संग्राह्यो ऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभात्मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिरुत्कृष्टा अपकृष्टा वा मत्समानगुणवत्यथासुखं मय्येव वर्तन्ते । अहम् अपि तेषु मदुत्कृष्टेष्विव वर्ते ॥९,२९॥

तत्रापि

* अपि चेत्सुदुराचारो भजते माम् अनन्यभाक् ।
* साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥९,३०॥

तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश्च, तस्मादतिवृत्तो ऽप्युक्तप्रकारेण माम् अनन्यभाक् भजनैकप्रयोजनो भजते चेत्, साधुरेव सः वैष्णवाग्रेसर एव सः । मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस्सम इत्यर्थः । कुत एतत? सम्यग्व्यवसितो हि सः यतो ऽस्य व्यवसायः सुसमीचीनः भगवान्निखिलजगदेककारणभूतः परं ब्रह्म नारायणश्चराचरपतिरस्मत्स्वामी मम गुरुर्मम सुहृत्मम परमं भोग्यम् इति सर्वैर्दुष्प्रापो ऽयं व्यवसायस्तेन कृतः; तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति अतः साधुरेव; बहुमन्तव्यः । अस्मिन् व्यवसाये, तत्कार्ये च+उक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यम् इति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एव+इत्यर्थः ॥९,३०॥

ननु “नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशन्तमानसो वा+अपि प्रज्ञानेनैनम् आप्नुयात् ॥” इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धि+इत्यत्र आह

* क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
* कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥९,३१॥

मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतया+एव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रमेव विरोधिरहितसपरिकरमद्भजनैकमना भवति । एवंरूपभजनमेव हि “धर्मस्यास्य परन्तप” इति उपक्रमे धर्मशब्दोदितम् । शश्वच्छान्तिं निगच्छति शश्वतीम् अपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वमेवास्मिन्नर्थे प्रतिज्ञां कुरु मद्भक्तावुपक्रान्तो विरोध्याचारमिश्रो ऽपि न नश्यति; अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिम् अधिगम्य क्षिप्रं परिपूर्णभक्तिर्भवति+इति ॥९,३१॥

* मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः ।
* स्त्रियो वैश्यास्तथा शूद्रास्ते ऽपि यान्ति परां गतिम् ॥९,३२॥
* किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
* अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥९,३३॥

स्त्रियो वैश्याः शूद्राश्च पापयोनयो ऽपि मां व्यपाश्रित्य परां गतिं यान्ति; किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश्च मद्भक्तिम् आस्थिताः । अतस्त्वं राजर्षिरस्थिरं तापत्रयाभिहततया असुखं च+इमं लोकं प्राप्य वर्तमानो मां भजस्व ॥९,३२,३३॥

भक्तिस्वरूपं आह

* मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
* मामेवैष्यसि युक्त्वा+एवम् आत्मानं मत्परायणः ॥९,३४॥

मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्यौदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावदविच्छेदेन निविष्टमना भव । तदेव विशिनष्टि मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भव+इत्यर्थः । पुनर्पि विशिनष्टि मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्तिः । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः । यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भव+इत्युक्तं भवति । पुनरपि तदेव विशिनष्टि मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन् मय्यन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायणः अहमेव परम् अयनं यस्यासौ मत्परायणः; मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः । एवम् आत्मानं युक्त्वा मत्परायणसेवम् अनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य मामेवैष्यसि । आत्मशब्दो ह्यत्र मनोविषयः । एवंरूपेण मनसा मां ध्यात्वा माम् अनुभूय माम् इष्ट्वा मां नमस्कृत्य मत्परायणो मामेव प्राप्स्यसि+इत्यर्थः । तदेवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो मया+एव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगत्मच्छेषतैकरसम् इति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहरुक्तलक्षणम् इदम् उपासनम् उपाददानो मामेव प्राप्स्यसि ॥९,३४॥